बिलनिर्गतवानराणां वृत्तान्तमाह तत इत्यादिभिः । ततः स्वयं प्रभाबोधनान्तरम् अपारम् अदृश्यमानपारकं घोरैः ऊर्मिभिः आकुलं व्याप्तम् अत एव अभिगर्जन्तं वरुणालयं सागरं ते वानराः ददृशुः ॥ ४।५३।१ ॥
मयस्येति । मयस्य मायाविहितं गिरिदुर्गं विचिन्वतां वानराणां यः समयो राज्ञा सुग्रीवेण कृतः स मासो व्यतीतः ॥ ४।५३।२ ॥
विन्ध्यस्येति । तदा मासव्यतीतसमये संप्रपुष्पितपादपे विन्ध्यस्य गिरेः पादे प्रदेशविशेषे उपविश्य महात्मानो वानराः चिन्तामापेदिरे ॥ ४।५३।३ ॥
तत इति । पुष्पाणामतिभारो येषु तान्येव अग्राणि येषां तान् वासन्तिकान् वसन्तकालकानिव द्रुमान् दृष्ट्वा भयशङ्किता बभूवुः । वासन्तिकशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः । एतेन तद्देशस्य प्रभावातिशयः सूचितः ॥ ४।५३।४ ॥
ते इति । ते वानराः अनुप्राप्तं वसन्तं परस्परं प्रतिवेद्य वसन्तचिह्नहेतुकानुमानेन बोधयित्वा नष्टः संदेशकालरूपो ऽर्थो येषां ते व्यतीतावधिमासका इत्यर्थः, वानरा धरणीतले निपेतुः । एतेन तेषां शोकहेतुका भ्रान्तिः सूचिताः । किं च वसन्तं बुद्धावारूढमनुप्राप्तं तं कालात्ययं परस्परं प्रतिवेद्य ते वानराः धरणीतले निपेतुः ॥ ४।५३।५ ॥
तत इति । सिंहवृषस्कन्धः सिंहवृषस्कन्धसदृशस्कन्धविशिष्टः पीनायतभुजः स्थूलदीर्घभुजविशिष्टो महाप्राज्ञः सो ऽङ्गदः शिष्टान् आप्तान् कपिवृद्धान् मधुरया वाचा आभाष्य संबोध्य अनुमान्य सत्कृत्य च अब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ४।५३।६,७ ॥
तद्वचनाकारमाह शासनादिति । कपिराजस्य शासनात् ये वयं विनिर्गतास्तेषां बिलस्थानामस्माकं मासः पूर्णः किं न बुध्यत ॥ ४।५३।८ ॥
वयमिति । आश्वयुजे आश्विने मासि कालसंख्याव्यवस्थिताः कालसंख्यायां संस्थापिताः वयं प्रस्थिताः सः नियमितकालः अतीतः अतः उत्तरमस्माभिः किं कार्यम् ॥ ४।५३।९ ॥
तदेव भङ्गयन्तरेणाह भवन्त इति । प्रत्ययं राजविश्वासं प्राप्ताः नीतिमार्गविशारदाः अत एव सर्वकर्मसु निसृष्टाः यथाकालं नियोजिताः अत एव कर्मसु क्रियासु अप्रतिमाः अनुपमाः अत एव दिक्षु विश्रुतपौरुषाः अत एव भर्तुः हितेषु अभिरताः अत एव पिङ्गाक्षप्रतिचोदिताः सुग्रीवप्रेरिताः भवन्तः मां पुरस्कृत्य निर्गताः । श्लोकद्वयमेकान्वयि ॥ ४।५३।१०,११ ॥
इदानीमिति । इदानीं संयोजितकाले अकृतार्थानाम् अकृतराजप्रयोजनानामस्माकं कर्तव्यं सुग्रीवोक्तमिति शेषः । तत्र हेतुः हरिराजस्य सुग्रीवस्य संदेशमुपदिष्टमकृत्वा कः सुखी भवेत् न को ऽपीत्यर्थः, अत्र संशयो न ॥ ४।५३।१२ ॥
ननु तत्करणे सामर्थ्यं नास्तीत्यत आह– अस्मिन्निति । सुग्रीवेण कृते नियमिते अस्मिन्काले अतीते सति प्रायोपवेशनं मरणाय अनशनं वनौकसां युक्तम् ॥ ४।५३।१३ ॥
तदभावे न निर्वाह इत्याह– तीक्ष्ण इति । स्वामिभावे राजधर्मे व्यवस्थितः प्रकृत्या तीक्ष्णः सुग्रीवः अपराधकृतः गतान्संप्राप्तान् अस्मान् न क्षमिष्यति ॥ ४।५३।१४ ॥
अप्रवृत्ताविति । सीतायाः अप्रवृत्तौ प्रवृत्यलाभे सति सुग्रीवः पापं वधं करिष्यत्येव । तस्मात् इह अस्मिन् स्थाने पुत्रादिंस्त्यक्त्वा तदास्थां संत्यज्य प्रायोपवेशनं गन्तुम् अद्यैव क्षमं युक्तम् । सार्धश्लोक एकान्वयी ॥ ४।५३।१५ ॥
ध्रुवमिति । इतः गतान् नो ऽस्मान् राजा सुग्रीवो ध्रुवं हिंसते हिनस्ति हनिष्यति अतः अप्रतिरूपेण अपराधाभावादसदृशेन वधेन असदृशवधात् इह मृत्युरेव श्रेयान् ॥ ४।५३।१६ ॥
ननु “विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्” इति न्यायेन युवराजत्वेनाभिषेचितं त्वां सुग्रीवः कथं हनिष्यतीत्यत आह– नेति । यौवराज्येन युवराजत्वेन सुग्रीवेणाहं नाभिषेचितः किं तु रामेणाभिषिक्तो ऽस्मि ॥ ४।५३।१७ ॥
स्ववदस्यावश्यकत्वमाह– स इति । पूर्वं बद्धवैरः वालिवैरद्वारा बद्धः संपादितः वैरो येन स राजा सुग्रीवः व्यतिक्रमम् अतीतकालं मां दृष्ट्वा कृतनिश्चयो वधविषयकनिश्चयवान् सन् तीक्ष्णेन दण्डेन घातयिष्यति ॥ ४।५३।१८ ॥
किमिति । जीवितान्तरे जीवनावधिमध्ये मे व्यसनं राजहस्तात् मरणं पश्यद्भिः किं कर्तव्यमिति शेषः, न किमपीत्यर्थः । एतेन मत्सुहृदामप्यधिकः खेदो भविष्यतीति सुचितम् । अतः इह अस्मिन् पुण्ये सागररोधसि प्रायमासिष्ये ॥ ४।५३।१९ ॥
एतदिति । कुमारेणाङ्गदेन एतत् भाषितं श्रुत्वा वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ४।५३।२० ॥
तद्वाक्याकारमाह तीक्ष्ण इति । राघवः प्रियारक्तः प्रियाविषयकात्यनुरागवान् सुग्रीवाचरितवधवारणानर्ह इति तात्पर्यम् । अतः तस्मिन् संकेतिते समये गते सति अकृतकार्यान् अस्मान् समीक्ष्य अनुमानेन निश्चित्य वैदेह्याम् अदृष्टायां सत्यां समागतान् राघवप्रियकामाय प्रकृत्या तीक्ष्णः सुग्रीवः घातयिष्यति । अर्धचतुष्टमेकान्वयि ॥ ४।५३।२१,२२ ॥
नेति । अपराद्धानाम् अबुद्धिपूर्वमपि जातापराधानां स्वामिपार्श्वतः स्वामिपार्श्वे गमनं न क्षमम् अतः समागताः सुग्रीवस्य प्रधानभूताः सेवका इति शेषः । वयं सीतामन्विष्य प्रवृत्तिं वृत्तान्तमुपलभ्य च वीरं सुग्रीवं गच्छामः नो चेद्वृत्तान्तज्ञानाभावे इहैव देहं त्यक्त्वेति शेषः । यमक्षयं यमगृहं गच्छाम गच्छेम । अर्धचतुष्टमेकान्वयि ॥ ४।५३।२३,२४ ॥
प्लवङ्गमानामिति । भयार्दितानां प्लवङ्गमानां वचः श्रुत्वा यदि वो रोचते तर्हि मायाविहितमिदं बिलं प्रविश्य सर्वे वयं वसाम इह बिले पुरन्दरादिभ्यो नो भयं न अतो विषादेन अलं न कर्तव्यमित्यर्थः । इदं वचस्तारो बभाषे । अर्धचतुष्टयमेकान्वयि ॥ ४।५३।२५,२६ ॥
श्रुत्वेति । अङ्गदस्य अपिना तारस्य अनुकूलमविरोधं वचः श्रुत्वा प्रतीतास्तद्वचने जातविश्वासाः सर्वे हरयः यथा वयं न हन्येम तथा विधानं कृत्यमसक्तं प्राणापहारके आसक्तिरहितं यथा भवति तथा अद्यैव नो ऽस्माभिर्विधीयतामित्यर्थः ॥ ४।५३।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥ ४।५३ ॥