०५२ वानरैः स्वगमनहेतुकथनम्

वानरान् प्रति मेरुसावर्णितनयोक्तिमेवाह– अथेति । अथ वानरकर्तृकभोजनाद्यनन्तरं विश्रान्तान् हरियूथपान् एकाग्रा यतचित्ता तापसी इदमब्रवीत् ॥ ४।५२।१ ॥

तद्वचनाकारमाह– वानरा इति । हे वानराः फलभक्षणात् यदि वः खेदः प्रनष्टः यदि च एतत् मत्पृष्टं मया श्राव्यं तर्हि श्रोतुमिच्छामि अतः कथ्यताम् ॥ ४।५२।२ ॥

तस्या इति । तस्यास्तापस्यास्तद्वचनं श्रुत्वा मारुतात्मजो हनुमान् आर्जवेन सरलतया यथातत्त्वं याथार्थ्यमनतिक्रम्य आख्यातुमुपचक्रमे ॥ ४।५२।३ ॥

तदाख्यानमेवाह राजेति । सर्वस्य लोकस्य भुवनस्व राजा महेन्द्रवरुणौ उपमा यस्य स रामो लक्ष्मणेन भ्रात्रा वैदेह्या भार्यया च सह दण्डकावनं प्रविष्टः । सार्धश्लोक एकान्वयी ॥ ४।५२।४ ॥

तस्येति । तस्य रामस्य भार्या बलात् स्वस्वरूपाच्छादनात् संन्यासिवेषेणेत्यर्थः, रावणेन जनस्थानात् हृता । एतेन सीताया आभरणप्रक्षेपसमये रावणस्य संन्यासिवेषो हनुमता ऽवलोकित इति सूचितम् । अर्धं पृथक् ॥ ४।५२।५ ॥

वीर इति । येन अङ्गदप्रमुखैः सहिता वयं वयं वः रामसख्यरक्षणस्य अयः प्राप्तिर्यस्मिन् तत् यथा भवति तथा दक्षिणां दिशं प्रस्थापिताः स वानरमुख्यानां राजा सुग्रीवो नाम वानरः राज्ञो रामस्य सखा । श्लोकद्वयमेकान्वयि ॥ ४।५२।६,७ ॥

रावणमिति । सीतया सह कामरूपिणं रावणं सहिताः सर्वे यूयं मार्गध्वमिति चोदिताः सुग्रीवेण प्रेरिता वयं समुद्रं विचेतुकामाः सन्त इति शेषः, दक्षिणां दिशं विचित्य बुभुक्षिताः सन्तः वृक्षमूलमुपाश्रिताः प्राप्ताः । श्लोकद्वयमेकान्वयि ॥ ४।५२।८,९ ॥

विवर्णेति । ध्यानपरायणाः सुग्रीवाज्ञास्मरणनिरताः सर्वे वयं नाधिगच्छामहे सीतावृत्तान्तं न जानीमः । अतः चिन्तामहार्णवे शोकसागरे इत्यर्थः, मग्ना अत एव विवर्णवदनाः वयं पारं शोकसागरस्यान्तं नाधिगच्छामहे प्राप्नुमः । अधिगच्छामहे इति शब्दावृत्त्या उभयान्वयि ॥ ४।५२।१० ॥

चारयन्त इति । ततस्तस्मिन् समये चक्षुश्चारयन्तो वयं लतापादसंपन्नं महत् वनं दृष्टवन्तो ऽभवाम ॥ ४।५२।११ ॥

अस्मादिति । सलिलरेणुभिः पक्षैः उपलक्षिताः जलक्लिन्ना हंसादयः अस्मात् बिलात् निष्पतन्ति अत्र ध्रुवं जलमस्तीति तात्पर्यम् । अत्र बिले साधु प्रविशामेति प्लवङ्गमा मयोक्ताः । सार्धश्लोक एकान्वयी ॥ ४।५२।१२ ॥

तेषामिति । तेषां मयोक्तवानराणाम् अनुमानम् अनुमानेन जलसत्तानिश्चयः उपागतम् । अथ अतः कार्यत्वरान्विताः जलपानविषयकत्वरायुक्ताः सर्वे अस्मिन् बिले बिलसमीपे निपतिताः ॥ ४।५२।१३ ॥

तत इति । ततस्तदा निपतीता वानराः गाढं यथा भवति तथा हस्तैः परस्परं गृह्या गृहीत्वा इदं बिलं प्रविष्टाः ॥ ४।५२।१४ ॥

एतदिति । एतत् पिपासादिशमनरूपं नो ऽस्माकं कार्यम् । एतेनैव कृत्येन कार्येण वयमागताः बिलप्राप्ताः । अर्धं पृथक् ॥ ४।५२।१५ ॥

त्वामिति । बुभुक्षिता अत एव परिद्यूनाः क्षीणा ये सर्वे वानराः त्वामुपागतास्तैरस्माभिः आतिथ्यधर्मदत्तानि फलानि उपभुक्तानि । सार्धश्लोक एकान्वयी ॥ ४।५२।१६ ॥

यदिति । बुभुक्षया म्रियमाणाः सर्वे वानराः यद्यस्मात् त्वया रक्षिताः तस्मात् प्रत्युपकारार्थं वानरास्ते किं कुर्वन्तु तद्ब्रूहि ॥ ४।५२।१७ ॥

एवमिति । एवमुक्ता सर्वज्ञा स्वयंप्रभा वानरयूथपानिदं प्रत्युवाच ॥ ४।५२।१८ ॥

तत्प्रतिवचनाकारमाह सर्वेषामिति । सर्वेषां वानराणां परितुष्टा ऽस्मि प्रत्युपकारकरणमन्तरैवेति शेषः । ननु प्रत्युपकारः कार्य एवेत्यत आह धर्मेण चरन्त्या मम कार्यं कर्तव्यं केनचित् न कार्यम् । एतेन स्वधर्माचरणमन्तरा मे कार्यं नास्तीति सूचितम् ॥ ४।५२।१९ ॥

एवमिति । एवमुक्तो हनुमान् अनिन्दितचेष्टितां तामुवाच ॥ ४।५२।२० ॥

तद्वचनाकारमाह शरणमिति । हे धर्मचारिणि शरणं रक्षिकां त्वां वयं प्रपन्नाः प्राप्ताः स्मः । एतेन रक्षा कर्तव्येति सूचितम् । अर्धं पृथक् ॥ ४।५२।२१ ॥

ननु युष्माकं रक्षा कथं भविष्यतीत्यत आह– य इति द्वाभ्याम् । अस्मासु यः समयः कालनियमः सुग्रीवेण कृतः स कालस्ते बिले परिवर्ततामस्माकं व्यतीतः ॥ ४।५२।२२ ॥

सेति । सुग्रीववचनात् अतिक्रान्तान् अत एव गतायुषो ऽस्मान् अस्माद्बिलात् उत्तारयितुं त्वमर्हसि ॥ ४।५२।२३ ॥

त्रातुमिति । उपसंहरन्नाह सुग्रीवभयशङ्कितान् अस्मान् त्रातुं त्वमर्हसि । ननु तत्कार्यसाधनायागतानां युष्माकं कथं भीतिरित्यत आह यत् महत्कार्यं सीतान्वेषणमस्माभिः कर्तव्यं तदपि न कृतम् । सार्धश्लोक एकान्वयी ॥ ४।५२।२४ ॥

एवमिति । हनुमता एवमुक्ता तापसी अब्रवीत् । अर्धं पृथक् ॥ ४।५२।२५ ॥

तद्वचनाकारमाह जीवतेति । प्रविष्टेन मदाज्ञामन्तरा इहागतेन जीवता निवर्तितुं दुष्करं मन्ये । अर्धं पृथक् । ननु का गतिरस्माकमित्यत आह तपस इति । नियमोपार्जितेन नियमयमादिना प्रकटितेन तपसो ज्ञानस्य प्रभावेण सर्वान् वानरान् बिलात्तारयिष्याम्येव ॥ ४।५२।२६ ॥

निष्क्रमणोपायमाह निमीलयतेति । हे वानरपुङ्गवाः अनिमीलितलोचनैः निष्कमितुं न शक्यम् अतः चक्षूंषि निमीलयत ॥ ४।५२।२७ ॥

तत इति । ततस्तस्मिन्समये निमीलितुमाज्ञप्ताः गमनकाङ्क्षया हृष्टाः सर्वे वानराः सुकुमाराङ्गुलैः सुकुमाराङ्गुलविशिष्टैः करैः दृष्टिं चक्षुः सहसा पिदधुः ॥ ४।५२।२८ ॥

वानरा इति । हस्तरुद्धमुखा एव वानराः निमेषान्तरमात्रेण तया स्वयंप्रभयैव बिलात् उत्तारिताः । उवा एवार्थौ । च अनन्तरं धर्मचारिणी निःसृतान् वानरान् समाश्वास्य इदमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ४।५२।२९,३० ॥

तद्वचनाकारमाह एष इति । एषः भवद्भिरागन्तव्यः विन्ध्यो गिरिः एषः प्रस्रवणः शैलः अयं महोदधिः सागरः भवद्भिः प्राप्त इति शेषः, अतः अहं भवनं गमिष्यामि वो स्वस्त्यस्तु । इत्युक्त्वा स्वयम्प्रभा तद्बिलं प्रविवेश । अयं प्रस्रवणः किष्किन्धासमीपवर्तिप्रस्रवणादन्य इति बोध्यम् । अर्धचतुष्टयमेकान्वयि ॥ ४।५२।३१,३२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्विपञ्चाशत्तमः सर्गः ॥ ४।५२ ॥