०५१ स्वयम्प्रभावृत्तान्तकथनम्

तापसीं प्रति हनुमदुक्तिमेवाह इतीत्यादिभिः । इति अनेन प्रकारेण उक्त्वा पृष्ट्वा हनूमान् तां तापसीमब्रवीत् ॥ ४।५१।१ ॥

तद्वचनाकारमाह इदमित्यादिभिः । क्षुत्पिपासापरिश्रान्ताः अत एव परिखिन्नाः वयम् इदं बिलं सहसा प्रविष्टाः ॥ ४।५१।२ ॥

महदिति । धरण्याः महद्विवरं प्रविष्टा वयं एवंविधान् विविधान् अनेकान् अद्भुतोपमान् अद्भुतपदार्थसदृशान् इमान् भावान् पदार्थान् दृष्ट्वा प्रव्यथिताः संचलितचित्ताः अत एव संभ्रान्ताः भीताः अत एव नष्टचेतसः ध्वस्तविवेकाः स्म स्मः । सार्धश्लोक एकान्वयी ॥ ४।५१।३ ॥

कस्येति । एते वृक्षादयः कस्य । सार्धश्लोक एकान्वयी ॥ ४।५१।४६ ॥

इमे इति । कस्य तेजसा इमे पादपाः जाम्बूनदमयाः सुवर्णोपादानकाः पद्मानि च काञ्चनानि जातानि ॥ ४।५१।७ ॥

कथमिति । कच्छपैः सह मत्स्याः सौवर्णाः कथं दृश्यन्ते अयमेतत्सर्वनिर्मापकः आत्मनस्तव अनुभावाद्वा कस्यचित्तपोबलं वा, अजानतां नो ऽस्माकं समीपे सर्वमाख्यातुमर्हसि । सार्धश्लोक एकान्वयी ॥ ४।५१।८ ॥

एवमिति । हनुमता एवमुक्ता तापसी हनूमन्तं प्रत्युवाच ॥ ४।५१।९ ॥

मय इति । मयो नाम महातेजा यो मायावी तेन इदं काञ्चनं वनं निर्मितम् ॥ ४।५१।१० ॥

तन्निर्माणशक्तिलाभे कारणं वदन्ती आह– पुरेति । येन इदं काञ्चनं भवनोत्तमं निर्मितं स पुरा पूर्वं दानवमुख्यानां विश्वकर्मा शिल्पी बभूव ॥ ४।५१।११ ॥

स इति । स शिल्पी महावने वर्षसहस्राणि तपस्तप्त्वा औशनसम् उशनःसंबन्धि धनं सर्जनसामर्थ्यं सर्जनसामग्रीजातं च वरं पितामहाल्लेभे ॥ ४।५१।१२ ॥

विधायेति । तदा लब्धवरसमये सर्वकामेश्वरः सर्वविषयनिर्माणे स्वतन्त्रः मयः सर्वमिदं वनादि विधाय निर्माय अस्मिन् स्वनिर्मिते महावने सुखितः सन् कंचित्कालमुवास ॥ ४।५१।१३ ॥

तमिति । हेमायां तदभिधायाम् अप्सरसि सक्तं दानवपुङ्गवं तं मयमशनिं वज्रं गृह्य गृहीत्वा विक्रम्य युद्धं कृत्वा पुरन्दरो जघान ॥ ४।५१।१४ ॥

इदमिति । इदमुत्तमं वनं शाश्वतः सार्वकालिकः कामभोगाश्च हिरण्मयं गृहं च ब्रह्मणा हेमायै दत्तम् ॥ ४।५१।१५ ॥

ननु त्वं का ऽस्तीत्यत आह– दुहितेति । मेरुसावर्णेः दुहिता ऽहं तस्याः हेमायाः स्वयंप्रभा तदभिधमिदं भवनं रक्षामि । वाक्यार्थस्य कर्मतया ऽन्वयान्न द्वितीया, स्वयम्प्रभाशब्दस्य मेरुसावर्णिहितुर्नामत्वे तु भवनमिति द्वितीयान्तमेव ॥ ४।५१।१६ ॥

ननु त्वं किमर्थं रक्षसीत्यत आह ममेति । नृत्यगीतविशारदा हेमा मम प्रियसखी अतः तया आदत्तः गृहीतो वरः स्वभवनरक्षारूपः यस्याः सा ऽहं महद्भवनं रक्षामि ॥ ४।५१।१७ ॥

किमिति । कस्य जनस्य हेतोः किं कार्यं कृत्यं भवतामस्ति वा यतः कान्ताराणि दुर्गमपथान् प्रपद्यथ दुर्गं दुर्गममिमं वनं युष्माभिः कथमुपलक्षितम् आगत्य अवलोकितम् ॥ ४।५१।१८ ॥

म्लानमुखान् तान् दृष्ट्वा आह– शुचीनीति । अभ्यवहाराणि भक्षणीयानि शुचीनि मूलानि फलानि भुक्त्वा पानीयं पीत्वा च सर्वं मे पृष्टं वक्तुमर्हथ ॥ ४।५१।१९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकपञ्चाशत्तमः सर्गः ॥ ४।५१ ॥