तदन्वेषणमेवाह सहेत्यादिभिः । हनूमान् कपिस्ताराङ्गदाभ्यां सह सङ्गम्य नगेन्द्रस्य विन्ध्यस्य विषमेषु दुर्गमेष्वित्यर्थः, महाप्रस्रवणेषु तत्समीपेषु वर्तमानाः सिंहशार्दूलजुष्टाः गुहाः बहुगुहावत्यः गुहावनानि च विचिनोति व्यचिनोत् । श्लोकद्वयमेकान्वयि ॥ ४।५०।१,२ ॥
आसेदुरिति । तस्य उक्तस्य शैलस्य दक्षिणपश्चिमां नैऋ़त्यकोणस्थां कोटिं शृङ्गमासेदुः तत्रैव शृङ्गे वसतां तेषां सः अमार्गणीयः कालः रात्रिसमयः व्यत्यवर्तत व्यतीतो ऽभवत् ॥ ४।५०।३ ॥
स इति । गुहागहनवान् स देशः यद्यपि दुरन्वेष्यस्तथापि वायुसुतो हनुमान् विचिनोति स्म । अन्यकर्तृकविचयनस्यापि सत्त्वे ऽपि प्राधान्यात् हनुमन्मात्रोक्तिः ॥ ४।५०।४ ॥
अन्वेषणप्रकारमाह परस्परेणेति । अन्योन्यस्य अविदूरतः समीपे एव स्थिताः परस्परेण रहिताः साहाय्यहीनाः गजादयः दक्षिणां दिशं विचिन्वन्तः सन्तः ततस्तान् प्रसिद्धान् गिरिजालावृतान् पर्वतसमूहाच्छादितान् देशान्मर्गित्वा तत्र देशे विवृतमनाच्छादितद्वारं बिलं ददृशुः । श्लोकत्रयमेकान्वयि ॥ ४।५०।५७ ॥
दुर्गमिति । दानवेनाभिरक्षितमत एव दुर्गं दुर्गमं लतावृक्षैरवकीर्णम् ऋक्षबिलं नाम महाबिलं क्षुत्पिपासापरीताः अत एव श्रान्ताः खिन्ना अत एव सलिलार्थिनः वानराः ददृशुः । सार्धश्लोक एकान्वयी ॥ ४।५०।८ ॥
तत्रेति । तत्र तस्मात् बिलात् पद्मरेणुभिः रक्ताङ्गाः जलार्द्राः क्रौञ्चादयः निष्क्रमन् निरक्रमन् । अर्धद्वयमेकान्वयि ॥ ४।५०।९ ॥
तत इति । ततो दर्शनानन्तरं सुगन्धि वक्ष्यमाणपुष्पितदिव्यतरुवायुसंबन्धात् शोभनगन्धयुक्तं तद्बिलमासाद्य प्राप्य वानरर्षभाः विस्मयव्यग्रमनसः अपूर्वदर्शनजनितविस्मयहेतुकचञ्चलचित्ता बभुवुः ॥ ४।५०।१० ॥
संजातेति । संजाता शङ्का जलविषयकतर्को येषां ते अत एव संहृष्टाः प्लवगोत्तमाः नानासत्त्वसमाकीर्णम् अतिघोरं भयावहमित्यर्थः, दुर्दर्शं द्रष्टुमशक्यं दुर्विगाह्यं बिलम् अभ्यपद्यन्त । अर्धचतुष्टयमेकान्वयि ॥ ४।५०।११,१२ ॥
तत इति । कान्तारवनकोविदो दुर्गमारण्याभिज्ञाता हनुमान् घोरान् वानरान् अब्रवीत् ॥ ४।५०।१३ ॥
तद्वचनाकारमाह गिरीति । दक्षिणां दिशं प्राप्य गिरिजालावृतान् देशान् मार्गित्वा परिश्रान्ता वयं मैथिलीं न पश्यामः ॥ ४।५०।१४ ॥
अस्मादिति । जलार्द्राः हंसादयः अस्मात् बिलात् निष्पतन्ति तथा बिलद्वारि स्निग्धाः पादपास्तिष्ठन्ति अतः सलिलवान् कूपो वा यदि वा अथवा हृदो ऽस्तीति शेषः, नूनं निश्चितमेतत् । अर्धचतुष्टयमेकान्वयि ॥ ४।५०।१५,१६ ॥
इतीति । इति अनेन प्रकारेण उक्ताः हनुमता बोधिताः सर्वे हरयः अचन्द्रसूर्यं चन्द्रसूर्यादिरहितम् अत एव तिमिरावृतम् अत एव रोमहर्षणं भयजनकत्वेन रोमोद्गमकारकं तद्बिलं विविशुः ॥ ४।५०।१७ ॥
निशाम्येति । तस्मात् बिलात् निर्गच्छत इति शेषः । सिंहादीन् निशाम्य अवलोक्य हरिशार्दूलाः तिमिरसंवृतं बिलं प्रविष्टाः ॥ ४।५०।१८ ॥
नेति । तेषां वानराणां दृष्टिप्रभृति न सज्जते निरुध्यते । अत एव तेषां दृष्टिस्तमसि वर्तते वायोरिव गतिश्च ॥ ४।५०।१९ ॥
ते इति । प्रविष्टास्ते कपिकुञ्जराः प्रकाशं शोभितम् अभिरामं सुखप्रदं देशं ददृशुः दुरतो ऽवलुलोकिरे ॥ ४।५०।२० ॥
तत इति । ततस्तद्देशावलोकनानन्तरम् अन्योन्यं संपरिष्वज्य तद्देशावलोकनजनितानन्देनालिङ्ग्य तस्मिन् भीमे बिले योजनमन्तरं देशं जग्मुः ॥ ४।५०।२१ ॥
ते इति । तृषिताः पिपासावन्तः अत एव सलिलार्थिनः अत एव नष्टसंज्ञाः तल्लाभाभावहेतुकविवेकरहिताः अत एव संभ्रान्ताः चञ्चलचित्तास्ते वानराः तस्मिन् बिले परिपेतुः अत एव कंचित्कालमतन्द्रिता अभवन्निति शेषः ॥ ४।५०।२२ ॥
ते इति । परिश्रान्तास्तथा जीविते निराशाः प्लवङ्गमाः आलोकं प्रकाशितदेशं ददृशुः ॥ ४।५०।२३ ॥
तत इति । सौम्याः वानरास्ततस्तिमिरावृतदेशात् वितिमिरं तं प्रकाशदेशमागम्य वितिमिरं वनं ददृशुरित्युत्तरेणान्वयः ॥ ४।५०।२४ ॥
दर्शनप्रकारमाह ददृशुरिति । काञ्चनान् सुवर्णमयान् अत एव दीप्तवैश्वानरप्रभान् प्रदीप्ताग्निसदृशान् सालादीन् चित्रैरनेकविधैः काञ्चनैः अत एव रक्तैः स्तबकैः गुच्छैः किसलयैः पत्रैश्च आपीडैः अत्युन्नतोर्ध्वभागैश्च लताभिश्च युक्तान् हिरण्मयान् पादपान् तद्भिन्नवृक्षांश्च पतगैः पक्षिभिर्वृताः पद्मिनीश्च बालार्कसंन्निभैः काञ्चनैर्वृक्षैः जातरूपमयैर्मत्स्यैश्च महद्भिः पङ्कजैश्च वृताः प्रसन्नसलिलायुताः नलिनीः सरसीश्च ददृशुः । सार्धश्लोकपञ्चकमेकान्वयि ॥ ४।५०।२५३० ॥
काञ्चनानीति । काञ्चनानि राजतानि च विमानानि तपनीयाः गवाक्षाः वातायनाः येषु तानि मुक्ताजालैः मुक्तारचितकुड्यगतजालविशेषैरावृतानि हैमराजतभौमानि हेमादिमयानि वैदूर्यमणिवन्ति वैदूर्यमणिविशिष्टानि सर्वशो गृहमुख्यानि हरयो ददृशुः । श्लोकद्वयमेकान्वयि ॥ ४।५०।३१,३२ ॥
पुष्पितानिति । पुष्पितान् पुष्पविशिष्टान् फलिनः फलविशिष्टान् मणिसंनिभान् वृक्षान् काञ्चनभ्रमरान् स्वर्णमयचूडाविशिष्टमधुपांश्च मधूनि च मणिकाञ्चनचित्राणि विशालानि विस्तीर्णानि शयनानि आसनानि च ददृशुः । श्लोकद्वयमेकान्वयि ॥ ४।५०।३३,३४ ॥
हैमेति । बिले तत्र तत्र प्रतिप्रदेशे विचिन्वन्तो वानराः हैमादीनां भाजनानां राशयो राशीन् अगरूणां चन्दनानां च सञ्चयान् शूचीनि पवित्राणि अभ्यवहाराणि भक्षणीयानि मूलानि फलानि च महार्हाणि बहुमूल्यानि यानानि शिबिकादीनि च रसवन्ति मधुराणि मधूनि च अम्बराणां वस्त्राणां सञ्चयांश्च चित्राणां कम्बलानाम् अजिनानां सञ्चयान् काञ्चित् स्त्रियं च ददृशुः । सार्धश्लोकचतुष्टमेकान्वयि ॥ ४।५०।३५३८ ॥
तमिति । चीरकृत्स्नाजिनाम्बरां तेजसा ज्वलन्तीमिव तापसीं दृष्ट्वा भृशसंत्रस्ताः विस्मिताश्च सर्वे हरयः सर्वशः सर्वस्थलेषु व्यवतिष्ठन्त व्यवातिष्ठन्त । सार्धश्लोक एकान्वयी ॥ ४।५०।३९,४० ॥
तत इति । ततो तापसीदर्शनानन्तरं कृताञ्जलिर्हनुमान् वृद्धां तां तापसीमभिवन्द्य त्वं का भवनादीनि च कस्य इति त्वं वदस्व इति पप्रच्छ ॥ ४।५०।४१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चाशत्तमः सर्गः ॥ ४।५० ॥