वानरान् प्रति अङ्गदोक्तिमाह अथेति । अथ वृक्षमूलस्थित्यनन्तरं परिश्रान्तो महाप्राज्ञो ऽङ्गदः शनैः समाश्वास्य वानरान् इदं वचो ऽब्रवीत् ॥ ४।४९।१ ॥
तद्वचनाकारमाह वनानीत्यादिभिः । वनादयो ऽन्ततो विचिताः अस्माभिरिति शेषः ॥ ४।४९।२ ॥
तत्रेति । तत्र तत्र अन्वेषिते स्थले स्थले सहा दुःखानि सहमाना जानकी सीताया अप हर्ता रक्षश्च अस्माभिर्न दृश्यते अदन्तो रक्षःशब्दो ऽपि अत एव सान्ता अदन्ता अपि पक्षः सानुकूलः अत एव भट्टादिवन्नार्षकल्पना ॥ ४।४९।३ ॥
काल इति । कालः नियमितान्वेषणसमयः महान् बहुर्यातो व्यतीतः सुग्रीवश्च उग्रशासनस्तस्मात् सहिताः भवन्तो विचिन्वन्तु ॥ ४।४९।४ ॥
तदेव भङ्ग्यन्तरेणाह विहायेति । शोकं समुत्थितां निद्रां च विहाय सीतां यथा पश्यामस्तथा विचिनुध्वम् ॥ ४।४९।५ ॥
अनिर्वेदमिति । अनिर्वेदं खेदराहित्यं विरक्तिराहित्यं वा दाक्ष्यं सामर्थ्यं च मनसः अपराजयं न्यूनीकरणाभावं च कार्यसिद्धिकराणि आहुस्तस्मात् अहमेतद्ब्रवीमि ॥ ४।४९।६ ॥
अद्येति । विचिन्वताम् अन्वेषणसाधकानां करचरणादीनां खेदं श्रमं त्यक्त्वा विस्मृत्य अद्यापीदं वनं विचिन्वन्तु ॥ ४।४९।७ ॥
अवश्यमिति । क्रियमाणस्य कर्मणः फलमवश्यं दृश्यते अतः परं निर्वेदं कार्याद्विरक्तिमागम्य प्राप्य नोन्मीलनम् अनुन्मीलनमुत्साहाभाव इत्यर्थः नैव क्षमं युक्तम् ॥ ४।४९।८ ॥
सुग्रीव इति । वानरो राजा सुग्रीवः क्रोधनः कार्याभावे अतीवक्रोधयुक्तो भवतीत्यर्थः, अतस्तस्य सुग्रीवस्य महात्मनो रामस्य च भेतव्यम् । संबन्धसामान्यविवक्षया षष्ठी ॥ ४।४९।९ ॥
हितार्थमिति । हितार्थं हितसाधकमेतत् उक्तं मद्वचनं यदि वो रोचते तर्हि क्रियतां सर्वेषां यत्क्षमं युक्तं तदुच्यतां च ॥ ४।४९।१० ॥
अङ्गदस्येति । गन्धमादनो नाम वानरः अङ्गदस्य वचः श्रुत्वा पिपासाश्रमखिन्नया पिपासापरिश्रमोभयजनितखेदयुक्तया वाचा उवाच ॥ ४।४९।११ ॥
तद्वचनाकारमाह– सदृशमिति । यद्वाक्यमङ्गद उवाच तत् वः सदृशं योग्यमतः हितमनुकूलमस्याङ्गदस्य भाषितं क्रियतां युष्माभिरिति शेषः ॥ ४।४९।१२ ॥
पुनरिति । शैलादीन् पुनर्मार्गामहे ॥ ४।४९।१३ ॥
यथेति । सङ्गताः कृतसंमताः सर्वे भवन्तः सुग्रीवेणोद्दिष्टानि सर्वाणि गिरिदुर्गाणि यथावद्विचिन्वन्तु ॥ ४।४९।१४ ॥
तत इति । ततः गन्धमादनवचनश्रवणानन्तरं सीतादर्शनकाङ्क्षिणः महाबलाः वानराः समुत्थाय विन्ध्यकाननसंकीर्णां विन्ध्यवननिबिडां दक्षिणां दिशं विचेरुः ॥ ४।४९।१५ ॥
ते इति । शारदाभ्रप्रतिमं शरत्कालिकमेघसदृशं श्रीमद्रजतपर्वतं हरिवरास्ते वानराः अधिरुह्य तत्र रजतपर्वते विद्यमानं लोध्रवनं विचिन्वन्तः आसन्निति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४९।१६,१७ ॥
तस्येति । तस्य रजतपर्वतस्य अग्रमधिरूढाश्रान्तास्ते वानराः । वैदेहीं न पश्यन्ति स्म ॥ ४।४९।१८ ॥
ते इति । ते हरयो वानराः दृष्टिगतं दृष्टिविषयं शैलं बहुकन्दरं दृष्ट्वा अध्यारोहन्त अवारोहन्त ॥ ४।४९।१९ ॥
अवरुह्येति । श्रान्ताः परिश्रमवन्तः अत एव विगतचेतसः संचलितचित्ताः वानरास्ततः रजतपर्वतात् भूमिमवरुह्य प्राप्य वृक्षमूलमुपाश्रिताः सन्तस्तत्र मुहूर्तं स्थिताः बभूवुरिति शेषः ॥ ४।४९।२० ॥
ते इति । मुहूर्तं समाश्वस्ताः अत एव किंचित् भग्नपरिश्रमाः वानराः कृत्स्नां दक्षिणां दिशं मार्गितुं पुनरुद्यताः अभवन्निति शेषः ॥ ४।४९।२१ ॥
हनुमदिति । प्रस्थिताः उद्यताः कृतोद्योगाः हनुमत्प्रमुखाः प्लवगर्षभाः तावत् पूर्वं विन्ध्यमेव समन्ततो विचेरुः ॥ ४।४९।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४।४९ ॥