हनुमदादिवृत्तान्तमाह सहेत्यादिभिः । हनुमान् सुग्रीवेण उद्दिष्टं देशं गन्तुं प्रचक्रमे ॥ ४।४८।१ ॥
स इति । स हनुमान् कपिसत्तमैः सह दूरं दिशमुपागम्य विन्ध्यस्य गुहाः गहनानि च विचित्य अतिष्ठदिति शेषः ॥ ४।४८।२ ॥
पर्वतेति । सर्वदिशं पर्वतादीन् अन्वेषमाणाः सर्वे वानराः हनुमदादयः सीतां न ददृशुः । श्लोकद्वयमेकान्वयि ॥ ४।४८।३,४ ॥
ते इति । अन्वेषमाणास्ते सर्वे वानराः मूलानि फलानि च भक्ष्यन्तः सन्तस्तत्र तत्र न्यवसन् ॥ ४।४८।५ ॥
स इति । स तैः परिमार्गितो देशो यतो गुहागहनवान् अतः दुरन्वेषः अन्यैः परिमार्गयितुमशक्यो ऽस्तीति शेषः । अर्धं पृथक् । निर्जनमिति । निर्जनत्वादिविशिष्टं तं देशं त्यक्त्वा परित्यज्य सर्वे हरियूथपाः आसन्निति शेषः, अर्धद्वयमेकान्वयि ॥ ४।४८।६ ॥
तादृशानीति । तादृशानि निर्जनत्वादिविशिष्टानि अरण्यानि विचित्य भृशपीडिताः अकुतोभयाः वानराः यत्र वन्ध्यफलाः सर्वकालं फलाभाववन्तः विपुष्पाः पुष्परहिताः वृक्षाः सन्ति सरितो निस्तोयास्तोयरहिताः अत एव यत्र मूलं सुदुर्लभमत एव यत्र महिषादयो न सन्ति अत एवात्र वृक्षाः वृक्षजातीया ओषध्यादयो न यत्र स्थले स्निग्धपत्राः फुल्लपङ्कजाः सुगन्धाः पद्मिन्यो न सन्ति अत एव भ्रमरैर्विवर्जिताः तमन्यं देशं विविशुः । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ४।४८।७११ ॥
तस्य निर्जलत्वादिविशिष्टत्वे हेतुमाह कण्डुरिति । परमामर्षी अपराधासहनशीलः नियमैः इन्द्रियनिग्रहादिभिः उपलक्षितः अत एव दुष्प्रधर्षणः प्रधर्षयितुमशक्यः कण्डुर्न्नाम महर्षिस्तस्मिन् अवसदिति शेषः ॥ ४।४८।१२ ॥
तस्य कण्डोः दशवार्षिको बालस्तस्मिन्वने प्रनष्टः कथंचिन्मृतस्तेन हेतुना जीवितान्ताय वनप्रध्वंसाय महामुनिः कण्डुः क्रुद्धो ऽभवदिति शेषः ॥ ४।४८।१३ ॥
तेनेति । धर्मात्मना ऽपि तेन कण्डुना शप्तं दुरादर्षं कृत्स्नं वनमशरण्यं जलादिरहितमत एव मृगपक्षिविवर्जितम् अभवदिति शेषः ॥ ४।४८।१४ ॥
तस्येति । तस्य सुग्रीवस्य प्रेषितास्ते हनुमदादयः काननान्तान् वनान्तपर्यन्तान् गिरीणां कन्दराणि च नदीनां प्रभवाणि उत्पत्तिस्थानानि च समाहिताः सन्तः विचिन्वन्ति ॥ ४।४८।१५ ॥
तत्रेति । सुग्रीवप्रियकारिणः हनुमदादयः जनकात्मजां रावणं च नापश्यन् ॥ ४।४८।१६ ॥
ते इति । ते हनुमदादयः लतागुल्मसमावृतं भीमं वनान्तरं प्रविश्य सुरनिर्भयं वरदानेन देवभयरहितं सुरवरदानात् प्राप्तभयाभावं वा भीमकर्माणमसुरं ददृशुः ॥ ४।४८।१७ ॥
तमिति । शैलमिव स्थितं घोरं तमसुरं दृष्ट्वा वानराः विव्यथुरिति शेषः, अत एव पर्वतोपमं तं दृष्ट्वा गाढं यथा भवति तथा परिहिताः संनद्धाः अभवन्निति शेषः ॥ ४।४८।१८ ॥
स इति । असुरो ऽपि यूयं सर्वे नष्टाः स्थ इति सर्वान् वानरान् अब्रवीत्, सङ्गतं बद्धं मुष्टिमुद्यम्य अभ्यधावत च ॥ ४।४८।१९ ॥
तमिति । वालिपुत्रो ऽङ्गदः आपतन्तमसुरं रावणो ऽयमिति ज्ञात्वा अभिजघान ॥ ४।४८।२० ॥
स इति । वालिपुत्राभिहतः सो ऽसुरः वक्राच्छोणितमुद्वमन् सन् पर्यस्तः प्रक्षिप्तः पर्वत इव भूमौ न्यपतत् ॥ ४।४८।२१ ॥
ते इति । ते चोरप्राये तस्मिन् असुरे निरुच्छ्वासे उच्छ्वासरहिते सति जितकाशिनः जितेन जयेन काशः प्रकाशो येषां ते वानराः सर्वं गिरिगह्वरं विचिन्वन् । आगमशास्त्रस्यानित्यत्वात् अड्विरहः ॥ ४।४८।२२ ॥
विचितमिति । सर्वं काननं विचितं कृत्वा अन्यत् विलक्षणमपरं गिरिगह्वरं विविशुः ॥ ४।४८।२३ ॥
ते इति । विचित्य खिन्नाः वस्तुप्राप्त्यभावेन प्राप्तखेदाः निष्पत्य तस्मान्निस्सृत्य एकान्ते वृक्षमूले समागतास्ते वानराः दीनमानसाः सन्तः निषेदुः ॥ ४।४८।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४।४८ ॥