०४७ त्रिदिशात् वानरप्रत्यागमनम्

दक्षिणातिरिक्तदिग्गतानां वानराणां वृत्तान्तं वर्णयितुमाह– दर्शनार्थमिति । ये कपिकुञ्जराः वैदेह्याः दर्शनार्थं कपिराजेन सर्वतः सर्वदिक्षु व्यादिष्टा नियुक्तास्ते यथोक्तमुक्तमनतिक्रम्य अञ्जसा अनायासेन जग्मुः ॥ ४।४७।१ ॥

ते इति । ते प्रेषिता वानराः सरःप्रभृतीन् विचिन्वन्ति व्यचिन्वन् ॥ ४।४७।२ ॥

तदेव भङ्यन्तरेणाह– सुग्रीवेणेति । सुग्रीवेण समाख्याताः सम्यगुपदिष्टाः सर्वे वानरयूथपाः विचिन्वन्ति ॥ ४।४७।३ ॥

तत्प्रकारमाह– विचित्येति । सीताधिगमने सीतादर्शने धृता निश्चिताः सर्वे वानराः दिवसं विचित्य पृथक् पृथग्गत्वा अन्वीक्ष्य निशाकालेषु मेदिन्यां सर्वसंमतिविषयीभूतभूमौ समायान्ति संघीभूय प्राप्नुवन्ति ॥ ४।४७।४ ॥

तदेव भङ्ग्यन्तरेणाह– सर्वर्तुकानिति । ते वानराः सर्वेषु देशेषु अहस्सु विचित्येति शेषः, सर्वर्तुकान् सर्वकालं संनिहितसर्वऋतून् सफलाः सर्वऋतूचितफलसहिताः ये द्रुमास्तान् रजनीं रजन्यामासाद्य प्राप्य शय्यां शयनं चक्रुः ॥ ४।४७।५ ॥

तदिति । तत् अन्वेषणाज्ञापनसंबन्धि अहो दिनं प्रथमं कृत्वा प्रथमत्वेन परिगणय्य मासे मासान्तदिवसे त्रिंशत्तमे इत्यर्थः, प्रस्रवणं गताः निराशाः सीतादर्शनविषयकाशारहिताः अप्राप्तसीतावृत्तान्ता इत्यर्थः, कपिकुञ्जराः कपिराजेन संगम्य अतिष्ठन्निति शेषः ॥ ४।४७।६ ॥

तदागमनप्रकारमाह– विचित्येत्यादिभिः । महाबलो विनतः उक्तामादिष्टां पूर्वां दिशं यथावत् विचित्य सीतामदृष्ट्वा आजगाम ॥ ४।४७।७ ॥

दिशमिति । शतबलिर्वीरः उत्तरां दिशं विविच्य विचित्य सीतामदृष्ट्वेति शेषः, आगतः ॥ ४।४७।८ ॥

सुषेण इति । सुषेणः पश्चिमां दिशं विविच्य सीतामलब्ध्वेति शेषः, सुग्रीवमुपचक्रमे प्राप ॥ ४।४७।९ ॥

तमिति । रामेण सह आसीनं प्रस्रवणगिरिस्थं तं सुग्रीवं समासाद्य अभिवाद्य च इदमब्रवीत्, यूथत्रयमिति शेषः ॥ ४।४७।१० ॥

तद्वचनाकारमाह विचिता इति । पर्वतादयो विचिता अस्माभिरिति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४७।११,१२ ॥

गहनेष्विति । गहनादिविद्यमानानि अतिप्रमाणानि अतिबृहच्छरीराणि सत्त्वानि अन्वेषणप्रतिबन्धकीभूतप्राणिजातानि विचितानि च ॥ ४।४७।१३ ॥

ये इति । ये गहना वृक्षादिपिहितत्वादिना दुर्गमास्ते देशाः पुनः पुनर्विचिताः । अर्धं पृथक् ॥ ४।४७।१४ ॥

ननु कथं सीतावृत्तान्तलाभ इत्यत आह– उदारेति । यां दिशं सीता गता तां दिशं हनुमान् एवास्थितः अतः उदाराः अधिकाः सत्त्वाभिजना यस्य स हनुमान् मैथिलीं ज्ञास्यति ॥ ४।४७।१५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४।४७ ॥