सुग्रीववृत्तान्तं श्रोतुकामस्य रामस्योक्तिमाह– गतेष्विति । सर्वं भुवो मण्डलं भवान्कथं विजानीते इति वचः वानरेन्द्रेषु गतेषु सत्सु रामः सुग्रीवमब्रवीत् ॥ ४।४६।१ ॥
सुग्रीव इति । ततः रामप्रश्नश्रवणानन्तरं सुग्रीवो राममुवाच । तद्वचनाकारमाह– सर्वमहमाख्यास्ये मम वचः श्रूयताम् ॥ ४।४६।२ ॥
तदभिधानप्रकारमाह– यदेत्यादिभिः । यदा महिषाकृतिं दुन्दुभिः लक्षणया दुन्दुभिपुत्रं मायाविनं तन्नामदानवं मलयं पर्वतं प्रति प्रतिकालयते प्राद्रावयत् तदा महिषो मायावी मलयस्य गुहामाविवेश वाली अपि तज्जिघांसया मलयं मलयगुहामाविवेश । श्लोकद्वयमेकान्वयि ॥ ४।४६।३,४ ॥
तत इति । ततो ऽनन्तरं विनीतवत् विशेषनीतियुक्तं यथा भवति तथा ऽहं निक्षिप्तः गुहाद्वारि संस्थापितः संवत्सरे गते ऽपि वाली न निष्क्रमते निरक्रमत ॥ ४।४६।५ ॥
तत इति । ततः क्षतजवेगेन वेगवद्रुधिरेण बिलम् आपुपूरे । तद्रुधिरं दृष्ट्वा विस्मितो ऽहं भ्रातुः शोकविषादितः भ्रातृमरणसंशयजनितशोकविषादयुक्तो ऽभवमिति शेषः ॥ ४।४६।६ ॥
अथेति । अथानन्तरं गुरुर्भ्राता सुव्यक्तं निहतः इति गतबुद्धिः प्राप्तनिश्चयो ऽहमासमिति शेषः । अतः महिषो निष्क्रमितुमशक्नुवन् सन् विनशिष्यति इति बुद्ध्या पर्वतसंकाशा शिलागुहाद्वारि मया कृता । सार्धश्लोक एकान्वयी ॥ ४।४६।७ ॥
तत इति । तस्य वालिनो जीविते जीवने निराशो ऽहं सुमहत् राज्यं रुमया सह तारां च प्राप्य मित्रैः सह तव किष्किन्धायां वसामि अवसम् । सार्धश्लोक एकान्वयी ॥ ४।४६।८,९ ॥
आजगामेति । ततो ऽनन्तरं तं मायाविनं हत्वा वाली आजगाम । ततस्तदागमनानन्तरं गौरवाद्वालिनो गुरुत्वात् हेतोः भययन्त्रितः भयेन संकुचितः सन् राज्यमददाम् ॥ ४।४६।१० ॥
स इति । प्रव्यथितेन्द्रियः गुहामुखपिधानपूर्वकमदागमनेन दुःखितचित्तः अत एव दुष्टात्मा चञ्चलचित्तो वाली मां जिघांसुः सन् सचिवैः सह धावन्तं पलायन्तं मां परिकालयते अन्वधावत् ॥ ४।४६।११ ॥
तत इति । ततस्तेन वालिना प्रधावितः अनुद्रुतः सानुबन्धः अमात्यसहितो ऽहं नद्यादीन् पश्यन् सन् आगच्छमिति शेषः ॥ ४।४६।१२ ॥
आदर्शेति । ततः प्रधावनाद्धेतोः मया पृथिवी आदर्शतलसंकाशा स्पष्टं सर्वदर्शनेन आदर्शतलसदृशी अलातचक्रप्रतिमा अतिवेगवत्स्वगमनेन अलातचक्रसदृशी च दृष्टा, गोष्पदवत् भ्रमणे श्रमाभावेन गोष्पदसदृशी च कृता ॥ ४।४६।१३ ॥
भ्रमणप्रकारमाह– पूर्वामित्यादिभिः । पूर्वां दिशं गत्वा द्रुमादीन् पश्यामि अपश्यम् ॥ ४।४६।१४ ॥
उदयमिति । तत्र पूर्वदिशि उदयपर्वतादि पश्यामि अपश्यम् । अप्सरसशब्दः अदन्तो ऽप्यत एव बुध्यते ॥ ४।४६।१५ ॥
परीति । वालिना परिकाल्यमानः पलायमानः अत एव अभिद्रुतः शीघ्रं प्रचलितो ऽहं पुनरावृत्य निवर्त्य प्रस्थितः मार्गान्तरेण पश्चाद्भागं प्रचलितो ऽहमासमिति शेषः ॥ ४।४६।१६ ॥
दिश इति । ततो ऽनन्तरं तस्याः पूर्वस्याः दिशः विन्ध्यपादपसंकीर्णां दक्षिणां दिशं प्रस्थितो ऽहमभवमिति शेषः ॥ ४।४६।१७ ॥
द्रुमेति । वालिना समभिद्रुतो ऽहं दक्षिणतो दक्षिणस्यां दिशि द्रुमशैलान् पश्यन् सन् अपरां तद्भिन्नां पश्चिमां दिशं प्राप्तः ॥ ४।४६।१८ ॥
संपश्यन्निति । विविधान् देशान् गिरिसत्तममस्तं च संपश्यन् सन् गिरिश्रेष्ठमस्तं प्राप्य उत्तरां दिशं संप्रधावितः ॥ ४।४६।१९ ॥
हिमवन्तमिति । वालिना समभिद्रुतो ऽहं हिमवत्प्रभृतिं शरणं रक्षकं यदा न विन्दे ततस्तदा हनूमान् वाक्यमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।४६।२० ॥
तद्वचनाकारमाह– इदानीमिति । अस्मिन्नाश्रममण्डले यदि वाली प्रविशेत् तदा अस्य मूर्धा शतधा भवेत् इति मतङ्गेन यथा वाली शप्तः तथा इदानीं मे मया स्मृतम् । सार्धश्लोक एकान्वयी ॥ ४।४६।२१,२२ ॥
तत्रेति । तत्र मतङ्गाश्रमे निरुर्द्विग्नः उद्वेगरहितः अत एव सुखः अस्माकं वासो भविष्यति । तत्र तस्यां हनुमदुक्तौ सत्याम् ऋष्यमूकमासाद्य प्राप्य विद्यमानस्य मम समीपे मतङ्गस्य भयात् वाली न विवेश । सार्धश्लोक एकान्वयी ॥ ४।४६।२३ ॥
उपसंहरन्नाह– एवमिति । एवमुक्तप्रकारेण पृथिवीमण्डलं प्रत्यक्षं मया उपलक्षितं दृष्टं ततो ऽनन्तरं गुहामागतो ऽस्मि ॥ ४।४६।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४।४६ ॥