०४५ वानरसेनाप्रस्थानम्

प्रेष्यवानरान् प्रति सुग्रीवोक्तिमाह सर्वानिति । समस्तान् संघीभूतान् सर्वान् प्लवगान् राजा सुग्रीवः आहूय संबोध्य भवद्भिर्वानरोत्तमैः एतदुपदिष्टदेशजातं विचेतव्यम्, एवं वचः रामकार्यार्थसिद्धये अब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।४५।१ ॥

तदिति । हरिपुङ्गवाः भर्तुरुग्रशासनं विज्ञाय मेदिनीं शलभा इव संछाद्य संप्रतस्थिरे । अर्धद्वयमेकान्वयि ॥ ४।४५।२ ॥

राम इति । सीताधिगमने सीतावृत्तान्तबोधने यो मासः कृतः अवधित्वेन निश्चितः तं मासं प्रतीक्षमाणः सहलक्ष्मणो रामः प्रस्रवणे गिरौ न्यवसत् ॥ ४।४५।३ ॥

उत्तरामिति । गिरिराजेन हिमवता समावृताम् उत्तरां दिशं शतवलिर्हरिर्वानरः

प्रतस्थे ॥ ४।४५।४ ॥

पूर्वामिति । विनीतो हरियूथपः पूर्वां दिशं प्रति ययौ । ताराङ्गदादिसहितः पवनात्मजो हनूमान् दक्षिणामाशां दिशं प्रति ययौ । सार्धश्लोक एकान्वयी ॥ ४।४५।५,६ ॥

पश्चिमामिति । सुषेणः वरुणपालितां पश्चिमदिशं प्रतस्थे ॥ ४।४५।७ ॥

तत इति । ततः वानराणां सानुकूलत्वेन सुखितो राजा सुग्रीवः कपिसेनापतीन् यथातथं यथायोग्यं सर्वाः दिशः चोदयित्वा मुमोद दानसत्कारादिना प्रमोदयामास ॥ ४।४५।८ ॥

एवमिति । राज्ञा एवं सञ्चोदिताः सर्वे वानरयूथपाः प्लवङ्गमाः नादादि कुर्वन्तः सन्तः स्वां स्वां दिशमभिप्रेत्य उद्दिश्य संप्रतिस्थिरे । नादादीनामधिकन्यूनादिना अवान्तरभेदान्न पौनरुक्त्यम् । श्लोकद्वयमेकान्वयि ॥ ४।४५।९,१० ॥

एवमिति । एवं सञ्चोदिता सर्वे वानरयूथपाः त्रयमेव सीतामानयिष्यामहे आनेष्यामहे रावणं हनिष्यामश्च इत्यूचुरिति शेषः ॥ ४।४५।११ ॥

अहमिति । अहमेव एकः आहवे संग्रामे प्राप्तं रावणं वधिष्यामि ततो ऽनन्तरमुन्मथ्य राक्षसान्तराण्यपि निहत्य जनकात्मजामाहरिष्ये इति कश्चिदाहेति शेषः ॥ ४।४५।१२ ॥

वेपमानामिति । एक एवाहं पातालादपि जानकीमाहरिष्यामि इति कश्चिदाहेति शेषः ॥ ४।४५।१३ ॥

विधमिष्यामीति । वृक्षान् विधमिष्यामि गिरीन् दारयिष्यामि धरणीं च दारयिष्यामि सागरान् क्षोभयिष्यामि इति कश्चिदाहेति शेषः ॥ ४।४५।१४ ॥

अहमिति । अहं योजनसंख्यायाः शतं शतयोजनजलमित्यर्थः, अहं प्लवेयं शतयोजनसंख्यायाः समधिकमधिकमपि अहं प्लवेयमिति कश्चिदाहेति शेषः ॥ ४।४५।१५ ॥

भूतल इति । भूतलादौ मम गतिर्नाच्छिद्यते कैश्चित्प्रतिबध्यते इति कश्चिदाहेति शेषः ॥ ४।४५।१६ ॥

उपसंहरन्नाह– इतीति । वानराः एकैकः एकैकशः हरिराजसंनिधौ वचनमूचुः ॥ ४।४५।१७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४।४५ ॥