०४४ रामेण मुद्रिकाप्रदानम्

हनूमन्तं प्रति सुग्रीवोक्तिं वर्णयितुमुपक्रमते विशेषेणेति । हि यतः स सुग्रीवः अर्थसाधने अर्थानां साधके हरिश्रेष्ठे तस्मिन् हनुमति निश्चितो दृढीकृतः अर्थः सीतादर्शनसिद्धर्येन सः अतः विशेषेण उक्तवान् हनुमन्तमित्यर्थः ॥ ४।४४।१ ॥

विशेषं प्रकटयितुमाह– अब्रवीदिति । विक्रान्तमतिबलवन्तम् अनिलात्मजं हनुमन्तं परमप्रीतः अयमर्थं साधयितेति बुद्ध्या अतिप्रीतिमान् सर्ववनौकसां प्रभुसुग्रीवः अब्रवीत् ॥ ४।४४।२ ॥

तद्वचनाकारमाह– नेत्यादिभिः । भूम्यादिषु ते अगतिसङ्गं गतिसंबन्धनिवर्तकं पश्यामि । अन्तरिक्षं पक्षिगतिदेशमात्रमिति नाम्बरेण पौनरुक्त्यम् ॥ ४।४४।३ ॥

सेति । सासुराः असुरसहिताः सनागनरदेवताः नागनरदेवतासहिताः ससागरधराधराः सागरशैलसहिताः सर्वलोकास्ते विदिताः ज्ञाताः सन्तीति शेषः ॥ ४।४४।४ ॥

गतिरिति । हे महाकपे हे वीर ते गत्यादि महौजसो मारुतस्य पितुः सदृशमस्तीति शेषः ॥ ४।४४।५ ॥

तेजसेति । ते तेजसा समं तेजः भुवि न भूतम् अभवत् न विद्यते तत् तस्मात् हेतोः सीता यथा लभतां तथा तत् सीतालाभं त्वमेवानुचिन्तय ॥ ४।४४।६ ॥

त्वयीति । नयपण्डित हे नीतिशास्त्राभिज्ञ हे हनुमन् बुद्ध्यादित्रयं देशकालानुवृत्तिः देशकालानुसरणं च त्वय्येवास्ति ॥ ४।४४।७ ॥

तत इति । ततः सुग्रीवोक्त्यनन्तरं कार्यसमासङ्गं स्वकार्यसिद्धिम् अवगम्य हनूमति अवगम्यः सर्वकार्यसाधकत्वेन सर्वैर्ज्ञातव्यः स एव हनुमानिति कर्मधारयः तस्मिन् विदित्वा ज्ञात्वा राघवो हनुमन्तं चिन्तयामास तद्गुणान् सस्मारेत्यर्थः ॥ ४।४४।८ ॥

चिन्ताजनितनिश्चयमाह– सर्वथेति । कार्यसाधने निश्चितः अर्थतरः अत्युपायो येन स यो हनुमान् तस्मिन् हनूमति सर्वथा सर्वप्रकारेण निश्चितः अर्थो जानकीदर्शनं येन सः हरीश्वरः सुग्रीवो ऽस्तीति शेषः । एतेन सुग्रीवस्य याथार्थ्यवेदितृत्वं व्यञ्जितम् । किंच हरीश्वरो हनूमति निश्चितार्थो ऽस्ति हनूमांस्तु निश्चितार्थतरः । एतेन हनुमतो ज्ञानाधिकत्वं सूचितम् । पूर्वकल्पेतरार्थस्याविवक्षया नेयं व्यञ्जनेति बोध्यम् ॥ ४।४४।९ ॥

तदिति । कर्मभिः पूर्वं तत्कृतानेककार्यैः भर्त्रा परिज्ञातस्य अत एव परिगृहीतस्य मत्कार्यसाधकत्वेन स्वीकृतस्य प्रस्थितस्यास्य हनूमतस्तत् मदीप्सितः उत्तमः कार्यफलोदयः क्रियाफलप्रकाशः ध्रुवो भवितेति शेषः । तदिति सामान्ये नपुंसकम् ॥ ४।४४।१० ॥

तमिति । महातेजा रामः हरिं हनूमन्तं व्यवसायोत्तरं कार्यनिष्पादने श्रेष्ठं वीक्ष्य ज्ञात्वा कृतार्थः सिद्धप्रयोजन इव संहृष्टः अत एव प्रहृष्टानि प्रहर्षितानि इन्द्रियमानसानि सुग्रीवादीनामिन्द्रियादीनि येन सो ऽभवदिति शेषः ॥ ४।४४।११ ॥

ददाविति । राजपुत्र्याः सीतायाः अभिज्ञानं रामप्रेषितो ऽयमिति ज्ञापकं स्वनामाङ्केन उपशोभितम् अङ्गलीयं तस्य तस्मै हनुमते परन्तपो रामो ददौ ॥ ४।४४।१२ ॥

ननु किमर्थमिदं दीयते इत्यत आह अनेनेति । हरिश्रेष्ठ हे हनुमन् चिह्नेन ज्ञापकेन अनेन अङ्गुलीयेन अनुद्विग्ना उद्वेगरहिता सती मत्सकाशादनुप्राप्तं त्वां जनकात्मजा अनुपश्यति अनुद्रष्टा ॥ ४।४४।१३ ॥

व्यवसाय इति । सुग्रीवस्य संदेशः सम्यगुपदेशः ते व्यवसायः निश्चितकार्यसाधनं च सत्त्वयुक्तः महाबलविशिष्टस्ते विक्रमो वेगश्च मे सिद्धिं कार्यनिष्पत्तिं कथयतीवा ॥ ४।४४।१४ ॥

स इति । कृतौ अञ्जली येन स हनुमान् तत् अङ्गुलीयं गृह्य गृहीत्वा च मूर्ध्नि कृत्वा चरणौ वन्दित्वा च प्रस्थितः अभवदिति शेषः ॥ ४।४४।१५ ॥

स इति । हरिणां हरीणां तत् महत् बलं प्रकर्षन् आकर्षन् सन् पवनात्मजो हनुमान् गताम्बुदे निवृत्तमेधे व्योम्नि विशुद्धमण्डलः घनाद्यावरणरहितमण्डलवान् शशीव बभूव ॥ ४।४४।१६ ॥

हनुमन्तं प्रति रामोक्तिमाह– अतीति । हे हरिवर तवातिबलमाश्रितः अतः सा हृता जनकसुता यथा अधिगम्यते तथा अनल्पैः विक्रमैरुपलक्षितस्त्वं कुरुष्व । अत एव विक्रम गच्छ ॥ ४।४४।१७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४।४४ ॥