०४३ उदीचीं प्रति शतबलिप्रेषणम्

उत्तरदिक्प्रेषणमुपक्रमते तत इति । सर्वज्ञः निखिलकार्यविज्ञाता अत एव सर्ववानरसत्तमः अत एव वानरेश्वरः निखिलवानरप्रवर्तकः राजा सुग्रीवः श्वशुरं पश्चिमां दिशं संदिश्य आत्महितं स्वहितकारकं रामस्य हितं प्रियं वाक्यं शतवलिं नाम वीरमुवाच । श्लोकद्वयमेकान्वयि ॥ ४।४३।१,२ ॥

तद्वचनाकारमाह वृत इति । त्वद्विधानां वनौकसां शतसहस्रेण वृतस्त्वं सुमन्त्रिभिः शोभनमन्त्रिविशिष्टैः सार्धं प्रतिष्ठस्व समानकार्यकारित्वेनैकीभव ॥ ४।४३।३ ॥

तत्कार्यमेवाह दिशमिति । हिमशैलावतंसिकां हिमपर्वतैः शोभिताम् उदीचीं दिशं विक्रान्ताः प्राप्ताः यूयं रामपत्नीं सर्वतः परिमार्गध्वम् ॥ ४।४३।४ ॥

अस्मिन्निति । हे अर्थविदांवराः दाशरथेः प्रिये अस्मिन् सीतास्थितिनिश्चयरूपे कार्ये विनिर्वृते सिद्धे सति अत एव दाशरथेः प्रिये कृते सति वयम् ऋणान्मुक्ताः अत एव कृतार्थाः कृतकृत्याः भविष्यामः । संधिस्तु न मुनेत्यत्र नेतियोगं विभज्य सपादसप्ताध्यायीस्थं प्रति त्रिपादी क्वचिदसिद्धा नेति ज्ञापनात् । किंच कृतो ऽर्थो यैस्ते एवार्थविद इति कर्मधारयः तेषाम् ॥ ४।४३।५ ॥

कृतमिति । राघवेण महात्मना यदस्माकं प्रियं कृतं तस्य प्रतिकारः प्रत्युपकृतिश्चेद्यद्यस्ति तर्हि मे जीवितं सफलं भवेत् ॥ ४।४३।६ ॥

सफलत्वे निश्चयमाह अर्थिन इति । अकर्तुः उपकारकर्तृत्वाभाववतो ऽप्यर्थिनः कार्यनिर्वृत्तिं यश्चरेत् कुर्यात् तस्य जन्म सफलं स्यात् । पूर्वकारिणः कृतोपकारस्य कार्यनिर्वृत्तिं यश्चरेत् तस्य चेत्किं वक्तव्यम् ॥ ४।४३।७ ॥

एतामिति । एतामुक्तविषयकां बुद्धिं निश्चयं समास्थाय कृत्वा जानकी यथा दृश्यते तथा भवद्भिः कर्तव्यम् ॥ ४।४३।८ ॥

अयमिति । सर्वभूतानां मान्यः नरसत्तमो ऽयं रामः अस्मासु प्रीतिं गतः, एतेन स्वस्य भाग्यातिशयः सूचितः ॥ ४।४३।९ ॥

इमानीति । बुद्धिविक्रमसंपदा बुद्धिविक्रमरूपसंपत्त्या नवदुर्मादीनि भवन्तः परिमार्गन्तु ॥ ४।४३।१० ॥

तत्रेति । तत्र वनदुर्गादिषु अन्वीक्ष्य म्लेच्छादीन् देशविशेषान् हिमवन्तं च विचिन्वथ । श्लोकद्वयमेकान्वयि ॥ ४।४३।११,१२ ॥

लोध्रेति । लोध्रादिषण्डादिषु वैदेह्या सह रावणो मार्गितव्यः ॥ ४।४३।१३ ॥

तत इति । ततः लोध्रषण्डादेः देवगन्धर्वसेवितं सोमाश्रमं गत्वा महासानुं कालं नाम पर्वतं गमिष्यथ ॥ ४।४३।१४ ॥

महत्स्विति । तस्य कालाभिधगिरेः महत्सु शैलेषु अवयवेषु पर्वतेषु ततो ऽवरावयवेषु गुहासु विचिन्वत “तस्य शैलस्य कन्दरेषु गुहासु च” इति भूषणाङ्कितपुस्तकपाठः ॥ ४।४३।१५ ॥

तमिति । शैलेन्द्रं तं कालपर्वतमभिक्रम्य हेमगर्भं महागिरिं सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ ४।४३।१६ ॥

तत इति । ततो ऽनन्तरं विविधद्रुमभूषितः देवसखो नाम पर्वतो ऽस्तीति शेषः ॥ ४।४३।१७ ॥

तस्येति । तस्य देवसखस्य काञ्चनखण्डादिषु मार्गितव्यः ॥ ४।४३।१८ ॥

तमिति । तं देवसखमतिक्रम्य अपर्वतनदीवृक्षं पर्वतनदीवृक्षरहितमत एव सर्वसत्त्वविवर्जितं सर्वतः शतयोजनम् आकाशं शून्यमस्तीति शेषः ॥ ४।४३।१९ ॥

तमिति । कान्तारं भयङ्करम् अत एव रोमहर्षणं तमाकाशमतिक्रम्य पाण्डुरं कैलासं प्राप्य यूयं हृष्टा भविष्यथ ॥ ४।४३।२० ॥

तत्रेति । तत्र कैलासे पाण्डुरमेधाभं पाण्डुरमेघसदृशं जाम्बूनदपरिष्कृतं सुवर्णेनालंकृतं विश्वकर्मणा निर्मितं रम्यं कुबेरभवनमस्तीति शेषः ॥ ४।४३।२१ ॥

विशालेति । यत्र भवने प्रभूतकमलोत्पला बहुकमलोत्पलविशिष्टा अत एव हंसकारण्डवाकीर्णा विशाला नलिनी सरसी अस्ति । तत्र यक्षराट् यक्षप्रकाशकः धनदो धनदाता वैश्रवणः कुबेरो राजा गुह्यकैः सह रमते । श्लोकद्वयमेकान्वयि ॥ ४।४३।२२,२३ ॥

तस्येति । तस्य कैलासस्य चन्द्रनिकाशेषु चन्द्रवत्प्रकाशमानेषु पर्वतेषु गुहासु च मार्गितव्यः ॥ ४।४३।२४ ॥

क्रौञ्चमिति । सुदुर्गमं कौञ्चगिरिमासाद्य प्राप्य तस्य यद्दुष्प्रवेशं स्मृतं तत् विलमप्रमत्तैः भवद्भिः प्रवेष्टव्यम् ॥ ४।४३।२५ ॥

वसन्तीति । देवैः अभ्यर्थिताः महर्षयस्तत्र बिले वसन्ति ॥ ४।४३।२६ ॥

क्रौञ्चस्येति । क्रौञ्चस्य अन्याः उक्तबिलात् भिन्नाः गुहाः सान्वादयश्च विचेतव्याः ॥ ४।४३।२७ ॥

अवृक्षमिति । अवृक्षं वृक्षरहितं कामशैलं दर्शनमात्रेण कामनापूरकक्रौञ्चशैलशिखरं विहगालयं विहगानां पक्षिगतीनामासमन्तात् भावेन लयो ऽभावो यस्मिन् तत् मानसं च शिखरमस्तीति शेषः, तत्र मानसे भूतादीनां गतिर्न शून्यत्वेन प्रयोजनाभावाद्भूतादयस्तत्र न गच्छन्तीत्यर्थः । स इति । ससानुप्रस्थः सानुप्रस्थसहितः भूधरः क्रौञ्चावयवकामशैलमानस इत्यर्थः, सर्वैर्भवद्भिः विचेतव्यः सानुप्रस्थयोर्बृहत्त्वाल्पत्वाभ्यां भेदात् न पौनरुक्त्यम् । सार्धश्लोक एकान्वयी ॥ ४।४३।२८,२९ ॥

क्रौञ्चमिति । क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम यः पर्वतः तत्र पर्वते मयस्य दानवस्य स्वयंकृतं भवनमस्तीति शेषः, ससानुप्रस्थकन्दरः मैनाको ऽपि विचेतव्यः । सार्धश्लोक एकान्वयी । तुरप्यर्थकः ॥ ४।४३।३० ॥

स्त्रीणामिति । तत्र तत्र मैनाकस्य प्रदेशे अश्वमुखीनां स्त्रीणां निकेतो निलयमस्तीति शेषः, तं देशं समतिक्रम्य यत्र वैखानसाः वालखिल्याः सन्तीति शेषः, तं सिद्धसेवितमाश्रमम् अवलोकयध्वमिति शेषः । सार्धश्लोकः संमिलितान्वयी ॥ ४।४३।३१ ॥

वन्दितव्य इति । ततस्तत्र वीतकल्मषाः निवृत्तपापाः सिद्धाः विनयान्वितैः भवद्भिर्वन्दितव्याः सीतायाः प्रवृत्तिर्वृत्तान्तश्च प्रष्टव्या ॥ ४।४३।३२ ॥

हेमेति । तरुणादित्यसंकाशैः हंसैः विचरितं हेमपुष्करसंच्छन्नं सुवर्णाकृतिकमलैर्निबिडं वैखानसं सरस्तत्राश्रमे ऽस्तीति शेषः ॥ ४।४३।३३ ॥

औपवाह्य इति । सार्वभौम इति स्मृतः ख्यातः कुबेरस्यौपवाह्यो वाहनं गजस्तं देशं करेणुभिः सह सदा पर्येति विचरति ॥ ४।४३।३४ ॥

तदिति । तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरं चन्द्रदिवाकराभ्यां रहितमनक्षत्रगणं नक्षत्रगणरहितं निष्पयोदं पयोदरहितम् अनादिमत् आदिरहितं नित्यमित्यर्थः, व्योमाकाशमस्तीति शेषः ॥ ४।४३।३५ ॥

गभस्तिभिरिति । सः चन्द्रादिरहितो देशः स्वयंप्रभैः तपस्सिद्धैः अर्कस्य गभस्तिभिरिव प्रकाश्यते ॥ ४।४३।३६ ॥

तमिति । तं देशमतिक्रम्य शैलोदा नाम निम्नगा नद्यस्तीति शेषः, तस्याः उभयोस्तीरयोः कीचकाः सस्वना वेणवः सन्तीति शेषः, नाम प्रसिद्धमेतत् ॥ ४।४३।३७ ॥

ते इति । ते वेणवः सिद्धान् परं तीरं शैलोदाया इति शेषः, नयन्ति प्रत्यानयन्ति पूर्वतीरं प्रापयन्ति च । कृतपुण्यप्रतिश्रयाः कृतपुण्यैराश्रिताः उत्तराः कुरवस्तत्र शैलोदायास्तीरे सन्तीति शेषः ॥ ४।४३।३८ ॥

तत इति । काञ्चनवत्पद्मानि यासु ताभिः पद्मिनीभिः सरसीभिः कृतोदकाः संमिश्रसलिलाः नीलवैदूर्यपत्राढ्याः सहस्रशो नद्यस्तत्र कुरुषु भान्तीत्यप्रकृष्यते ॥ ४।४३।३९ ॥

रक्तेति । हिरण्मयैः रक्तोत्पलवनैर्मण्डिताः शोभिताः तरुणादित्यसंकाशा जलाशयस्तत्र भान्ति ॥ ४।४३।४०,४१ ॥

नीलेति । स देशः चित्रैर्नीलोत्पलवनैः सर्वतो वृतः । अर्धं पृथक् । निरिति । निस्तुलाभिः वर्तुलाभिः मुक्ताभिः महाधनैर्बहुमूल्यैर्जातरूपैश्च उद्धूतानि युक्तानि पुलिनानि यासां ताः सर्वरत्नमयैः अत एव चित्रैः नगोत्तमैः पर्वतश्रेष्ठैः जातरूपमयैः अत एव हुताशनसमप्रभैश्च नगोत्तमैः अवगाढाः व्याप्ताः निम्नगाः सन्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४३।४२ ॥

नित्येति । नित्यं पुष्पाणि फलानि च येषु पत्ररथैः पक्षिभिराकुलाः व्याप्ताः दिव्या गन्धरसस्पर्शा येषां ते नगाः वृक्षाः सर्वकामान् स्रवन्ति ददति ॥ ४।४३।४३ ॥

नानेति । अन्ये नगोत्तमाः स्त्रीणां पुरुषाणां च यान्यनुरूपाणि योग्यानि तानि नानाकाराणि अनेकविधाकारविशिष्टानि वासांसि मुक्तावैदूर्यैः चित्राणि भूषणानि च फलन्ति । सार्धश्लोक एकान्वयी ॥ ४।४३।४४,४५ ॥

सर्वेति । अन्ये नगोत्तमाः सर्वर्तुमुखसेव्यानि सर्वर्तुषु सुखेन सेव्यानि फलानि फलन्ति । अन्ये नगोत्तमाः महार्हमणिवत् चित्राणि फलानि फलन्ति ॥ ४।४३।४६ ॥

शयनानीति । चित्रास्तरणवन्ति विचित्रास्तरणविशिष्टानि शयनानि शय्याः मनःकान्तानि मनोहराणि माल्यानि मालाश्च महार्हाणि बहुमूल्यानि पानानि च विविधानि भक्ष्याणि च रूपयौवनलक्षिताः रूपयौवनैः प्रकाशिताः गुणसंपन्नाः स्त्रियश्च अपरे द्रुमाः फलन्ति । श्लोकद्वयमेकान्वयि ॥ ४।४३।४७,४८ ॥

गन्धर्वा इति । भास्वरप्रभाः गन्धर्वादयः नारीभिस्तत्र रमन्ते ॥ ४।४३।४९ ॥

सर्व इति । ये सर्वे सुकृतकर्माणस्तत्र वसन्ति ते सर्वे सहयोषितः योषित्सहिताः कामार्थसहिताः इच्छाविषयीभूतार्थैर्विद्यमानाः सन्तः रतिपरायणा भवन्तीति शेषः ॥ ४।४३।५० ॥

गीतेति । सोत्कृष्टहसितस्वनः उत्कृष्टहसितस्वनसहितः सर्वभूतमनोरमः गीतवादित्रनिर्घोषः सततं श्रूयते ॥ ४।४३।५१ ॥

तत्रेति । अमुदितः प्रमोदरहितः तत्र कश्चिन्न, असत्प्रियः असत्कर्मविषयकप्रीतिविशिष्टः अत्र उत्तरकुरुषु कश्चित् न । अहन्यहनि प्रतिदिनं मनोरमाः गुणास्तत्र वर्धन्ते ॥ ४।४३।५२ ॥

तमिति । तं देशमतिक्रम्य उत्तरः परिदिग्वर्ती पयसां निधिः क्षीराब्धिरस्तीति शेषः, तत्र क्षीराब्धौ हेममयो महान् सोमगिरिरस्ति ॥ ४।४३।५३ ॥

इन्द्रेति । इन्द्रादिलोकगताः ये देवास्ते दिवं गतं गिरिराजं समवेक्षन्ते ॥ ४।४३।५४ ॥

स इति । तपता विवस्वता सूर्येणेव तस्य सोमगिरेः भासा प्रकाशेन विसूर्यः सूर्यचन्द्रादिरहितो ऽपि स देशः सूर्यलक्ष्म्याभिविज्ञेयो देश इव प्रकाशते । इव उभयान्वयी ॥ ४।४३।५५ ॥

भगवानिति । ब्रह्मर्षिपरिवारितस्तत्र सोमगिरौ विश्वात्मा सकलजगन्नियन्ता एकादशात्मकः भगवान् शम्भुः देवेशः ब्रह्मा च वसति ॥ ४।४३।५६ ॥

नेति । कुरूणामुत्तरेण पथा वो युष्माकमन्वेषामपि भूतानां गतिः न अनुकामति अस्ति, अतः वो युष्माभिः कथञ्चन न गन्तव्यम् । व इत्युभयान्वयि ॥ ४।४३।५७ ॥

स इति । स सोमगिरिः देवानामपि दुर्गमः अतस्तमालोक्य क्षिप्रमुपावर्तितुमर्हथ ॥ ४।४३।५८ ॥

एतावदिति । हे वानरपुङ्गवाः एतावदेव वानरैर्गन्तुं शक्यम्, अतस्ततः परं न जानीमः ॥ ४।४३।५९ ॥

सर्वमिति । यन्मया परिकीर्तितं तत्सर्वं विचेतव्यं यत् अन्यत् उक्तदेशसमीपस्थं नोक्तं तत्रापि मतिः अन्वेषणनिश्चयः क्रियताम् ॥ ४।४३।६० ॥

तत इति । हे अनिलानलोपमाः विदेहजादर्शनजेन सीतादर्शनजनकेन कर्मणा दाशरथेः महत्प्रियं यदि कृतं भवद्भिः संपादितं भविष्यति ततस्तस्मात् रामप्रियात् ममापि महत्तरं प्रियं प्रीतिर्भविष्यति ॥ ४।४३।६१ ॥

तत इति । हे प्लवङ्गमाः ततः रामप्रियाचरणात् हेतोः सर्वगुणैः सर्वसद्गुणविशिष्टैः मनोरमैः पदार्थैः मयार्चिताः सत्कृताः अत एव शान्तशात्रवाः सहिता हितसहिताः सबान्धवाः बान्धवसहिताः सहप्रियाः स्त्रीसहिताः यूयं भूतधराः भूतैर्ध्रियन्ते यास्तद्वन्तः मत्तः प्राप्तजीविका इत्यर्थः, अत एव कृतार्थाः सन्तः उर्वीं प्रति चरिष्यथ ॥ ४।४३।६२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४।४३ ॥