०४२ प्रतीचीं प्रति सुषेणप्रेषणम्

पश्चिमदिक्प्रेषणमुपक्रमते अथेति । कपिसत्तमः सुग्रीवः हरीन् दक्षिणां दिशं प्रस्थाप्य मेघसंकाशं तारायाः पितरं सुषेणं प्रणम्य अब्रवीत् । महर्षेः मरीचेः पुत्रमर्चिष्मन्तमर्चिष्मन्नामानमित्यर्थः, किंच महर्षेर्भृगोः पुत्रं वैनतेयसमद्युतिमर्चिष्मन्तं चाब्रवीत् । अर्चिर्माल्यान् अर्चिर्युक्तमाल्यविशिष्टान् मारीचान् तदभिधान् तान्प्रसिद्धान् ऋषिपुत्रान् अन्यानपीत्यर्थः । आदिशत् अब्रवीत् । तदाकारमाह– कपीनां द्वाभ्यां शतसहस्राभ्यां युक्ता यूयं प्रतीचीदिशं गत्वेति शेषः, वैदेहीं परिमार्गथ अन्वेषयध्वम् । सार्धश्लोकपञ्चकं संमिलितान्वयि ॥ ४।४२।१५ ॥

तत्प्रकारमाह सौराष्ट्रानिति । सौराष्ट्रादीन् मार्गध्वम् । अर्धचतुष्टयमेकान्वयि ॥ ४।४२।६,७ ॥

प्रत्यगिति । प्रत्यक्स्रोतोवहनद्यादयः अन्वेषणीया इति शेषः ॥ ४।४२।८ ॥

तत्रेति । तत्र नद्यादिषु मरुप्रायाः स्थलीः अत्युच्चाः शिशिराः शीतलाः कर्मधारयः शिलाश्च मार्गध्वमिति शेषः, स्थली अकृतिमा भूमिः । सार्धश्लोक एकान्वयी ॥ ४।४२।९ ॥

गिरीति । गिरिजालवृतां गिरिसमूहैर्निबिडां पश्चिमां दिशं मार्गित्वा तत आगम्य गत्वा तिमिनक्राकुलजलमत एव अक्षोभ्यं पश्चिमं समुद्रं द्रष्टुमर्हथ अत एव गत्वा द्रक्ष्यथ । सार्धश्लोक एकान्वयी ॥ ४।४२।१० ॥

तत इति । ततः समुद्रदर्शनानन्तरं वेलातटनिविष्टेषु केतकखण्डादिषु कपयो विहरिष्यन्ति तत्र केतकखण्डादिषु सीतां रावणस्य निलयं च मार्गध्वम् । अर्धचतुष्टयमेकान्वयि ॥ ४।४२।११,१२ ॥

मुरवीति । मुरवीपत्तनादीनि मार्गध्वमिति शेषः । सार्धश्लोक एकान्वयी ॥ ४।४२।१३,१४ ॥

सिन्ध्विति । तत्र प्रसिद्धे सिन्धुसागरयोः संगमे शतशृङ्गः महाद्रुमः महाद्रुमविशिष्टः सोमगिरिर्नाम पर्वतो ऽस्तीति शेषः, सिन्धुर्नदविशेषः ॥ ४।४२।१५ ॥

तत्रेति । तत्र सोमगिरिसंबन्धिषु प्रस्थेषु शृङ्गेषु पक्षगमाः पक्षाभ्यां गमनशीलाः सिंहाः स्थितास्ते सिंहाः तिमिमत्स्यगजान् नीडानि स्ववासस्थानानि आरोपयन्ति । लालनार्थं नीडेषु स्थापयन्तीत्यर्थः ॥ ४।४२।१६ ॥

तानीति । गिरिशृङ्गगताः ये मातङ्गाः तदुपलक्षिततिम्यादयस्ते दृप्ताः सपक्षसिंहादृतत्वेन प्राप्तगर्वास्तृप्ताः प्राप्तसंतोषाः अत एव तोयदस्वननिःस्वनाः सन्तः तोयपूर्णे अस्मिन् शृङ्गे विद्यमानानि सिंहानां तानि नीडानि समन्ततो विचरन्ति । सार्धश्लोक एकान्वयी ॥ ४।४२।१७ ॥

तस्येति । दिवस्पर्शं चित्रपादपं तस्य सर्वं शृङ्गं कामरूपिभिः कपिभिः आशु विचेतव्यम् ॥ ४।४२।१८ ॥

कोटिमिति । हे वानराः तत्र प्रसिद्धे समुद्रे समुद्रस्य मध्ये शतयोजनां काञ्चनीं दुर्दर्शाम् अन्यैद्रष्टुमशक्यां पारियात्रस्य गिरेः कोटिं शृङ्गं द्रक्ष्यथ ॥ ४।४२।१९ ॥

कोट्य इति । तत्र पारियात्रशृङ्गे कामरूपिणां घोराणां भयंकराणाम् अग्निनिकाशानां वह्निसदृशानां तरस्विनां गन्धर्वाणां चतुर्विंशत् कोट्यो वसन्ति ॥ ४।४२।२० ॥

पावकेति । पावकार्चिःप्रतीकाशाः वह्निज्योतिःसदृशाः समन्ततः समवेताः पूर्णास्ते गन्धर्वाः भीमविक्रमैर्वानरैर्न अत्यासादयितव्याः पीडयितव्याः ॥ ४।४२।२१ ॥

नेति । हि यतः दूरासदाः भीमविक्रमा अतिवेगाः महाबलास्ते गन्धर्वाः तत्र श्रृङ्गे फलमूलानि रक्षन्ते अतस्तस्मात् देशात् किंचित्फलं प्लवङ्गमैर्नादेयम् । सार्धश्लोक एकान्वयी ॥ ४।४२।२२,२३ ॥

तत्रेति । तत्र शृङ्गे जानकी मार्गितव्या अतयत्नः अन्वेषणप्रयत्नः कर्तव्यः । ननु गन्धर्वाणामतिप्राबल्यात् कथमन्वेषणसिद्धिरित्यत आह कपित्वं स्वाभाविकः चाञ्चल्यमनुवर्ततां युष्माकं तेभ्यो गन्धर्वेभ्यः किञ्चिद्भयं न । एतेन स्वाभाविकगमनव्याजेनैव अन्वेषणं कर्तव्यमिति व्यञ्जितम् ॥ ४।४२।२४ ॥

तत्रेति । तत्र पारियात्रगिरिसंनिधौ तत्र समुद्रे वैढूर्यवर्णस्येवाभा यस्य सः वज्रसंस्थानसंस्थितः वज्रवत् संस्थानमवयवसंनिवेशस्तेन संस्थितो युक्तः योजनानां शतं समम् उन्नतानुन्नतरहितम् यथा भवति तथा समुदितः प्रकाशितः वज्रो नाम गिरिरस्तीति शेषः, तत्र विद्यमाना गुहाः प्रयत्नेन विचेतव्याः । श्लोकद्वयमेकान्वयि ॥ ४।४२।२५,२६ ॥

चतुरिति । समुद्रस्य चतुर्भागे चतुर्थांशे चक्रवान्नाम पर्वतो ऽस्तीति शेषः । तत्र तस्मिन् पर्वते विश्वकर्मणा निर्मितं सहस्रारं चक्रमतिष्ठदिति शेषः । तत्र चक्रनिर्माणोत्तरकाले पुरुषोत्तमो नारायणः पञ्चजनं तदभिधं हयग्रीवं तदभिधं च दानवं हत्वा ततस्तस्मात्पर्वतात् चक्रमाजहार शङ्खं च आजहार पञ्चजनास्थितो विश्वकर्मणा निर्मापथ्य आनयामासेत्यर्थः । हत्वा चक्रमाजहारेत्यनेन चक्राहरणप्रतिबन्धकौ तौ याताविति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ४।४२।२७,२८ ॥

तत्रेति । तत्र चक्रवत्पर्वतीयेषु सानुषु गुहासु च वैदेह्या सह रावणः मार्गितव्यः ॥ ४।४२।२९ ॥

योजनानीति । अगाधे वरुणालये चतुःषष्टिर्योजनानि सुवर्णशृङ्गः वराहो नाम पर्वतो ऽस्तीति शेषः ॥ ४।४२।३० ॥

तत्रेति । तत्र वराहपर्वते जातरूपमयं प्राग्जोतिषं नाम पुरमस्तीति शेषः । तस्मिन् परे नरको नाम दानवो वसति ॥ ४।४२।३१ ॥

तत्रेति । तत्र वराहपर्वतीयेषु सानुषु गुहासु च रावणो मार्गितव्यः ॥ ४।४२।३२ ॥

तमिति । काञ्चनाः स्वर्णमयाः अन्तरा गर्भा दृश्यन्ते यत्र किं च काञ्चनान्तराणि विलक्षणवर्णानि दृश्यन्ते यत्र तं शैलेन्द्रं वराहमतिक्रम्य सर्वसौवर्णः धाराप्रस्रवणानां निर्झराणामयुतानि यस्मिन् स पर्वतो ऽस्तीति शेषः ॥ ४।४२।३३ ॥

तमिति । तं सर्वसौवर्णं पर्वतं सर्वतः गजादयः सततमभिगर्जन्ति तेन स्वगर्जितेन दर्पिताः भवन्तीति शेषः ॥ ४।४२।३४ ॥

यस्मिन्निति । यस्मिन् सौवर्णपर्वते हरिहयः हरितवर्णविशिष्टाश्वस्वामी पाकशासनः महेन्द्रो राजा सुरैरभिषिक्तः स पर्वतो मेघो नाम मेघनामा ॥ ४।४२।३५ ॥

तमिति । महेन्द्रपरिपालितं तं शैलेन्द्रमतिक्रम्य काञ्चनानि अत एव तरुणादित्यवर्णानि जातरूपमयैः वृक्षैः शोभितानि अत एव भ्राजमानानि दीप्तिमन्ति षष्टिं गिरिसहस्राणि गमिष्यथ । श्लोकद्वयमेकान्वयि ॥ ४।४२।३६,३७ ॥

तेषामिति । तेषां षष्टिसहस्रसंख्याककाञ्चनगिरीणां मध्ये पुरा पूर्वं प्रसन्नेन आदित्येन दत्तवरः उत्तमपर्वतः पर्वतोत्तमः राजा सर्वपर्वताधीशः मेरुस्तदभिधः शैलः स्थितः ॥ ४।४२।३८ ॥

वरप्रकारमाह तेनेति । दिवा रात्रौ ये त्वदाश्रयाः भविष्यन्ति ते सर्वे काञ्चनाः सुवर्णमयाः भविष्यन्ति । एवं तेन रविणा शैलेन्द्र उक्तः ॥ ४।४२।३९ ॥

त्वयीति । ये देवादयस्त्वयि वत्स्यन्ति ते प्रभया काञ्चनप्रभाः सन्तः भक्ताः मयि प्रीतिमन्तो भविष्यन्ति ॥ ४।४२।४० ॥

विश्व इति । विश्वेदेवादयः प्रश्चिमां संध्यां पश्चिमसंध्यासंबन्धिकालमागत्य ज्ञात्वा उत्तमपर्वतं मेरुमागत्य प्राप्य आदित्यमुपतिष्ठन्ति पूजयन्ति तैरभिपूजितः सूर्यो ऽस्तं पर्वतं गच्छति अत एव सर्वभूतानामदृश्यो भवतीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४२।४१,४२ ॥

योजनानामिति । दिवाकरः शिलोचयं तमस्ताचलं तानि प्रसिद्धानि योजनानां दशसहस्राणि मुहूर्तार्धेन एकघटिकयोल्लङ्घयेति शेषः, अभियाति मेरुतो ऽभिगच्छति ॥ ४।४२।४३ ॥

शृङ्ग इति । तस्य अस्ताचलस्य शृङ्गे महद्विशालं प्रासादगणसंबाधं प्रासादसमूहैर्निबिडं विश्वकर्मणा विहितं निर्मितं नानापक्षिसमाकुलैश्चित्रैस्तरुभिः शौभितं भवनं चिन्तनीयं पाशहस्तस्य वरुणस्य निकेतमस्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४२।४४,४५ ॥

अन्तरेति । मेरुमस्तं च अन्तरा मध्ये दशशिराः दशमहाशाखावान् जातरूपमयः चित्रवेदिकस्तालोरुर्भ्राजते ॥ ४।४२।४६ ॥

तेष्विति । तेषु प्रसिद्धेषु दुर्गेषु दुर्गेमेषु सरःसु सरित्सु च रावणो मार्गितव्यः ॥ ४।४२।४७ ॥

यत्रेति । यत्र मेरौ स्वेन तपसा भावितः प्रकाशितः मेरुसावर्णिरिति नाम्ना ख्यातः प्रसिद्धः ब्रह्मणा समः एष महर्षिः तिष्ठति तत्र मेरुसावर्णिर्महर्षिः मैथिलीं प्रति प्रवृत्तिं मैथिल्याः स्थितिं प्रष्टव्यः । श्लोकद्वयमेकान्वयि ॥ ४।४२।४८,४९ ॥

एतावदिति । रजनीक्षये रात्रिनिवृत्त्यर्थं जीवलोकस्य एतावत्सर्वं स्थानं वितिमिरं कृत्वा भास्करो ऽस्तं पर्वतं गच्छति ॥ ४।४२।५० ॥

एतावदिति । हे वानरपुङ्गवाः एतावदेव वानरैर्गन्तुं शक्यम् । एतेनातः परं मया न गतमिति सूचितम् । अत एव ततः परं न जानीमः ॥ ४।४२।५१ ॥

अवगम्येति । अस्तं पर्वतमासाद्य प्राप्य वैदेहीमवगम्य ज्ञात्वा पूर्णे मासे निवर्तत । मासपूर्त्यभ्यन्तरसमये इह प्राप्नुतेत्यर्थः ॥ ४।४२।५२ ॥

उर्ध्वमिति । मासादूर्ध्वं वसन् वानरः मम वध्यो भवेत् अतः ऊर्ध्वं न वस्तव्यम् युष्माभिः सहैव मे श्वशुरः सुषेणो गमिष्यति ॥ ४।४२।५३ ॥

श्रोतव्यमिति । एष सुषेणः यतो गुरुर्महान् अतः दिष्टकारिभिः आज्ञावर्तिभिः भवद्भिः एतस्य सुषेणस्य सर्वं वचनं श्रोतव्यं श्रुत्वा कर्तव्यम् ॥ ४।४२।५४ ॥

भवन्त इति । सर्वकर्मसु निखिलक्रियासु भवन्तो यद्यपि प्रमाणं व्यवस्थापकास्तथाप्येनं सुषेणं प्रमाणं संस्थाप्य व्यवस्थापकत्वेन निश्चित्य पश्चिमां दिशं पश्यध्वम् । बहूनां स्वातन्त्र्येण कार्यव्यवस्थापकत्वे कार्यं न सिध्यतीति तात्पर्यम् ॥ ४।४२।५५ ॥

कृतेति । कृतस्य रामकर्तृकोपकारस्य प्रतिकर्मणा प्रत्युपकारेणैव यतः कृतकृत्या भविष्यामः तस्मात् अतो मदुपदिष्टात् अन्यत् कार्यस्यान्वेषणस्य प्रियं सानुकूलं भवेत् । तदपि देशकालार्थसंहितं देशकालार्थानुकूलं संप्रधार्य निश्चित्य भवद्भिः कार्यम् । सार्धश्लोक एकान्वयी ॥ ४।४२।५६ ॥

तत इति । ततः अवश्यं कर्तव्यत्वाद्धेतोः निपुणं न्याययुक्तं सुग्रीववाक्यं निशम्य श्रुत्वा सुषेणप्रमुखाः प्लवगाधिपाः प्लवङ्गमाः आमन्त्र्य परस्परं निश्चित्य वरुणाभिगुप्तां दिशं तां पश्चिमां जग्मुः ॥ ४।४२।५७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥ ४।४२ ॥