दक्षिणस्यां दिशि वानरप्रेषणमुपक्रमते तत इति । ततः प्राचीप्रेषणानन्तरं सुग्रीवो महत् वानरं बलम् अभिलक्षितान् कार्यसाधकत्वेन परीक्षितान् वानरान् प्रस्थाप्य प्रस्थानविधिं कारयित्वेत्यर्थः, दक्षिणां दिशं प्रेषयामास ॥ ४।४१।१ ॥
प्रेषणप्रकारमाह– नीलमित्यादिभिः । देशविशेषवित् कपिगणेश्वरः सुग्रीवः नीलप्रभृतीन् अङ्गदप्रमुखांश्च संदिदेश । द्वितीयः सुषेणः तारापितुरन्य इति न पानरुक्त्यम् । श्लोकचतुष्टयमेकान्वयि ॥ ४।४१।२५ ॥
तेषामिति । तेषां प्रेष्याणां हरिवीराणामग्रेसरं मुख्यमङ्गदं विधाय दक्षिणां दिशमादिशत् प्रेषयामास ॥ ४।४१।६ ॥
ये इति । तस्यां दक्षिणस्यां दिशि ये केचन समुद्देशाः प्रदेशाः सुदुर्गमाः । तान् कपीशः सुग्रीवः कपिमुख्यानां कपिमुख्यान् समुदाहरत् अबोधयत । संबन्धसामान्याविवक्षया षष्ठी अग्रे इत्यस्याध्याहारो वा अत्र पक्षे समुदाहरदित्यस्य अकथयदित्यर्थः ॥ ४।४१।७ ॥
तत्प्रकारमाह सहस्रेत्यादिभिः । विन्ध्यादीन् अनुपश्यत अन्वेषयत । अत्रापि दिग्विभागः आर्यावर्ताद्बोध्यः । अतो विन्ध्यस्य तदुत्तरत्वे ऽपि न क्षतिः । श्लोकपञ्चकमेकान्वयि ॥ ४।४१।८१२ ॥
अयोमुख इति । चित्रपुष्पितकाननः अयोमुखः पर्वतो गन्तव्यः ॥ ४।४१।१३ ॥
सुचन्दनेति । सुचन्दनवना उद्देशाः प्रदेशा यस्मिन् यस्य वा स महागिरिर्मलयो मार्गितव्यः । अर्धं पृथक् । तत इति । ततो मार्गणसमये तत्र तस्मिन् मलये अप्सरोगणैर्विहृतां कावेरीं द्रक्ष्यथ अर्धद्वयमेकान्वयि ॥ ४।४१।१४ ॥
तस्येति । तस्य नगस्य मलयस्याग्रे आसीनम् आदित्यसंकाशमगस्त्यं द्रक्ष्यथ तत्राप्यगस्त्याश्रमस्य सत्वात् तन्नामकऋष्यन्तरकल्पनाद्वा न पञ्चवटीप्रकरणाद्विरोधः ॥ ४।४१।१५ ॥
तत इति । तेनागस्त्येन अनुज्ञाता यूयं ग्राहजुष्टां बहुग्राहैः संवितां ताम्रपाणीं महानदीं तरिष्यथ ॥ ४।४१।१६ ॥
सेति । चित्रैः चन्दनवनैः प्रच्छन्नद्वीपमालिनी आच्छन्नद्वीपसमूहवती सा ताम्रपाणीं युवती कान्तेव कान्तं समुद्रमवगाहते प्रच्छन्नानि द्वीपानि वारीणि च यस्या इति । भट्टव्याख्यया “द्वीपवारिणी” इति पाठः प्रतीयते । तत्र नुमागम आर्षो बोध्यः ॥ ४।४१।१७ ॥
तत इति । हे वानराः ततः ताम्रपर्ण्याः गताः यूयं हेममयं युक्तं पुरद्वारि निविष्टं पाण्ड्यानां राजविशेषाणां कवाटं द्रक्ष्यथ ॥ ४।४१।१८ ॥
तत इति । समुद्रमासाद्य प्राप्य अर्थनिश्चयम् अर्थस्य अन्वेष्यसीताया निश्चयं स्थितिनियमं संप्रधार्य तत्रत्यजन्तुभ्यः प्रश्नादिना निश्चित्य चित्रसानुगतः विचित्रानेकसानुमान् तत्र सागरे अन्तरे तटे अगस्त्येन विनिवेशितः अत एव फुल्लैः पुष्पितैर्नगैस्तरुभिर्लताभिश्चोपशोभितं देवर्ष्यादिभिः शोभितं सिद्धादिभिः प्रकीर्णं व्याप्तं महार्णवमवगाढः निमग्नैकपार्श्वः महेन्द्रः पर्वतो ऽन्वेषणीय इति शेषः । सार्धश्लोकत्रयमेकान्वयि ॥ ४।४१।१९२२ ॥
तमिति । तं निमग्नमहेन्द्राचलकं समुद्रं प्रवसु पर्वसु सहस्राक्षः सदा उपैति तस्य समुद्रस्यापरे पारे शतयोजनविस्तृतः मानुषैरगम्यः दीप्तः प्रकाशितो यो द्वीपस्तं समन्ततो मार्गध्वं परतटस्य द्वीपत्वं तु दक्षिणत आगत्य समुद्रान्तरसंगमात् । सार्धश्लोक एकान्वयी ॥ ४।४१।२३ ॥
तत्रेति । सहस्राक्षसमद्युतेः वध्यस्य रावणस्य वासः वासाश्रयः स एव देशः अतस्तत्र द्वीपे सर्वात्मना निखिलयत्नेन सीता विशेषतो मार्गितव्या । सार्धश्लोक एकान्वयी ॥ ४।४१।२४,२५ ॥
दक्षिणस्येति । दक्षिणस्य समुद्रस्य मध्ये छायामाक्षिप्य संगृह्य भोजिनी छायावज्जन्तुभक्षणशीला अङ्गारेकेति विख्याता राक्षसी अस्तीति शेषः, एतेन तदुल्लङ्घनं सावधानतया कर्तव्यमिति सूचितम् ॥ ४।४१।२६ ॥
एवमिति । नष्टसंशयाः सीताप्राप्तिविषयकसंशयरहिता यूयं संशयान् तत्तदाकारविषयकसंशयसहितान् देशान् एवं मद्वचनेन निःसंशयान् कृत्वा नरेन्द्रस्य रामस्य पत्नीं मृगयध्वम् ॥ ४।४१।२७ ॥
तमिति । तं लङ्काप्रदेशमतिक्रम्य विद्यमाने शतयोजनविस्तीर्णे समुद्रे लक्ष्मीवान् सर्वसंपत्तिविशिष्टः सागराम्बुसमाश्रयः उत्तरावयवेन सागरजले निमग्नः पुष्पितको नाम गिरिः विपुलैः शृङ्गैः अम्बरमाकाशं विलिखन्निव भ्राजते । श्लोकद्वयमेकान्वयि ॥ ४।४१।२८,२९ ॥
तस्येति । तस्य पुष्पितकगिरेः एकं काञ्चनं शृङ्गमयं दिवाकरं सूर्यः सेवते एकं राजतं शृङ्गमयं निशाकरः सेवते ॥ ४।४१।३० ॥
नेति । तत् शृङ्गं कृतघ्नादयो न पश्यन्ति । तं तादृशशृङ्गवन्तं शैलं शिरसा प्रणम्य विमार्गत ॥ ४।४१।३१ ॥
तमिति । तं शैलमतिक्रम्य विद्यमानः दुर्विगाहेन अध्वना उपलक्षितः चतुर्दशयोजनानि सूर्यवान्नाम पर्वतो ऽस्तीति शेषः ॥ ४।४१।३२ ॥
तत इति । तं सूर्यवत् शैलमयमतिक्रम्य विद्यमानः सर्वाणि कामफलानि येषु तैः सर्वकालमनोहरैः वृक्षैरुपलक्षितः वैद्युतो नाम पर्वतो ऽस्तीति शेषः ॥ ४।४१।३३ ॥
तत्रेति । तत्र वैद्युतपर्वते वरार्हाणि अतिप्रशंसनीयानि मूलानि फलानि च भुक्त्वा जुष्टानि सेवनीयानि मधूनि पीत्वा परमग्निमदेशं गच्छत ॥ ४।४१।३४ ॥
तत्रेति । यत्र विश्वकर्मणा निर्मितमगस्त्यभवनं तत्र वैद्युतनामपर्वतसमीपे नेत्रमनःकान्तः नेत्रमनसोरभिरामदाता कुञ्जरो नाम पर्वतो ऽस्तीति शेषः ॥ ४।४१।३५ ॥
अगस्त्यभवनमेव वर्णयन्नाह तत्रेति । तत्र कुञ्जरनामपर्वते योजनं विस्तारो यस्य तत् दशयोजनं दशयोजनपर्यन्तमुच्छ्रितं काञ्चनं स्वर्णमयं नानारत्नविभूषितं शरणमगस्त्यगृहमस्तीति शेषः ॥ ४।४१।३६ ॥
तत्रेति । तत्र कुञ्जरनामपर्वते सर्पाणामालयः विशाला विस्तीर्णा रथ्या मार्गा यस्यां सर्वतः परिरक्षिता दृढा घोरैः पन्नगैः रक्षिता भोगवती नाम पुरी अस्तीति शेषः । सार्धश्लोक एकान्वयी ॥ ४।४१।३७ ॥
सर्पेति । सर्पराजो वासुकिः यस्यां वसति सा भोगवती पुरी निर्याय गत्वा मार्गितव्या । तत्र पुरीसमीपे समावृताः अप्रकटाः अनन्तराः अव्यवहिताः ये केचन देशाः ते च मार्गितव्याः । भोगवत्याः पाताले प्रसिद्धात्वे ऽपि अत्र भोगवत्यन्तरकल्पनया न दोषः । सार्धश्लोक एकान्वयि ॥ ४।४१।३८,३९ ॥
तमिति । तं भोगवतीसमीपवर्तिनं देशमतिक्रम्य यत्र अग्निसमप्रभं दिव्यं तत्प्रसिद्धं गोशीर्षकादिचन्दनविशेषजातिमत् उत्पद्यते सः ऋषभसंस्थितिः वृषभाकृतिः ऋषभो नाम पर्वतः अस्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४१।४०,४१ ॥
नेति । तत् चन्दनं दृष्ट्वा कदाचन भविद्भिर्न स्प्रष्टव्यम् । तत्र हेतुः रोहिता नाम गन्धर्वास्तद्वनं रक्षन्ति । तत्र हेतुः सूर्यसमप्रभाः शैलूषादयः पञ्च गन्धर्वपतयः तत्र तस्मिन् वने निवसन्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।४१।४२,४३ ॥
रवीति । ततः ऋषभात्परतः पृथिव्याः अन्ते पुण्यकर्मणां रविसोमाग्निवपुषां निवासः अत एव ततस्तत्र दुर्धर्षाः स्वर्गजित एव स्थिताः ॥ ४।४१।४४ ॥
तत इति । ततः परं परदेशवर्ती सुदारुणः पितृलोकः वो युष्माकं सेव्यो न । सुदारुणत्वे हेतुः कष्टेन दुःखेन तमसा आवृता एषा यमस्य राजधानी ॥ ४।४१।४५ ॥
एतावदिति । एतावत् पितृलोकात् पूर्वमेव गन्तुं विचेतुं वा शक्यम् अतः परं गतिमतां जीनन्मनुष्यादीनामित्यर्थः, गतिर्न ॥ ४।४१।४६ ॥
सर्वमिति । एतत् मद्बोधितं सर्वमन्यदपि यद्दृश्यते तदपि समालोक्य वैदेह्या गतिं स्थितिं विदित्वा संनिवर्तितुमर्हथ ॥ ४।४१।४७ ॥
य इति । मासात् मासान्तदिनात् अग्रे पूर्वं निवृत्तो यो वानरः सीता मया दृष्टेति वक्ष्यति स मत्तुल्यविभवः सन् भोगैः भोग्यपदार्थैः सुखं विहरिष्यति । किंच यो मासादेव निवृत्तः सन् दृष्टेति अग्रे प्रथमं वक्ष्यति सः अग्रे मत्संनिधौ वक्ष्यतीति वा मदग्रे विहरिष्यतीति वार्थः ॥ ४।४१।४८ ॥
तत इति । ततः दृष्टा सीतेत्युक्तवतो ऽन्यो मम प्राणाद्विशेषतो विशेषः प्रियतरो नास्ति स एव विशेषतः प्रियतर इत्यर्थः, अत एव सः कृतापराधो ऽपि मम बन्धुः प्रीतिविषयीभूत एव भविष्यति तदपराधं न गणयिष्यामीत्यर्थः ॥ ४।४१।४९ ॥
अमितेति । विपुलगुणेषु बहुगुणवत्सु कुलेषु प्रसूता अत एव अमितबलपराक्रमाः अत एव भवन्तो दीप्तिमन्तो यूयं मनुजपतिसुतां जानकीं यथा येन प्रकारेण लभध्वं तदनुगुणं तदनुसारिणं पुरुषार्थमारभध्वम् ॥ ४।४१।५० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४।४१ ॥