सुग्रीवोक्तिं वर्णयन्नाह अथेत्यादिभिः । अथ सैन्येयत्ताकरणप्रार्थनानन्तरं समृद्धार्थः प्रवृद्धसर्वसंपत्तिः सुग्रीवो राममुवाच ॥ ४।४०।१ ॥
तद्वचनाकारमाह– आगता इत्यादिभिः । ये मद्विषयवासिनः बलिनो वानरेन्द्राः ते आगताः विनिविष्टाः उचितदेशे संस्थिताश्च ॥ ४।४०।२ ॥
तदेव भङ्ग्यन्तरेणाह– त इति । बहुविक्रान्तैरनेकदेशचारिभिर्बलिभिर्वानरैः सह ख्यातकर्मसु युद्धेषु अपदानं शौर्यं येषां ते बलवन्तः प्रशस्तबलविशिष्टाः अत एव जितक्लमाः अत एव पराक्रमेषु व्यवसायेषु च विख्याताः अत एव उत्तमाः पृथिव्यम्बुचराः पृथिवीषु अम्बुषु समुद्रादिजलेषु विचरणशीलाः दैत्यदानवसंनिभाः वानराः आगताः । सार्धश्लोक एकान्वयी ॥ ४।४०।३,४ ॥
कोटीति । कोट्योघाः कोटिसमूहाः प्राप्ताः ये तव किङ्कराः वानरास्ते सर्वे अभिप्रेतं तवेप्सितमनुष्ठातुं शक्ष्यन्ति । सार्धश्लोक एकान्वयी ॥ ४।४०।५,६ ॥
शक्तत्वमेव द्रढयन्नाह– त इति । अनेकैर्बहुविधैर्बहुसाहस्रैः सह ये इमे आगता वानरास्ते दैत्यदानवसंनिभाः सन्तीति शेषः ॥ ४।४०।७ ॥
यदिति । हे नरव्याघ्र त्वद्वशे युक्तं प्राप्तं त्वत्सैन्यमाज्ञापयितुमर्हसि अतः यत् प्राप्तकालं मन्यसे तदुच्यताम् ॥ ४।४०।८ ॥
काममिति । इदं सतान्वेषणरूपं कार्यं यद्यप्येषां मम च तत्त्वतो विदितं तथा ऽपि यथायुक्तं युक्तमनतिक्रम्यैव यथेच्छमाज्ञापयितुमर्हसि ॥ ४।४०।९ ॥
तथेति । तथा तेन प्रकारेण ब्रुवाणं सुग्रीवं रामो बाहुभ्यां संपरिष्वज्य इदमब्रवीत् ॥ ४।४०।१० ॥
तद्वचनाकारमाह– ज्ञायतामित्यादिभिः । यस्मिन्देशे रावणो वसति स देशः वैदेही जीवति न वा इति च यदि यस्मिन् काले ज्ञायतां तस्मिन् काले वैदेहीमभिगम्य प्राप्य रावणस्य निलयं प्राप्तकालं विध्वंसाश्रयमित्यर्थः, विधास्यामि करिष्यामि । श्लोकद्वयमेकान्वयि ॥ ४।४०।११,१२ ॥
ननु तर्हि वानरान् आज्ञापयेत्यत आह– नेति । अस्मिन् अन्वेषणाज्ञापने अहं प्रभुः नास्मि । न लक्ष्मणः प्रभुरस्ति । अतः अस्य कार्यस्य हेतुः कारणं प्रभुः तत्र समर्थश्च त्वमेव ॥ ४।४०।१३ ॥
त्वमिति । मम कार्यविनिश्चियं त्वमेव आज्ञापय हि यतः मम यत् कार्यं तत् त्वं जानासि ॥ ४।४०।१४ ॥
सुहृदिति । सुहृद्द्वितीयो विक्रान्तो बलम् अतः प्राज्ञः सर्वविषयकज्ञानवान् अत एव कालविशेषवित् अर्थवित्तमः याथार्थ्यविज्ञातृषु श्रेष्ठः भवान् यदि अस्मद्धिते युक्तः तर्हि सुकृतार्थः अर्थः सिद्धः ॥ ४।४०।१५ ॥
एवमिति । एवमुक्तः सुग्रीवः शैलाभं प्लवगेश्वरं विनतं नाम यूथपं रामसांनिध्ये लक्ष्मणस्य च सांनिध्ये इति शेषः । अब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।४०।१६ ॥
तद्वचनाकारमाह– सोमेत्यादिभिः देशकालनयैर्युक्तः कार्यविनिश्चये विज्ञः तरस्विनां वानराणां शतसहस्रेण वृतस्त्वं सोमसूर्यनिभैः वानरैः सार्धं पूर्वां दिशमभिगच्छ । अर्धचतुष्टयमेकान्वयि ॥ ४।४०।१७ ॥
तत्रेति । तत्र पूर्वस्यां दिशि गिर्यादिषु सीतां रावणस्य निलयं च मार्गध्वम् ॥ ४।४०।१८ ॥
नदीमिति । भागीरथ्यादीन् पर्वतादींश्च ये केचिदालया मन्दरस्य कोटिं देशं संश्रिताः तांश्च प्राप्य रामस्य भार्यां दशरथस्य स्नुषां सीतां मृगयद्गिर्भवद्भिस्ततस्ततः सर्व तत्स्थलं विचेतव्यम् । तत्र कालिन्दी यमुना यामुनः यमुनोत्पत्तिकारणीभूतागिरिः, महीकालमह्यौ नदीविशेषौ, कोशकाराः राजविशेषाः क्रिमिविशेषा वा अवगाढाः समुद्रसंबद्धाः । सार्धश्लोकपञ्चकमेकान्वयि ॥ ४।४०।१९२५ ॥
कर्णेति । कर्णप्रावरणाः स्वकर्णकृतवस्त्राः विशालकर्णा इत्यर्थ । ओष्ठकर्णकाः ओष्ठपर्यन्तकर्णविशिष्टाः घोरलोहमुखाः घोरा एव लोहमुखाः नीलत्वादिना लोहसदृशमुखविशिष्टाः एकपादका यवनाश्च ॥ ४।४०।२६ ॥
अक्षयाः नाशरहिता गृहरहिता वा पुरुषादकाः राक्षसाश्च तीक्ष्णचूडाः तीक्ष्णकेशपाशविशिष्टाः हेमाभाः किराताश्च ॥ ४।४०।२७ ॥
आममीनाशनाः अपक्वमीनभोजिनः द्वीपवासिनः नद्यन्तर्गतजलाप्लावितदेशवसनशीलाः किराताश्च अन्तर्जलचराः नरव्याघ्राः इत्यनेन नाम्ना श्रुताः प्रसिद्धाश्च सन्तीति शेषः, तत्प्रसिद्धिस्तु अधोदेशे नराकारत्वेन ऊर्ध्वदेशे व्याघ्राकारत्वेन च बोध्या ॥ ४।४०।२८ ॥
एतेषामिति । एतेषां कर्णप्रावरणादीनामाश्रयाः स्थानानि ये देशाः गिरिभिः पर्वतैः प्लवनेन उत्प्लुत्या च प्लवेन उडुपेन च गम्यन्ते ते च । किंच गिरिप्रभृतिभिर्ये गम्यन्ते ते कर्णप्रावरणादीनामाश्रया विचेयाः अन्वेषणीयाः । काननौकस इति संबोधनम् ॥ ४।४०।२९ ॥
यत्नवन्त इति । सप्तराज्योपशोभितं सप्तसंख्याकराज्ययुक्तं यवद्वीपं सुवर्णकरमण्डितं स्वर्णप्रकाशेन प्रकाशितं सुवर्णरूप्यकद्वीपं च यवद्वीपमतिक्रम्य देवदानवसेवितः यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति तं च प्राप्येति शेषः, एतेषां यवद्वीपादीनां गिरिदुर्गेषु पर्वतगुहासु प्रपातेषु निर्झरेषु च वनेषु च यत्नवन्तः कृतप्रयत्नाः सहिताः मिलिताः सर्वे यूयं रामपत्नीं मार्गध्वम् । श्लोकत्रयमेकान्वयि ॥ ४।४०।३०३२ ॥
तत इति । ततो ऽनन्तरं सिद्धचारणसेवितं समुद्रस्य पारं गत्वा रक्तजलं शोणाख्यं प्राप्य तीर्थेषु पवित्रेषु तस्य शोणस्य वनेषु, किंच तस्य तीर्थेषु घट्टेषु वनेषु च वैदेह्या सह रावणो मार्गितव्यः । श्लोकद्वयमेकान्वयि ॥ ४।४०।३३,३४ ॥
पर्वतेति । सुभीमबहुनिष्कुटाः भयङ्करानेकवनप्रदेशयुक्ताः पर्वतप्रभवाः नद्यः दरीमन्तः दरीयुक्ताः पर्वताश्च वनानि च मार्गितव्याः ॥ ४।४०।३५ ॥
तत इति । ततो ऽनन्तरम् ऊर्मिमन्तमत एव क्रोशन्तमनिलोद्धतमिक्षुसमुद्रमिति शेषः, समुद्रद्वीपांश्च द्रष्टुमन्वेषितुमर्हथ ॥ ४।४०।३६ ॥
तत्रेति । तत्र तस्मिन् इक्षुसमुद्रे दीर्घकालं बुभुक्षिताः अत एव ब्रह्मणा समनुज्ञाता गृहीतच्छायकभोजनाय आज्ञप्ताः महाकायाः असुराः छायां गृह्णन्ति छायाद्वारा जन्तूनाकर्षन्तीत्यर्थः ॥ ४।४०।३७ ॥
तमिति । महोरगनिषेवितं कालमेघप्रतिमं महानादं तं पूर्ववर्णितं महोदधिं तीर्थेनोपायेन अभिगम्य प्राप्य ततस्तस्मान्महोदधेः रक्तजलमरुणजलविशिष्टं लोहितं नाम सागरं गत्वा बृहतीं विशालां कूटशान्मलीं कूटाकारशाल्मलीतरुं यूयं द्रक्ष्यथ । श्लोकद्वयमेकान्वयि ॥ ४।४०।३८,३९ ॥
“तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजस्सुच” इति मेदिनी । गृहमिति । तत्र कूटशाल्मलीसंनिधौ विश्वकर्मणा निर्मितं वैनतेयस्य गरुडस्य गृहं द्रक्ष्यथेत्यनुकृष्यते ॥ ४।४०।४० ॥
तत्रेति । तत्र कूटशाल्मलीसंनिधिवर्तिपर्वते शैलनिभाः पर्वतसदृशाः मन्देहा नाम राक्षसाः शैलशृङ्गेषु लम्बन्ते अधोमुखेनेति शेषः ॥ ४।४०।४१ ॥
ते इति । मन्देहा नाम राक्षसाः सूर्यस्योदयनं प्रति उदयसमये सूर्येण योद्धुं गता इति शेषः, अत एव सूर्येण ब्रह्मतेजोभिर्व्यापकीभूतकिरणैः अभितप्ताः अत एव निहताः सन्तः जले निपतन्ति पुनः पुनर्लम्बन्ते च, शैलशृङ्गेषु इति शेषः । सार्धश्लोक एकान्वयी ॥ ४।४०।४२ ॥
तत इति । ततः अनन्तरं पाण्डूरमेधाभं क्षीरोदं नाम सागरम् ऊर्मिभिर्मुक्ताहारमिव दुर्धर्षा यूयं द्रक्ष्यथ । अर्धद्वयमेकान्वयि ॥ ४।४०।४३ ॥
तस्येति । तस्य क्षीरोदस्य मध्ये कुसुमितैः राजतैः रजतमयैर्नगैस्तरुभिर्वृतः ऋषभो नाम पर्वतो ऽस्तीति शेषः ॥ ४।४०।४४ ॥
सर इति । हेमकेसरैः स्वर्णमयकेसरविशिष्टैः राजतैः रजतमयैः ज्वलितैः पद्मैः राजहंसैश्च समाकुलं व्याप्तं नाम्ना सुदर्शनं सुदर्शनामित्यर्थः, सरो ऽस्तीति शेषः । नाम प्रसिद्धमेतत् ॥ ४।४०।४५ ॥
विबुधा इति । रिरसवो रन्तुमिच्छवो विबुधादयस्तां नलिनीं सरसीं समधिगच्छन्ति ॥ ४।४०।४६ ॥
क्षीरोदमिति । क्षीरोदं समतिक्रम्य सर्वभूतभयावहं जलोदं प्रशस्तजलविशिष्टं सागरं द्रक्ष्यथ ॥ ४।४०।४७ ॥
तत्रेति । तत्र जलोदसागरे तत्कोपजम् और्वऋषिकोपात् जातं तेजस्तेजोरूपं महत् हयमुखं कृतं निक्षिप्तं सचराचरं सागरवर्तिचराचरसहितं महावेगं महावेगविशिष्टं जलम् अस्य हयमुखस्य ओदनं भक्षयामासेति शेषः ॥ ४।४०।४८ ॥
तत्रेति । तत्र सागरे यद्वडवामुखमभूत् तद्वडवामुखं दृष्ट्वा विक्रोशतामसमर्थानां तत्पतनपरिहारकसामर्थ्यरहितानां सागरौकसां भूतानां नादो रोदनं श्रूयते ॥ ४।४०।४९ ॥
स्वाद्विति । स्वादूदस्य सागरस्य उत्तरे तीरे त्रयोदश योजनानि जातरूपशिलः स्वर्णमयशिलावान् अत एव कनकप्रभः सुमहान् पर्वतो ऽस्तीति शेषः । “जलोदस्य” इति पाठान्तरम् ॥ ४।४०।५० ॥
तत्रेति । तत्र तस्मिन् पर्वतस्याग्रे आसीनं चन्द्रप्रतीकाशं श्वेतत्वेन चन्द्रतुल्यं पद्मपत्रविशालाक्षं सर्वदेवनमस्कृतं सहस्रशिरसं धरणीधरं नीलवाससं पन्नगमनन्तं द्रक्ष्यथ । अर्धचतुष्टयमेकान्वयि ॥ ४।४०।५१,५२ ॥
त्रिशिरा इति । त्रिशिराः शाखात्रयविशिष्टः सवेदिकः आधारभूतवेदिकासहितः महात्मनो ऽनन्तस्य स्थापितः काञ्चनः स्वर्णमयः केतुः केतुभूतस्तालः पर्वतस्याग्रे विराजति ॥ ४।४०।५३ ॥
पूर्वस्यामिति । ततः तालात्परं त्रिदशेश्वरैर्यस्य निर्माणं कृतं तत् स हेममयः उदयपर्वतः पूर्वस्यां दिश्यस्तीति शेषः । तदिति सामान्ये नपुंसकम् ॥ ४।४०।५४ ॥
तस्येति । तस्य उदयपर्वतस्य शतयोजनमायता जातरूपमयी सवेदिका कोटिरग्रभागः दिवं स्पृष्ट्वा विराजति ॥ ४।४०।५५ ॥
सालैरिति । सूर्यसंनिभैः तालादिभिः शोभते तस्य कोटिरिति शेषः ॥ ४।४०।५६ ॥
तत्रेति । तत्रोदयपर्वते योजनविस्तारं योजनपरिमितविस्तारविशिष्टं दशयोजनमुछ्रितं दशयोजनपरिमितोच्छ्रायविशिष्टं जातरूपमयं सौमनसं नाम शृङ्गमस्तीति शेषः ॥ ४।४०।५७ ॥
तत्रेति । पुरा पूर्वं त्रिविक्रमे त्रिलोकीयत्ताकरणसमये तत्र सौमनसशृङ्गे पूर्वं प्रथमं पदं चरणं कृत्वा धृत्वा द्वितीयचरणं मेरोः शिखरे चकार ॥ ४।४०।५८ ॥
उत्तेरेणेति । दिवाकरः अस्तं प्राप्येति शेषः, उत्तरेण पथा जम्बूद्वीपं परिक्रम्य महोच्छ्रयं तत् सौमनसाभिधं शिखरमागत्येति शेषः, भूयिष्ठमधिकं दृश्यो भवति जम्बूद्वीपनिवासिनामिति शेषः । इदं सत्ययुगाभिप्रायं त्रेतायां क्षीरसागरमध्यगस्य द्वापरे सुरोदमध्यगस्य कलौ लङ्कामध्यगस्य मनुष्यलोकदृश्यताया अन्यत्रोक्तत्वादिति भट्टाः ॥ ४।४०।५९ ॥
तत्रेति । तत्र सौमनसशृङ्गे सूर्यवर्णाः वालखिल्याः दृश्यन्ते ॥ ४।४०।६० ॥
अयमिति । यस्य सौमनसशृङ्गस्य पुरो ऽग्रे अयं सुदर्शनो द्वीपः प्रकाशते । तस्मिन् सौमनसशृङ्गे सर्वप्राणभृतां तेजः चक्षुश्च तत्र सूर्ये गते सत्येव प्राणिनां तेजःसबन्धः चक्षुषः कार्यकारित्वं च भवतीत्यर्थः ॥ ४।४०।६१ ॥
शैलस्येति । तस्य शैलस्य पृष्ठादिषु वैदेह्या सह रावणः मार्गितव्यः ॥ ४।४०।६२ ॥
काञ्चनस्येति । काञ्चनस्य शैलस्य सूर्यस्य च तेजसा आविष्टा पूर्वा संध्या रक्ता प्रकाशते तेजोद्वयाविष्टात्वं तु सूर्यस्य काञ्चनशैलाधिष्ठितत्वे एव भवतीति तात्पर्यम् ॥ ४।४०।६३ ॥
पूर्वमिति । एतत् सूर्यस्य उदयनं उदयस्थानं पूर्वं कृतं ब्रह्मणा विरचितमत एव पृथिव्याः भुवनस्य जनस्य द्वारं प्रवृत्तिमार्गः पूर्वं कृतमतः एषा दिक् पूर्वोच्यते ॥ ४।४०।६४ ॥
तस्येति । तस्य उदयभूमेः शैलस्य पृष्ठादिषु रावणः मार्गितव्यः ॥ ४।४०।६५ ॥
तत इति । ततः उदयगिरेः परं पूर्वा दिक् चन्द्रसूर्याभ्यां रहिता अत एव तमसा वृता अत एव अदृश्या अत एव त्रिदशावृता दिग् देवतामात्राविष्टा अत एव अगम्या अस्माभिरिति शेषः । एतेन ततः परं न गन्तव्यमिति सूचितम् ॥ ४।४०।६६ ॥
शैलेष्विति । ये उद्देशाः देशा मया नोक्ताः तेष्वपि शैलादिषु जानकी विचेया ॥ ४।४०।६७ ॥
एतावदिति । हे वानरपुङ्गवाः एतावत् उदयगिरिपर्यन्तमेव वानरैर्गन्तुं शक्यम् अतः अभास्करं भास्करोपलक्षितसूर्यचन्द्रादिरहितमत एव अमर्यादं ततः उदयगिरेः परं स्थलं वयं न जानीमः ॥ ४।४०।६८ ॥
अभिगम्येति । उदयं पर्वतं प्राप्य रावणस्य निलयं वैदेही च अभिगम्य निश्चित्य मासे पूर्णे मासाभ्यन्तरे इत्यर्थः, निवर्तध्वम् ॥ ४।४०।६९ ॥
ऊर्ध्वमिति । मासादूर्ध्वं न वस्तव्यम् । तत्र हेतुः मासादृर्ध्वं वसन् वानरः मम वध्यो भवेत् अतो मैथिलीमधिगम्य मासाभ्यन्तरे निश्चित्य सिद्धार्था यूयं संनिवर्तध्वम् ॥ ४।४०।७० ॥
महेन्द्रेति । महेन्द्रकान्तां महेन्द्रस्वामिकां वनखण्डमण्डितां वनसमूहशोभितां दिशं प्रार्ची निपुणेन नैपुण्येन चरित्वा सीतामवाप्य ततः प्राच्याः निवृत्ताः यूयं सुखिनो भविष्यथ ॥ ४।४०।७१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४।४० ॥