सुग्रीवप्रार्थनानन्तरकालिकं रामवृत्तान्तमाह इतीत्यादिभिः । धर्मभृतां वरो रामः इति बुवाणं सुग्रीवं बाहुभ्यां संपरिष्वज्य प्रत्युवाच ॥ ४।३९।१ ॥
तद्वचनाकारमाह यदिति । वर्षं जलं यदिन्द्रो वर्षते, आदित्यः नभ आकाशं यत् वितिमिरं कुर्यात्, चन्द्रमाः प्रभया रजनीं रात्रिं निर्मलां कुर्यात्, त्वद्विधः त्वत्सदृशो धर्मात्मा मित्राणां प्रीतिं कुर्यात्, तच्चित्रं न वर्षणादेस्तत्तत्स्वभावसिद्धत्वान्नाश्चर्यमित्यर्थः । श्लोकद्वयमेकान्वयि ॥ ४।३९।२,३ ॥
एवमिति । एवम् इन्द्रादिवर्षणादेरिव शोभनं कर्म त्वयि भवेत् त्वया निष्पाद्येत तच्चित्रं न शोभनकर्तृत्वस्य त्वयि स्वभावसिद्धत्वादित्यर्थः, प्रियवादिनं त्वामहं जानामि ॥ ४।३९।४ ॥
त्वदिति । त्वत्सनाथः त्वयैवाभीष्टप्रापकसहितो ऽहं संख्ये संग्रामे अरीन् जेतास्मि अतः मे सुहृन्मित्रं त्वं सहायं कर्तुमर्हसि ॥ ४।३९।५ ॥
जहारेति । राक्षसाधमो रावणः मैथिलीं वञ्चयित्वा आत्मविनाशाय जहार । तत्र दृष्टान्तः पौलोमीं पुलोमदुहितरं शची तदभिधामिन्द्राणीम् अनुह्लादो यथा, शचीपितरं स्वानुमते कृत्वा शचीमनुह्लादो जहार । इन्द्रस्तदज्ञात्वा अनुह्लादं शचीपितरं च निहत्य शची निनायेति पौराणिकी प्रसिद्धिः ॥ ४।३९।६ ॥
नेति । रावणं निशितैः शरैः पौलोम्याः पितरं शतक्रतुरिवाहं न चिरात् शीघ्रं वधिष्यामि ॥ ४।३९।७ ॥
एतस्मिन्निति । एतस्मिन्नन्तरे रामसुग्रीवसंवादसमये उष्णं तीव्रमसहमानं सहस्रांशोः सूर्यस्य प्रभां छादयत् रजः वानरसेनोत्थधूलिः समभिवर्तत समभ्यवर्तत ॥ ४।३९।८ ॥
दिश इति । तेन रजोजनितेन तमसा अन्धकारेण पर्याकुलाः व्याप्ता दिश आसन् अत एव सशैलवनकानना मही चचाल ॥ ४।३९।९ ॥
तत इति । ततः रजोजनितान्धकारव्याप्त्यनन्तरं नगेन्द्रसंकाशैः महापर्वतनसदृशैः नादेयैः नदीभवैः प्लवङ्गमैः पार्वतेयैश्च हरियूथपैः सामुद्रैश्च हरियूथपैर्वानरैः वनवासिभिश्च हरिभिः हेमकृतालयैर्हेमाचलवासिभिश्च वानरैर्निमेषान्तरमात्रेण कृत्स्ना भूमिः सञ्छादिता ऽभवत् । श्लोकचतुष्टयमेकान्वयि ॥ ४।३९।१०१३ ॥
तदेव विशदयन्नाह कोटीति । दशभिः कोटीसहस्रैः परिवृतः शतवलिर्नाम वानरः प्रत्यदृश्यत ॥ ४।३९।१४ ॥
तत इति । अनेकैः बहुसाहस्रैः कोटिभिश्च वानरैः सह तारायाः पिता सुषेणः प्रत्यदृश्यत ॥ ४।३९।१५ ॥
तथेति । परेणान्येन उत्कृष्टेन वा कोटीनां सहस्रेण समन्वितः रुमायाः पिता संप्राप्तः ॥ ४।३९।१६ ॥
पद्मेति । वानराणामनेकैर्बहुसाहस्रैः समन्वितः पद्मकेसरसंकाशः हनूमतः पिता केसरी प्रत्यदृश्यत । श्लोकद्वयमेकान्वयि ॥ ४।३९।१७,१८ ॥
गोलाङ्गूलेति । वानराणां कोटिसहस्रेण वृत्तः गोलाङ्गूलमहाराजः गोलाङ्गूलाधिपतिः गवाक्षः तदभिधवानरः अदृश्यते ॥ ४।३९।१९ ॥
ऋक्षाणामिति । ऋक्षाणां द्वाभ्यां कोटिसहस्राभ्यां वृतः धूम्रस्तदभिधः समभिवर्तत समभ्यवर्तत ॥ ४।३९।२० ॥
महाबलेति । महाबलनिभैः महाबलेन प्रकाशमानैः तिसृभिः कोटिभिर्वृतः पनसो नाम यूथपः आजगाम ॥ ४।३९।२१ ॥
नीलेति । दशभिः कोटिभिर्वृतः नीलो नाम यूथपः अदृश्यत ॥ ४।३९।२२ ॥
तत इति । पञ्चभिः कोटिभिर्वृतः गवयो नाम यूथपः आजगाम ॥ ४।३९।२३ ॥
दरीमुख इति । कोटिसहस्रेण वृतः दरीमुखो यूथपः सुग्रीवं समुपस्थितः सन् अभ्याययौ ॥ ४।३९।२४ ॥
मैन्द इति । वानराणां कोटकोटिसहस्रेण मैन्दो द्विविदश्च उभौ अदृश्यताम् ॥ ४।३९।२५ ॥
गज इति । तिसृभिः कोटिभिर्वृतः गजस्तदभिधः दशभिः कोटिभिर्व्याप्तो जाम्बवान् नाम च सुग्रीवस्य वशे स्थितः । सार्धश्लोक एकान्वयी ॥ ४।३९।२६ ॥
रुमण्वानिति । कोटीशतसमावृतः विक्रान्तो ऽतिबलवान् रुमण्वान् नाम वानरः वानरेश्वरमागतः प्राप्तः ॥ ४।३९।२७ ॥
तत इति । कोटिसहस्राणां वानराणां शतेन सहस्रेण लक्षेणेत्यर्थः । वृतः पृष्ठतो ऽनुगतः पश्चाच्चलितः । किंच पृष्ठतो ऽनुगता अनुचरा यस्य स गन्धमादनः प्राप्तः ॥ ४।३९।२८ ॥
तत इति । पद्मसहस्रेण शङ्कुशतेन च वृतो युवराजो ऽङ्गदः प्राप्तः ॥ ४।३९।२९ ॥
तत इति । पञ्चभिर्हरिकोटीभिर्हरिभिस्तारस्तदभिघः पर्यदृश्यत । नीलघटवान् घटवानितवद्बोधः किं च पञ्चभिर्हरिभिः हरिकोटीभिश्च तारः पर्यदृश्यतेत्यर्थः ॥ ४।३९।३० ॥
इन्द्रभानुरिति । एकादशानां कोटीनामीश्वरः तैः संवृतश्च इन्द्रभानुर्यूथपः प्रत्यदृश्यत ॥ ४।३९।३१ ॥
तत इति । अयुतेन सहस्रेण च शतेन च वृतः रम्भस्तदभिधो ऽनुप्राप्तः ॥ ४।३९।३२ ॥
तत इति । द्वाभ्यां कोटीभ्यां परिवृतो दुर्मुखो नाम यूथपतिः प्रत्यदृश्यत ॥ ४।३९।३३ ॥
कैलासेति । कोटिसहस्रेण वानरैर्वृतः हनूमान् प्रत्यदृश्यत ॥ ४।३९।३४ ॥
नल इति । कोटीशतेन सहस्रेण च शतेन च संवृतो नलः संप्राप्तः ॥ ४।३९।३५ ॥
तत इति । दशभिः कोटिभिर्वृतः दधिमुखः सुग्रीवस्याग्रे अभिनन्दन् सन् संप्राप्तः ॥ ४।३९।३६ ॥
शरभ इति । येषां संख्या सैन्यपरिमाणं न विद्यते ते शरभादयो यूथपाः पृथिव्यादीनावृत्य संप्राप्ताः । अर्धचतुष्टयमेकान्वयि ॥ ४।३९।३७,३८ ॥
आगता इति । आप्लवन्तो वृक्षादीन् समुल्लङ्घयन्तः प्लवन्तः शाखादीनुल्लङ्घयन्तः प्लवङ्गमाः अभ्रगणाः सूर्यमिव सुग्रीवमभ्यवर्तन्त, आगताः सर्ववानराः पृथिव्यां निवृष्टाश्च । सार्धश्लोक एकान्वयी ॥ ४।३९।३९,४० ॥
आगतवानरान्तरवृत्तमाह कुर्वाणा इति । प्रकृष्टबलशालिनः केचन वानराः बहुशब्दान् कुर्वाणाः सन्तः शिरोभिः प्रकम्पितस्वमूर्धभिः सुग्रीवाय न्यवेदयन् स्वागमनमिति शेषः ॥ ४।३९।४१ ॥
अपर इति । यथोदितं सुग्रीवोक्तिमनतिक्रम्य संयम्य वानरान् स्ववशे कृत्वा आगताः अपरे वानराः सुग्रीवेण समागम्य स्थिताः ॥ ४।३९।४२ ॥
सुग्रीव इति । स्थितः सुग्रीवः वानरर्षभान् रामे निवेदयित्वा निवेद्य अब्रवीत् ॥ ४।३९।४३ ॥
तदाकारमाह– यथेति । वानरेन्द्राः पर्वतादिषु बलानि सैन्यानि निवेशयित्वा निवेश्य यथासुखं सन्तीति शेषः, अतः बलज्ञो भवान् बलं सैन्यं प्रतिपत्तुम् इयत्तया निश्चेतुमीष्टे समर्थो ऽस्ति ॥ ४।३९।४४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ४।३९ ॥