०३८ राम-सुग्रीवसंवादः

उपायनप्रग्रहणानन्तरकालिकं सुग्रीववृत्तान्तमाह प्रतिगृह्येत्यादिभिः । उपाहृतं वानरैः प्रापितमुपायनं प्रतिगृह्य वानरान् सान्त्वयित्वा व्यसर्जयत् ॥ ४।३८।१ ॥

विसर्जयित्वेति । स सुग्रीवः कृतकर्मणः बहुवारं साधितकृत्यान् हरीन् विसर्जयित्वा विसर्ज्य राघवमात्मानं च कृतार्थं मेने ॥ ४।३८।२ ॥

स इति । लक्ष्मणः सुग्रीवं संप्रहर्षयन् हे सौम्य यदि तव रोचते तर्हि किष्किन्धाया विनिष्कामः विनिष्क्रमणं भवेदिति शेषः, इति प्रश्रितं वाक्यमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।३८।३ ॥

तस्येति । सुभाषितं लक्ष्मणस्य वचनं श्रुत्वा त्वच्छासने यतो मया स्थेयम् अतः एवं भवदुक्तं भवतु सिध्यतु वयं गच्छामः । एतत् वाक्यं परमप्रीतः सुग्रीवः उवाच । सार्धश्लोक एकान्वयी ॥ ४।३८।४,५ ॥

तमिति । सुग्रीवो लक्ष्मणमेवमुक्त्वा ताराद्या योषितः विसर्जयामास तत्तत् गृहं प्रापयामास ॥ ४।३८।६ ॥

एहीति । सुग्रीवो हरिवरान् एहीत्युच्चैः समुदाहरत । अर्धं पृथक् । तस्येति । ये स्त्रीदर्शने क्षमाः तारादिसमीपस्य सुग्रीवदर्शनयोग्याः स्युः बद्धाञ्जलिपुटास्ते हरयः वचनं श्रुत्वा शीघ्रमाययुः । अर्धद्वयमेकान्वयि ॥ ४।३८।७ ॥

तानिति । अर्कसदृशप्रभो राजा हे वानराः मम शिबिकां क्षिप्रमुपस्थापयत इति प्राप्तान् वानरान् उवाच ॥ ४।३८।८ ॥

श्रुत्वेति । हरयस्तस्य सुग्रीवस्य वचनं श्रुत्वा शिबिकां समुपस्थापयामासुः ॥ ४।३८।९ ॥

तामिति । वानराधिपः सुग्रीवः शिबिकां समुपस्थापितां दृष्ट्वा हे लक्ष्मण त्वया आरुह्यतामिति सौमित्रिमब्रवीत् ॥ ४।३८।१० ॥

इतीति । इत्युक्त्वा बहुभिर्हरिभिर्वानरैः युक्तं विमानं सलक्ष्मणो लक्ष्मणसहितः सन्नारुरोह ॥ ४।३८।११ ॥

पाण्डुरेणेति । मूर्धनि ध्रियमाणेन पाण्डुरेण पाण्डुरवर्णविशिष्टेन आतपत्रेण छत्रेण समन्ततो धूयमानैर्वालव्यजनैश्चामरैश्च शङ्खभेरीनिनादैश्च बन्दिभिश्च अभिनन्दितः प्राप्तानन्दः सुग्रीवः उत्तमां राज्यश्रियं प्राप्य निर्ययौ । अर्धचतुष्टयमेकान्वयि ॥ ४।३८।१२,१३ ॥

स इति । तीक्ष्णैः बहुभिः परिकीर्णो युक्तः सः सुग्रीवः यत्र रामो व्यवस्थितः संस्थितस्तत्र ययौ ॥ ४।३८।१४ ॥

स इति । सलक्ष्मणः सुग्रीवः रामनिषेवितं तं देशमनुप्राप्य शिबिकायाः अवातरत् । ततो राममासाद्य कृताञ्जलिपुटो ऽभवत् । सार्धश्लोक एकान्वयी ॥ ४।३८।१५,१६ ॥

कृतेति । स्थिते तस्मिन् सुग्रीवे कृताञ्जलौ सति वानराश्च तथा कृताञ्जलयो ऽभवन् । अर्ध पृथक्– तटाकमिति । कु़ड्मलपङ्कजं मुकुलीभूतपङ्कजविशिष्टं तं प्रसिद्धं तटाकमिव वानराणां महत्सैन्यं रामो दृष्ट्वा सुग्रीवे प्रीतिमानभूत् । अर्धद्वयमेकान्वयि ॥ ४।३८।१७ ॥

पादयोरिति । मूर्ध्ना पादयोः पतितं हरीश्वरं प्रेम्णा बहुमानात् अतिसत्काराच्च धर्मात्मा राघवः परिषस्वजे परिष्वज्य निषीद तिष्ठ इत्यब्रवीच्च । सार्धश्लोक एकान्वयी ॥ ४।३८।१८,१९ ॥

निषण्णमिति । क्षितौ पृथिव्यां निषण्णं स्थितं तं सुग्रीवं दृष्ट्वा रामो ऽब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह धर्ममिति । यः पुरुषः धर्मादीन् विभज्य काले यथोचितसमये सततं सेवते स एव राजा । अर्धद्वयमेकान्वयि ॥ ४।३८।२० ॥

हित्वेति । यः पुरुषः धर्ममर्थं च हित्वा काममेव सेवते सः पुरुषः पतितः अर्थादिभ्यः च्युतः सन् प्रतिबुध्यते प्रश्चात्तापं करोतीत्यर्थः । तत्र दृष्टान्तः वृक्षाग्रे सुप्तः अत एव पतितः जनो यथा ॥ ४।३८।२१ ॥

अमित्राणामिति । अमित्राणां शत्रूणां वधे युक्तः नियतचित्तः मित्राणां संग्रहे संपादने रतो राजा धर्मेण युज्यते अत एव त्रिवर्गफलभोक्ता च भवतीति शेषः ॥ ४।३८।२२ ॥

उद्योगेति । हे शत्रुनिषूदन एषः उद्योगसमयः उद्योगकालः प्राप्तः अतः मन्त्रिभिर्हरिभिर्वानरैः सह संचिन्त्यताम् उद्योगः क्रियतामित्यर्थः, एवमुक्तः सुग्रीवः राममब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।३८।२३,२४ ॥

तद्वचनाकारमाह प्रनष्टेति । अयमित्थमेव पूर्वमपि पठितः अतो न व्याख्यायते ॥ ४।३८।२५ ॥

तवेति । प्रसादात् प्रीतेः तव भ्रातुर्लक्ष्मणस्य च कृतमुपकारं यो न प्रतिकुर्यात् स पुरुषाणां महात्मनां दूषकः महात्मविघातदोषं लभते इत्यर्थः ॥ ४।३८।२६ ॥

एते इति । शतशः एते वानरमुख्याः पृथिव्यां सर्ववानरानादाय प्राप्ताः ॥ ४।३८।२७ ॥

ऋक्षा इति । कान्तारवनदुर्गाणामभिज्ञाः स्वैः स्वैः सैन्यैः परिवृताः ऋक्षादयः देवादिपुत्राश्च वानराः पथि वर्तन्ते । श्लोकद्वयमेकान्वयि ॥ ४।३८।२८,२९ ॥

शतैरिति । हरियूथपाः हरयः शतादिभिर्वानरैरावृता वर्तन्ते, तत्र शतसहस्रे प्रसिद्धे । कोटिर्लक्षशतमयुतं दशसहस्रं, शङ्कुः कोटिलक्षम्, अर्बुदं शङ्कुसहस्रं, मध्यम्, अर्बुदाद्दशगुणं, अन्त्यः मध्याद्दशगुणः, समुद्रः अन्त्याद्दशगुणः, परार्धः समुद्रात्त्रिंशद्गुण इति । श्लोकद्वयमेकान्वयि ॥ ४।३८।३०,३१ ॥

आगमिष्यन्तीति । ते उक्तसंख्याकाः वानरा आगमिष्यन्ति शीघ्रं प्राप्स्यन्ति ॥ ४।३८।३२ ॥

ते इति । ये वानरास्त्वामभिगमिष्यन्ति ते सबान्धवं रावणं निहत्य मैथिलीमानयिष्यन्ति आनेष्यन्ति ॥ ४।३८।३३ ॥

तत इति । वीर्यवान् वसुधाधिपात्मजः रामः हरिप्रवीरस्य समुद्योगमवेक्ष्य हर्षात् प्रबुद्धनीलोत्पलतुल्यदर्शनो बभूव ॥ ४।३८।३४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टात्रिंशः सर्गः ॥ ४।३८ ॥