लक्ष्मणाज्ञाश्रवणानन्तरकालिकं सुग्रीववृत्तान्तमाह– एवमित्यादिभिः । लक्ष्मणेन एवमुक्तः सुग्रीवः पार्श्वे स्थितं हनुमन्तमिदमब्रवीत् ॥ ४।३७।१ ॥
तद्वचनाकारमाह– महेन्द्रेत्यादिभिः । ये हरिपुङ्गवाः महेन्द्रादिपाण्डुशिखरविशिष्टमन्दरान्तेषु पञ्चशैलेषु स्थितास्तान् पश्चिमस्यां पश्चिमायां दिशि समुद्रान्ते समुद्रपरतीरे विद्यमानेषु नित्यशो भ्राजमानेषु तरुणादित्यवर्णेषु पर्वतेषु अस्ताचलावलम्बिषष्ठिसहस्रसौवर्णगिरिषु ये स्थितास्तांश्च संध्याभ्रसंनिभे सायंकालिकमेघसदृशे आदित्यभवने गिरौ च उदयाचलास्ताचलयोरित्यर्थः, ये स्थिताः ये च पद्माचलवनं पद्माचलाभिधगिरिविशेषसंबन्धिकाननं संश्रिताः ये च प्लवङ्गमाः अञ्जने अञ्जननिभे पर्वते वसन्ति ये च वानराः महाशैलगुहावासाः महाशैलगुहासु आवासो येषां ते ये च मेरुषार्श्वगताः ये च धूम्रगिरिं श्रिताः मैरेयं मधु पिबन्तः महारुणे पर्वते वनादिषु च समन्ततो ये श्रितास्तान् सर्ववानरान् सामदानादिभिः कल्पैः आनेतुं समर्थैः वेगवत्तरैर्वानरैः क्षिप्रं त्वमानयस्व । श्लोकाष्टकमेकान्वयि ॥ ४।३७।२९ ॥
ननु तदानयनार्थं वानराः पूर्वमेव प्रेषिताः पुनः किमर्थमिदानीमुच्यते इत्यत आह– प्रेषिता इति । मया ज्ञाता परिक्षिताः ये पूर्वं प्रेषितास्तेषां त्वरणार्थं हरीश्वरान् भूयः संप्रेषय ॥ ४।३७।१० ॥
ये इति । ये वानराः कामेषु प्रसक्ताः ये च दीर्घसूत्राः स्वभावतो विलम्बेन कार्यकारिणः तान् शीघ्रमिहानयस्व ॥ ४।३७।११ ॥
अहोभिरिति । दशभिः अहोभिः दिनैः ये इह न आगच्छन्ति ते राजशासनदूषकाः ममाज्ञया हन्तव्याः ॥ ४।३७।१२ ॥
शतानीति । ये मम निदेशे स्थितास्तेषां कपिसिंहानां शतादीनि प्रयान्तु ॥ ४।३७।१३ ॥
मेघेति । अम्बरं छादयन्त इव मेघपर्वतसंकाशाः ये कपिश्रेष्ठास्ते मच्छासनादितः यान्तु त्वरणार्थमिति शेषः ॥ ४।३७।१४ ॥
ते इति । गतिज्ञाः तत्तत्स्थानाभिज्ञाः सर्ववानराः गतिं तत्तन्निवासं गत्वा सर्वान् हरीन् आनयन्तु गतिशब्दः कर्मसाधनः ॥ ४।३७।१५ ॥
तस्येति । वायुसुतो हनुमान् वानरराजस्य वचः श्रुत्वा विक्रान्तान् विक्रमवतो वानरान् सर्वासु दिक्षु प्रेषयामास ॥ ४।३७।१६ ॥
ते इति । राज्ञा प्रहिताः प्रेषितास्ते हरयः पतत्रिज्योतिरध्वगाः पतत्रिज्योतिषां पक्षिणां तारागणानां च अध्वना गच्छन्ति ते सन्तः विष्णुविक्रान्तं विष्णुचरणेन समाक्रान्तं पदं गगनं क्षणेन प्रयाताः ॥ ४।३७।१७ ॥
ते इति । ते वानराः समुद्रादिषु विद्यमानान् वानरान् रामहेतोः अचोदयन् ॥ ४।३७।१८ ॥
मृत्य्विमिति । मृत्युकालोपमस्य अस्य सुग्रीवस्याज्ञां श्रुत्वा सुग्रीवभयशङ्किताः सन्तः वानरा आययुः ॥ ४।३७।१९ ॥
तत इति । ततः आगमनान्तरं तस्माद्वर्णिताद्गिरेः आगताः प्लवङ्गमानां तिम्नः कोट्यः यत्र राघवस्तत्र निर्ययुः ॥ ४।३७।२० ॥
अस्तमिति । यत्र अर्कः अस्तं गच्छति तस्मिन् गिरिवरे रताः स्थिताः ये संतप्तहेमवर्णाभास्ते दशकोट्यस्तस्मात् गिरेः च्युताः ॥ ४।३७।२१ ॥
कैलासेति । सिंहकेसरवर्चसां वानराणां कोटिसहस्राणि समागमन् ॥ ४।३७।२२ ॥
फलेति । फलमूलेन जीवन्तः हिमवन्तमुपाश्रितास्तेषां कोटिसहस्राणां कोटिसहस्रसंख्याकानां सहस्रं समवर्तत प्राप्नोत् ॥ ४।३७।२३ ॥
अङ्गारकेति । अङ्गारकसमानानां भौमसदृशानां भीमकर्मणां भयंकरकर्मकारिणामत एव भीमानां वानरकोटीनां कोटिसंख्याकवानराणां सहस्राणि विन्ध्यात् विन्ध्यगिरेः द्रुतमपतन् ॥ ४।३७।२४ ॥
क्षीरेति । क्षीरोदवेलानिलयाः क्षीरसागरवप्रनिवासिनस्तमालवनवासिनश्च नारिकेलाशनाः ये वानराः आगता इति शेषः, तेषां संख्या न विद्यते बहुत्वात्ते न परिगणिता इति तात्पर्यम् ॥ ४।३७।२५ ॥
वनेभ्य इति । वानरीसेना दिवाकरं पिबन्तीव वनादिभ्य आगच्छत् ॥ ४।३७।२६ ॥
ये इति । सर्ववानरान् त्वरयितुं याता ये वानरास्ते तु तं शिवाश्रमत्वेन प्रसिद्धं महाद्रुमं ददृशुः ॥ ४।३७।२७ ॥
तस्मिन्निति । पुण्ये तस्मिन् गिरिवरे सर्वदेवमनस्तोषः निखिलदेवतृप्तिकारकः माहेश्वरः महेश्वरदेवताकः सुमनोरमः यज्ञो बभूव ॥ ४।३७।२८ ॥
अन्नेति । तत्र तस्मिन् गिरिवरे अन्ननिष्यन्दात् पायसादिप्रस्रावणात् जातानि अमृतस्वादुकल्पानि मूलानि फलानि च वानराः ददृशुः ॥ ४।३७।२९ ॥
तदिति । तदन्नसंभवं फलमूलं सकृदेकवारं यो ऽश्नाति स मासं तर्पितस्तृप्तो भवति ॥ ४।३७।३० ॥
तानीति । तानि मूलानि फलानि च दिव्यानि औषधानि च हरियूथपाः जगृहः ॥ ४।३७।३१ ॥
तस्मादिति । तस्मात् गिरिस्थात् यज्ञायतनात् यज्ञभूमेः सुरभीणि पुष्पाणि वानराः गत्वा आनिन्युः ॥ ४।३७।३२ ॥
ते इति । ते सर्वे हरिवराः पृथिव्यां विद्यमानान् सर्ववानरान् अनागतनिखिलकपीन् संचोदयित्वा संचोद्य पृथानामग्रतः त्वरितं जग्मुः ॥ ४।३७।३३ ॥
ते इति । त्वरयोपलक्षितास्ते कपयस्तेन स्वस्वयूथपेन सह यत्र सुग्रीवो वानरस्तां किष्किन्धां मुहूर्तेन प्राप्ताः ॥ ४।३७।३४ ॥
ते इति । ते वानराः सर्वाः गृहीतौषधीस्तं सुग्रीवं ग्राहयामासुः इदमब्रुवन् च ॥ ४।३७।३५ ॥
तद्वचनाकारमाह सर्व इति । शैलादयः परिसृताः अस्माभिर्गताः अत एव सर्वे वानराः तव शासनात् उपयान्ति समीपमागच्छन्ति ॥ ४।३७।३६ ॥
एवमिति । एवं श्रुत्वा हृष्टः सुग्रीवस्तेषामुपायनं प्रतिजग्राह ॥ ४।३७ ॥