०३६ सुग्रीवकृतं लक्ष्मणसमाश्वासनम्

ताराप्रार्थनानन्तरकालिकवृत्तान्तमाह– इतीत्यादिभिः । तारया इति वाक्यमुक्तः सौमित्रिः तद्वचः तारावचनं जग्राह कोपं त्यक्तवानित्यर्थः ॥ ४।३६।१ ॥

तस्मिन्निति । तस्मिन् लक्ष्मणे वाक्ये प्रतिगृहीते सति हरिगणेश्वरः सुग्रीवः लक्ष्मणात् प्रकुपितलक्ष्मणावलोकनात् जातं सुमहस्त्रासमत्यजत् ॥ ४।३६।२ ॥

तत इति । ततः त्रासत्यागानन्तरं सुग्रीवः बहुगुणं विपुलकाममदयोगकारकं कण्ठगतं माल्यं चिच्छेद ॥ ४।३६।३ ॥

स इति । सर्ववानरसत्तमः सुग्रीवः लक्ष्मणं प्रहर्षयन् सन् प्रश्रितं वाक्यमब्रवीत् ॥ ४।३६।४ ॥

तद्वचनाकारमाह– प्रनष्टेति । श्रीप्रभृतिः पूर्वं प्रनष्टा इदं श्र्यादि रामप्रसादात् मया पुनः प्राप्तम् ॥ ४।३६।५ ॥

क इति । स्वेन कर्मणा ख्यातस्य देवस्य नित्यप्रमोदवतस्तस्य रामस्य तादृशं तत्कर्मसदृशं कर्म अंशेन एककलया ऽपि कः शक्तः समर्थः प्रतिकुर्वीत न को ऽपीत्यर्थः ॥ ४।३६।६ ॥

सीतामिति । राघवः स्वेन तेजसैव सहायमात्रेण मया रावणं वधिष्यति सीतां च प्राप्स्यति ॥ ४।३६।७ ॥

सहायसंग्रहो ऽपि तस्य लीलैवेति बोधयन्नाह सहायेति । येन एकेन बाणेन द्रुमादयो दारिताः तस्य रामस्य सहायकृत्यं सहायैः साध्यं किम् ॥ ४।३६।८ ॥

धनुरिति । धनुर्विस्फारमाणस्य यस्य शब्देन सशैला भूमिः कम्पिता तस्य सहायैः किम् ॥ ४।३६।९ ॥

अन्विति । वैरिणं सपुरस्सरं पुरस्सरसहितं रावणं हन्तुं गच्छतो नरेन्द्रस्य रामस्य अनुयात्रां तेन सहानुगमनं करिष्ये ॥ ४।३६।१० ॥

यदीति । विश्वासात् विश्वासं प्रापय्य यदि किंचिन्मया अतिक्रान्तं तत् प्रेष्यस्य भृत्यस्य मे प्रणयेन भृत्यविषयकस्वाभाविकस्नेहेन क्षमितव्यं कश्चिन्नापराध्यतीति न सर्वो ऽपि यत्किंचिदपराध्यतीत्यर्थः, तेनापराधं दृष्ट्वा तव श्रमाया अभावे तव भृत्यस्नेहो निर्विषयो भविष्यतीति व्यञ्जितम् ॥ ४।३६।११ ॥

इतीति । इत्यनेन प्रकारेण ब्रुवाणस्य सुग्रीवस्य प्रेम्णा प्रीतो ऽभवत् अत एव इदमुवाच ॥ ४।३६।१२ ॥

तद्वचनाकारमाह– सर्वथेत्यादिभिः । विशेषतः प्रश्रितेन स्नेहयुक्तेन अत एव नाथेन अभिलाषप्रापकेण त्वया मम भ्राता सर्वथा सनाथो ऽभिलाषप्रापकसहितो ऽभवदिति शेषः ॥ ४।३६।१३ ॥

य इति । हे सुग्रीव यस्ते प्रभावः प्रतापः यच्च ते ईदृशं शौचं मनश्शुद्धिः ताभ्यां कपिराज्यस्य श्रियं भोक्तुं त्वमर्हः ॥ ४।३६।१४ ॥

सहायेनेति । हे सुग्रीव त्वया सहायेन युक्तो रामः शत्रून् न चिरात् शीघ्रं वधिष्यति ॥ ४।३६।१५ ॥

धर्मज्ञस्येति । धर्मज्ञस्य तव भाषितमुपपन्नं युक्तिसहितमत एव युक्तमुचितम् ॥ ४।३६।१६ ॥

दोषज्ञ इति । सामर्थ्ये सति भाषितुम् एवं कथयितुं मम ज्येष्ठं रामं त्वां च वर्जयित्वा अन्यः को दोषज्ञो ऽर्हति ॥ ४।३६।१७ ॥

सदृश इति । यस्त्वं दैवतैर्देवैः सहायो दत्तः दैवयोगात्सहायत्वेन प्राप्त इत्यर्थः, स त्वं विक्रमेण बलेन च रामेण सदृशो ऽसि ॥ ४।३६।१८ ॥

किमिति । किंतु इदमिदानीं कर्तव्यमित्यर्थः । मया सह इतः अस्मात् पुरात् शीघ्रं निष्क्रम । तत्प्रयोजनमाह भार्याहरणदुःखितं वयस्यं सान्त्वयस्व ॥ ४।३६।१९ ॥

यदिति । शोकाभिभूतस्य रामस्य भाषितं विलापमित्यर्थः, श्रुत्वा मया परुषाणि त्वमुक्तस्तन्मे क्षमस्व ॥ ४।३६।२० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ४।३६ ॥