लक्ष्मणवचनश्रवणानन्तरकालिकं तारावचनमाह तथेत्यादिभिः । ताराधिपनिभानना चन्द्रमुखसदृशमुखी तारा लक्ष्मणमब्रवीत् ॥ ४।३५।१ ॥
तद्वचनाकारमाह नेति । हे लक्ष्मण हरीणामीश्वरो ऽयं सुग्रीवः विशेषतो महतस्तव वक्रात् परुषं वचः श्रोतुं नार्हति अतः एवं वचो भवता हरीश्वरो न वक्तव्यः ॥ ४।३५।२ ॥
नन्वस्य गुणाः एव उच्यन्ते न किंचिदपूर्वमित्यत आह नेति । सुग्रीवः अकृतज्ञत्वादिविशिष्टो न ॥ ४।३५।३ ॥
उपकारमिति । अन्यैर्दुष्करं रामेण कृतमुपकारं यत् प्रत्युपकारविषयकयत्नवान् सुग्रीवः न विस्मृतः । कर्तरि निष्ठा ॥ ४।३५।४ ॥
रामेति । रामप्रसादात् रामानुग्रहात् सुग्रीवः कीर्त्यादि प्राप्तवान् ॥ ४।३५।५ ॥
ननु विस्मृत्यभावे कथं कालातिक्रम इत्यत आह सुदुःखमिति । पूर्वं सुदुःखं शयितः सुग्रीवः इदमुत्तमं सुखं प्राप्य विश्वामित्रो मुनिरिव प्राप्तकालं न जानीते अजानात् ॥ ४।३५।६ ॥
विश्वामित्रस्य कालविस्मृतिमुपपादयति घृताच्यामिति । घृताच्यां तदभिधाप्सरस्सु संसक्तो महामुनिर्विश्वामित्रः दशवर्षाणि अहः एकदिनममन्यत ॥ ४।३५।७ ॥
स इति । स प्रसिद्धो महातेजा विश्वामित्रः न जानीते पृथक् ततो ऽन्यो यो जनः स न जानीते इति किम् ॥ ४।३५।८ ॥
देहेति । देहधर्मगतस्य देहित्वात् देहधर्मवतः अत एव परिश्रान्तस्य पूर्वं चिरं दुःखानुभवात् खिन्नस्य अत एव कामेषु रामप्रसादात् प्राप्तराजोचितविषयेषु अवितृप्तस्य अल्पकालेन तृप्तिरहितस्य अस्य सुग्रीवस्य इह अस्मिन्समये रामः क्षन्तुमर्हति ॥ ४।३५।९ ॥
नेति । निश्चयार्थं निश्चिततत्त्वमविज्ञाय अनिश्चित्य प्राकृत एव रोषवशं गन्तु नार्हसि ॥ ४।३५।१० ॥
तत्र शिष्टाचारं प्रमाणयति सत्त्वेति । त्वद्विधास्त्वत्सदृशाः सत्त्वयुक्ताः पुरुषाः अविमृश्य अविचार्य रोषस्य वश्यतां सहसा न यान्ति ॥ ४।३५।११ ॥
प्रसादय इति । सुग्रीवार्थं सुग्रीवकल्याणार्थं समाहिता एकाग्रचित्ता ऽहं त्वां प्रसादये अतः रोषसमुत्पन्नः अयं संरम्भः संक्षोभः त्यज्यताम् ॥ ४।३५।१२ ॥
ननु रामकार्यसिद्धिः कथं स्यादित्यत आह– रुमामिति । सुग्रीवः रामप्रियार्थं रामप्रीतये रुमादिकं त्यजेत् इति मम मतिर्निश्चियः । एतेन रामसदृशः सुग्रीवप्रियः कश्चिन्नास्तीति ध्वनितम् ॥ ४।३५।१३ ॥
समिति । सुग्रीवः राक्षसाधमं हत्त्वा रोहिण्या शशाङ्कं चन्द्रमिव सीतया सह राघवं समानेष्यति ॥ ४।३५।१४ ॥
नन्विदानीमेव गत्वा रावणं निहत्य मैथिलीं कुतो नानयतीत्यत आह– शतेति । रक्षसां शतकोटिसहस्राणि शतकोटिसहस्रसंख्याकरक्षांसीत्यर्थः, रक्षसामयुतादीनि च अयुतादिसंख्याकरक्षांसीत्यर्थः, लङ्कायां सन्तीति शेषः ॥ ४।३५।१५ ॥
अहत्वेति । कामरूपिणस्तान् लङ्कास्थान् राक्षसान् अहत्वा येन मैथिली हृता तं रावणं हन्तुमशक्यमवेहीति शेषः । कामरूपिण इत्यनेन लङ्कायामुक्तसंख्याकराक्षसस्थित्यसंभवाभावः सूचितः तेन कार्यवशादेव तच्छरीराणां महत्वमिति व्यक्तम् ॥ ४।३५।१६ ॥
ननु पूर्वं राक्षसान् निहत्यानन्तरं रावणो हन्तव्य इत्यत आह– ते नेति । असहायेन विपुलवानररामोभयसाहाय्यरहितेन सुग्रीवेण ते राक्षसाः विशेषतः क्रूरकर्मा रावणश्च हन्तुं न शक्याः ॥ ४।३५।१७ ॥
ननु एवं रक्षसां संख्या त्वया कथं ज्ञातेत्यत आह एवमिति । अभिज्ञः सर्वदेशवृत्तान्ताभिज्ञाता सः प्रसिद्धो वाली एवमाख्यातवान् कथितवान्, तस्य वालिवचनस्य श्रवात् श्रवणादेवाहं ब्रवीमि । नन्वेवं बलप्राप्तिः रावणस्य कथमित्यत आह– आगमः एवं बलप्राप्तिप्रकारस्तु मे मया न व्यक्तो ज्ञातः प्राप्तिप्रकारं वाली न कथितवानित्यर्थः ॥ ४।३५।१८ ॥
त्वदिति । त्वत्सहायनिमित्तं सुबहून् अतिबहुसंख्याकान् हरिपुङ्गवान् वानरश्रेष्ठान् वानरानानेतुं हरिपुंगवाः प्रेषिताः सुग्रीवेणेति शेषः ॥ ४।३५।१९ ॥
तानिति । अयं सुग्रीवः विक्रान्तान् अतिवेगवतः सुमहाबलान् तान् वानरान् राघवस्यार्थसिद्ध्यर्थं प्रतीक्षमाणः न निर्याति इदानीमेव न निर्गच्छति । एतेन तेषामागमने शीघ्रमेव निर्गमिष्यतीति ध्वनितम् ॥ ४।३५।२० ॥
ननु तेषामागमने विलम्बः प्रतीयते इत्यत आह कृतेति । पुरा प्रेषणसमये सुसंस्था तेषां त्वरितमागमनाय निश्चितमर्यादा यथा यथावत् कृता अतः सर्वैर्महाबलैर्वानरैः अद्यैवागन्तव्यम् । इदमेव मर्यादादिनमिति तात्पर्यम् ॥ ४।३५।२१ ॥
आगन्तव्यवानरादिसंख्यां बोधयन्ती आह– ऋक्षेति । ऋक्षकोटिसहस्राणि कोटिसहस्रसंख्याकऋक्षा इत्यर्थः, गोलाङ्गूलशतानि अनन्तसंख्याकगोलङ्गूला दैर्घ्यसदृशदैर्घ्यविशिष्टलाङ्गूलविशिष्टवानरविशेषाश्चेत्यर्थः, कपीनामनेका कोट्यश्च अद्य अस्मिन् दिने त्वामुपयास्यन्ति पाप्स्यन्ति । अतः कोपं जहि । अतिबहुसंख्याप्रयुक्तस्थित्यसंभवशङ्कानिरासस्तूक्तराक्षसन्यायेनावगन्तव्यः । सार्धश्लोक एकान्वयी ॥ ४।३५।२२ ॥
तवेति । इदं तव मुखं निरीक्ष्य कोपात् क्षतजसमे रुधिरसदृशे तव नयने निरीक्षमाणाः अत एव प्रथमभयस्य पौर्वकालिवधसंबन्धिभयस्येव शङ्किताः । सुग्रीववधविषयकशङ्कावत्य इत्यर्थः, सर्वाः हरिवरवनिताः शान्तिं न यान्ति । एतेन कोपचेष्टामुपसंहरेति सूचितम् । हिशब्द एवार्थे ॥ ४।३५।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ४।३५ ॥