सुग्रीववृत्तान्तमाह– तमित्यादिभिः । क्रुद्धमत एव अप्रतिहतं केनाप्यनिवारितं लक्ष्मणं सुग्रीवो दृष्ट्वा व्यथितेन्द्रियो बभूव ॥ ४।३४।१ ॥
क्रुद्धमिति । तेजसा प्रदीप्तमिव दशरथात्मजं लक्ष्मणं दृष्ट्वा स्वलङ्कृतो महेन्द्रस्य ध्वज इव आसनं हित्वा हरिश्रेष्ठः उत्पपात भूमौ न्यपतत् । श्लोकद्वयमेकान्वयि ॥ ४।३४।२,३ ॥
उत्पतन्तमिति । रुमाप्रभृतयः स्त्रियः उत्पतन्तं सुग्रीवमनूत्पेतुः । तत्र दृष्टान्तः– गगने उत्पतन्तं पूर्णं चन्द्रं तारागणा इव ॥ ४।३४।४ ॥
समिति । संरक्तनयनः श्रीमान् लक्ष्मणः संचचार इतस्ततो ऽगच्छत् तत्र लक्ष्मणसंनिधौ महान् कल्पवृक्ष इव कृताञ्जलिः सुग्रीवा ऽवस्थितो बभूव ॥ ४।३४।५ ॥
रुमेति । नारीमध्यगतं नारीणां मध्ये प्राप्तं रुमा द्वितीया यस्य तं सतारं शशिनमिव स्थितं सुग्रीवं लक्ष्मणो ऽब्रवीत् ॥ ४।३४।६ ॥
तद्वचनाकारमाह सत्त्वेति । सत्त्वाभिजनाभ्यां संपन्नः सानुक्रोशः सदयः सत्यवादी राजा लोके महीयते पूज्यते ॥ ४।३४।७ ॥
य इति । अधर्मे स्थितः यो राजा उपकारिणां मित्राणामग्रे प्रतिज्ञां स्वप्रतिश्रवं मिथ्या कुरुते ततस्तस्मादधिकः नृशंसतरः अतिघातुकः कः, स एव महाहिंसक इत्यर्थः ॥ ४।३४।८ ॥
विषयभेदेन मिथ्याभेदमुपपादयति शतमिति । अश्वानृते अश्वनिमित्तकमिथ्यावादे सति शतं हन्ति शताश्वहननजनितदोषं प्राप्नोति । गवानृते गोविषयकानृतवादे सहस्रं हन्ति सहस्रसंख्याकगवीहननजनितदोषं प्राप्नोति । पुरुषानृते पुरुषविषयकानृतवादे
स्वजनमात्मानं च हन्ति स्वजनविघातजनितमात्मघातजनितं च दोषं प्राप्नोति । एतेन परमपुरुषविषयकानृतभाषिणः दोषस्य न इतत्तेति सूचितम् ॥ ४।३४।९ ॥
पूर्वमिति । पूर्वं कृतार्थो मित्रेण साधितस्वप्रयोजनो यो जनः मित्राणां तत्प्रयोजनं न करोति सः कृतघ्नः अत एव सर्वभूतानां वध्यः ॥ ४।३४।१० ॥
नन्विदं स्वयं प्रकल्प्योच्यते इत्यत आह– गीत इति । कृतघ्नं दृष्ट्वा क्रुद्धेन ब्रह्मणा सर्वलोकनमस्कृतः सर्वैर्मन्तव्य इत्यर्थः, अयमुक्तः श्लोको गीतः ॥ ४।३४।११ ॥
ननु प्रायश्चित्तमनुक्त्वा वध्यत्वमेव किमर्थमुक्तमित्यत आह– गोध्न इति । गोध्नादौ निष्कृतिः प्रायश्चित्तं सद्भिर्विहिता कृतघ्ने तु निष्कृतिर्नास्ति ॥ ४।३४।१२ ॥
ननु किमर्थमिदमुच्यते इत्यत आह– अनार्य इति । हे वानर पूर्वं कृतार्थः रामेण साधितस्वप्रयोजनस्त्वं यद्यस्माद्धेतोः रामस्य तत् स्वप्रतिज्ञातं प्रयोजनं न प्रतिकारोषि अतस्त्वं कृतघ्नः मिथ्यावादी च अत एव अनार्यः अधमः असीति शेषः ॥ ४।३४।१३ ॥
मिथ्यावादित्वमेव भङ्ग्यन्तरेणाह नन्विति । कृतार्थेन अत एव कृतं प्रतिकरणमिच्छता येन त्वया सीताया मार्गणे अन्वेषणे यत्नः कर्तव्यः स त्वं ग्राम्येषु भोगेषु सक्तः अत एव मिथ्याप्रतिश्रवो ऽसीति शेषः । त्वां रामो न विजानीते एतद्दोषविशिष्टत्वेन न जानाति । तत्र दृष्टान्तः मण्डूकराविणं स्वयं गृहीतस्वमुखस्थापितदद्रुरशब्देन शब्दवन्तं सर्प लोक इव यथा सर्पमुखस्थितदर्दुरशब्देन दर्दुरमेव जानाति न तु सर्पं तथा त्वन्मधुरभाषणादिना त्वां सज्जनमेव जानाति न तु त्वत्स्वरूपभूतदुर्जनत्वमित्यर्थः । श्लोकद्वयमेकान्वयि ॥ ४।३४।१४,१५ ॥
महाभागेनेति । करुणवेदिना रामेण दुरात्मा त्वं हरीणां राज्यं प्रापितो ऽसि ॥ ४।३४।१६ ॥
कृतमिति । राघवस्य कृतं चेद्यदि न जानीषे तर्हि बाणैर्हतस्त्वं वालिनं द्रक्ष्यसि ॥ ४।३४।१७ ॥
न चेति । येन यथा वाली गतः स पन्थाः न संकुचितः आच्छन्नः अतः समये स्वकृतसंकेते तिष्ठ तं संस्मरेत्यर्थः । किंच समयं सम्यक् शुभावहकार्ये तिष्ठ कुर्वित्यर्थः, वालिपथं मरणं मान्वगाः प्राप्नुहि ॥ ४।३४।१८ ॥
नेति । रामकार्यं मनसा ऽपि त्वं नावेक्षसे अतः इक्ष्वाकुवरस्य कार्मुकात् धनुषः च्युतान् वज्रसंनिभान् शरान् पश्यसि द्रक्ष्यम्येवेत्यर्थः, ततस्तद्बाणदर्शनानन्तरं सुखं न निषेवसे निषेविष्यसे ॥ ४।३४।१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुस्त्रिशः सर्गः ॥ ४।३४ ॥