०३३ तारया लक्ष्मणप्रसाधनम्

हनुमत्प्रार्थनानन्तरकालिकं लक्ष्मणवृत्तान्तमाह अथेति । अथ सुग्रीवकर्मकहनुमत्प्रार्थनानन्तरं प्रतिसमादिष्टः गुहाप्रवेशाय अङ्गदेन प्रार्थितः रामशासनादागतो लक्ष्मणः किष्किन्धां प्रविवेश ॥ ४।३३।१ ॥

द्वारस्था इति । सर्वे द्वारस्थाः हरयः लक्ष्मणं दृष्ट्वा प्राञ्जलयः सन्तः स्थिताः बभूवुः ॥ ४।३३।२ ॥

निःश्वसन्तमिति । कुद्धं दशरथात्मजं दृष्ट्वा हरयः त्रस्ताः बभूवुः अत एव एनं लक्ष्मणं न पर्यवारयन् प्रावृत्य सह नागच्छन् ॥ ४।३३।३ ॥

स इति । श्रीमान्स लक्ष्मणः रत्नमयीं रत्नप्रचुरां रत्नसमाकीर्णां रत्नैः अनेकविधोत्तमपदार्थैर्व्याप्ताम् ॥ ४।३३।४ ॥

हर्म्यैः प्रासादैश्च संबाधां निबिडां सर्वकामफलैः सकलकामनादातृफलविशिष्टैः वृक्षैः उपशोभिताम् ॥ ४।३३।५ ॥

देवादिभिश्च शोभिताम् ॥ ४।३३।६ ॥

चन्दनागरुपद्मानां गन्धैः सुरभि यथा भवति तथा गन्धिता मैरेयाणां मधूनां च मैरेयादिभिः संमोदिताः महान्तः पन्थानो यस्यां सा तां गुहां ददर्श । श्लोकचतुष्टयमेकान्वयि ॥ ४।३३।७ ॥

ददर्शेति । तत्र गुहासमीपे विमलाः गिरिनद्यः अङ्गदादेः रम्यं गृहं च राघवो ददर्श । विमला नद्य इति वाक्यस्य कर्मतया ऽन्वयान्न द्वितीया । सार्धश्लोकत्रयमेकान्वयि ॥ ४।३३।८११ ॥

एतेषामिति । एतेषामङ्गदादीनां महासाराणि अतिपुष्टानि पाण्डुराभ्रवत्प्रकाशो येषां तानि स्त्रीरत्नैः उत्तमस्त्रीभिः शोभितानि गृहमुख्यानि उक्ततत्तद्गृहाणां मध्यवर्तिवेश्मानि पाण्डुरेण ईषद्रक्तेन शैलेन परिक्षिप्तं चतुर्दिक्षु प्रावृतमत एव दुरासदं रिपुभिर्गन्तुमशक्यं वानरेन्द्रगृहं सुग्रीवमुख्यभवनं च लक्ष्मणो ददर्श । अर्धषट्कमेकान्वयि ॥ ४।३३।१२,१३ ॥

शुक्लैरिति । कैलासशिखरोपमैः कैलासशृङ्गतुल्यैः शुक्लैः प्रासादशिखरैः प्रासादैश्च सर्वे कामाः मनोरथाः येभ्यस्तानि फलानि येषां तैः, किं च सर्वान् कामान् फलन्ति निष्पादयन्ति तैर्वृक्षैश्च महेन्द्रदत्तैः इन्द्रेण समर्पितैः नीलजीमूतसंनिभैर्नीलमेघसदृशैः दिव्यानि पुष्पफलानि येषु शीता छाया येषा तैः अत एव मनोरमैः वृक्षैः कल्पतरुभिश्च संवृतानि द्वाराणि यैस्तैः हरिभिर्वानरैश्च उपशोभितं दिव्यमाल्यावृतं दिव्यपुष्पैराकीर्णं तप्तकाञ्चनं प्रतप्तस्वर्णमयं तोरणं बहिर्द्वारं यस्य तत्सुग्रीवस्य गृहमवार्यमाणः प्रतीहारैरिति शेषः, सौमित्रिः लक्ष्मणः महाभ्रं भास्कर इव प्रविवेश । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ४।३३।१४१८ ॥

स इति । यानासनसमावृताः यानैर्विमानादिभिः आसनैः चित्रकम्बलाद्यास्तरणविशिष्टपर्यङ्कादिभिः, किंच यानानां विमानादीनाम् आरानानि चित्रकम्बलादीनि तैः समावृताः पूर्णाः सप्त कक्ष्याः द्वारः प्रविश्य सुमहद्गुप्तं वानरैरत्यन्तं संरक्षितमन्तःपुरं धर्मात्मा लक्ष्मणो ददर्श ॥ ४।३३।१९ ॥

हैमेति । तत्र तत्र उचिते स्थाने महार्हास्तरणोपेतैः अतिप्रशंसनीयास्तरणविशिष्टैः हैमराजतपर्यङ्कैः वरासनैश्च समावृतम् अन्तःपुरमिति शेषः, प्रविशन्नेव तन्त्रीगीतेन वीणास्वनेन समाकीर्णं व्याप्तं समतालपदानि अक्षराणि यस्मिन् तत् मधुरस्वनं सततं शुश्राव । लक्ष्मण इति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।३३।२०,२१ ॥

बह्वीरिति । महाबलो लक्ष्मणः सुग्रीवभवने बह्वीः स्त्रियो ददर्श ॥ ४।३३।२२ ॥

दृष्ट्वेति । अभिजनैः संपन्ना युक्ता भूषणोत्तमैर्भूषिताः माल्यैः पुष्पैः कृता रचिताः स्रजो याभिः वरमाल्यकृताय उत्तमपुष्पसंपादनाय व्यग्राः कृतत्वराः स्त्रियो दृष्ट्वा सुग्रीवानुचरानपि अतृप्तान् तृप्तिरहितान् न लक्षयामास, अव्यग्रान् स्वामिकार्ये त्वरारहितानपि न लक्षयामास, अनुदात्तपरिच्छदान् महाभूषणादिरहिताश्च न लक्षयामास, तृप्तत्वादिविशिष्टानेव ददर्शेत्यर्थः । श्लोकद्वयमेकान्वयि ॥ ४।३३।२३,२४ ॥

कूजितमिति । सौमित्रिः नूपुरादीनां स्वनं निशम्य श्रुत्वा लज्जितः बहुस्त्रीमात्रसांनिध्यप्राप्त्या व्रीडितो ऽभवत् ॥ ४।३३।२५ ॥

रोषेति । आभरणस्वनं श्रुत्वा रोषवेगप्रचलितः रोषवेगः प्रचलितो निवृत्तो यस्य सः तिरोहितकोप इत्यर्थः, वीरो लक्ष्मणः शब्देन दिशः पूरयन् सन् ज्यास्वनं चकार । सुग्रीवानवधानतानिवृत्तये इति शेषः ॥ ४।३३।२६ ॥

चारित्रेणेति । रामकोपसमन्वितः कोपविरामविशिष्टः चारित्रेण स्त्रीसमूहाप्रवेशनरूपस्वसदाचारेण हेतुना अपवृष्टः निवृत्तोत्तरदेशगमनः लक्ष्मण एकान्तमाश्रित्य तस्थौ ॥ ४।३३।२७ ॥

तेनेति । सुग्रीवः चापस्वनेन आगमनं लक्ष्मणस्येति शेषः, विज्ञाय त्रस्तः सन् वरासनात् चचाल ॥ ४।३३।२८ ॥

विज्ञानसूचकं तद्विचारमाह अङ्गदेनेति । पुरस्तात् पूर्वमङ्गदेन यथा येन प्रकारेण प्रतिवेदितं तेन प्रकारेणैव स एष सौमित्रिः संप्राप्तः इति व्यक्तं ज्यास्वनश्रवणेन स्फुटम् ॥ ४।३३।२९ ॥

शब्दश्रवणानन्तरकालिकं सुग्रीववृत्तान्तमाह अङ्गदेनेति । अङ्गदेन ज्यास्वनेन च समाख्यातो वानरः सुग्रीवः प्राप्तं समीपमागतं लक्ष्मणं बुबुधे, अत एव अस्य सुग्रीवस्य मुखमुपशुष्यत उपाशुष्यत । एतेन तस्य भीतत्वं व्यक्तम् ॥ ४।३३।३० ॥

तत इति । त्रासेन उद्वेगेन संभ्रान्तं मानसं यस्य स सुग्रीवः अव्यग्रः सावधानो भूत्वेति शेषः, हितं वाक्यं तारामुवाच ॥ ४।३३।३१ ॥

तद्वचनाकारमाह किमिति । सुभ्रु हे सुभ्रूः प्रकृत्या स्वभावेनैव मृदुमानसो राघवानुजः येन सरोष इव संप्राप्तः तत् रुट्कारणं किं, न जानमीत्यर्थः ॥ ४।३३।३२ ॥

किमिति । कुमारस्य लक्ष्मणस्य रोषस्थानं रोषकारणं किं पश्यसि जानासि । ननु मास्तु कारणमित्यत आह अकारणे कोपकारणाभावे कोपं नैवाहरेत् प्राप्नुयात् ॥ ४।३३।३३ ॥

यदीति । यदि अस्य रामस्य किंचिदपि अप्रियमस्माभिः कृतं त्वं यदि बुध्यसे तर्हि बुद्ध्या मनसा आशु संप्रधार्य संचिन्त्य क्षिप्रमभिधीयतां कथ्यताम् ॥ ४।३३।३४ ॥

अपराधनिश्चयस्य सत्त्वे असत्त्वे वा स तु सर्वथा सान्त्वनीय एवेति पक्षान्तरमाह अथवेति । हे भामिनि एनं लक्ष्मणं त्वं स्वयमेव द्रष्टुमर्हसि । तत्प्रयोजनमाह सान्त्वयुक्तैः वचनैः प्रसादयितुमर्हसि ॥ ४।३३।३५ ॥

ननु त्वयैव कथं न प्रसाद्यते इत्यत आह त्वदिति । त्वद्दर्शनेन त्वदवलोकनमात्रेण विशुद्धः विगतमदपराधशङ्कावान् आत्मा अन्तःकरणं यस्य सः लक्ष्मणः कोपं नैव करिष्यति निवर्तयिष्यतीत्यर्थः । ननु त्वदपराधशङ्कया मां दण्डयिष्यतीत्यत आह महात्मानः स्त्रीषु क्वचित् कदाचिदपि दारुणं कर्म न कुर्वन्ति ॥ ४।३३।३६ ॥

त्वयेति । सान्त्वैः सान्त्वनवचनैः त्वया उपक्रान्तं प्राप्तमत एव प्रसन्नेन्द्रियमानसम् अरिन्दमं लक्ष्मणमहं द्रक्ष्यामि ॥ ४।३३।३७ ॥

सेति । प्रलम्बे काञ्चीगुणहेमसूत्रे यस्याः सा सलक्षणा सल्लक्षणयुक्ता मदेन विह्वले आघूर्णिते अक्षिणी यस्याः सा अत एव प्रस्खलन्ती पदे पदे निपतन्ती तारा लक्ष्मणसंनिधानं जगाम ॥ ४।३३।३८ ॥

स इति । मनुजेन्द्रपुत्रो लक्ष्मणः हरीशपत्नीं तारां समीक्ष्यैव अवाङ्मुखः सन् उदासीनतया तस्थौ, स्त्रीसंनिकर्षात् निवृत्तकोपश्चाभूत् ॥ ४।३३।३९ ॥

सेति । पानयोगात् मादकपेयद्रव्यादिसंबन्धात् नरेन्द्रसूनोः दृष्टिप्रसादात् प्रसन्नतया ऽवलोकनाच्च निवृत्ता लज्जा यस्याः सा तारा प्रणयप्रगल्भं वृद्धस्नेहम् अत एव परिसान्त्वरूपम् अत एव महार्थं वाक्यमुवाच ॥ ४।३३।४० ॥

तद्वचनाकारमाह किमिति । हे मनुजेन्द्रपुत्र ते वाङ्निदेशे वचनेनादिष्टे को न संतिष्ठति अत एव को विशङ्कः शुष्कवृक्षं वनमापतन्तं दावाग्निमासीदति निपतति न को ऽपीत्यर्थः, अतः कोपमूलं तव कोपकारणं किं तद्वदेत्यर्थः ॥ ४।३३।४१ ॥

स इति । स लक्ष्मणः तस्यास्तारायाः सान्त्वपूर्वमशङ्कितं सुग्रीवकापट्यशङ्कानिवर्तकं प्रणयेन स्नेहेन दृष्टो बोधितो ऽर्थो येन तत् वचनं श्रुत्वा अब्रवीत् ॥ ४।३३।४२ ॥

तद्वचनाकारमाह किमिति । भर्तृहिते युक्ते नियुक्ते हे तारे कामवृत्तः कामे एव वृत्तः प्रवृत्तः अत एव लुप्तधर्मार्थसंग्रहः ते भर्ता अस्तीति शेषः । अतः एनं भर्तारं त्वं कथं न बुध्यसे बोधयसि ॥ ४।३३।४३ ॥

तल्लोपाकारमाह नेति । राज्यार्थं स्वराज्यस्थित्यर्थं शोकपरायणान् अस्मान् सामात्यपरिषत्सुग्रीवः न चिन्तयति तत्र हेतु सः सुग्रीवः काममेवोपसेवते ॥ ४।३३।४४ ॥

स्वकर्मचिन्तनाभावे गमकमाह स इति । स सुग्रीवः चतुरो मासान् प्रमाणम् अन्वेषणमर्यादां कृत्वा मदोदग्रः मादकरसविशेषपानादिनोदग्रः प्रवृद्धमदः अत एव विहरन्सन् नावबुध्यते प्रमाणमित्यनुकृष्यते ॥ ४।३३।४५ ॥

मादकरसविशेषपाने दोषमाह नहीति । धर्मार्थसिद्ध्यर्थं पानं नैव प्रशस्यते । तत्र हेतुः पानात् अर्थादिः परिहीयते ॥ ४।३३।४६ ॥

धर्मेति । गुणतः अनेकोपकृतिरूपगुणविशिष्टस्य मित्रस्य मित्रार्थं कृते शिष्टैराचरिते प्रत्युपकारे अप्रतिकुर्वतः प्रवृत्तिरहिततया वर्तमानस्य जनस्य नाशे विनाशाय महान्धर्मलोपः अर्थलोपश्च धर्मार्थयोर्लोपे कामलोपस्य अर्थसिद्धत्वात् कामलोपश्च भवतीति सिद्धम् । नाश इति क्विबन्तप्रकृतिकचतुर्थ्यन्तम् ॥ ४।३३।४७ ॥

मित्रमिति । अर्थगुणैः अर्थसाधनीभूतवात्सल्यादिभिः श्रेष्ठं सर्वोत्कृष्टं सत्यधर्मपरायणं सत्यस्य धर्माणां वेदविहितकर्मणां च परायणं परमाश्रयः तत्तत्फलादिदातेत्यर्थः, तत् मित्रं त्वद्भर्त्रा परित्यक्तम् अत एव धर्मे नैव व्यवस्थितं सनातनो धर्मस्त्यक्त इत्यर्थः, तत् तस्मात् हेतोः द्वयमुभयलोकसुखं परित्यक्तम् । परित्यक्तमित्युभयान्वयि ॥ ४।३३।४८ ॥

तदिति । कार्ये सुग्रीवकर्तव्ये एवमनेन प्रकारेण प्रस्तुते मया कथिते सति यदस्माभिः कार्यं कर्तव्यं तत् कार्यमुत्तरं श्रेष्ठं यथा भवति तथा त्वमुदाहर्तुं वक्तुमर्हसि ॥ ४।३३।४९ ॥

सेति । सा तारा धर्मार्थसमाधियुक्तं धर्मार्थयोः समाधिर्निश्चयस्तेन युक्तं धर्मार्थयोर्निश्चायकमित्यर्थः, मधुरस्वभावं मधुरस्वभावबोधकं वाक्यं निशम्य आगतार्था आगतो ज्ञातो ऽर्थो लक्ष्मणागमनप्रयोजनं यया सा तारा मनुजेन्द्रकार्ये तत्कार्यसिद्ध्यर्थं विश्वासयुक्तं वचनं भूय उवाच ॥ ४।३३।५० ॥

नेति । हे क्षितिपालपुत्र कोपकालः क्रोधसमयो न क्रोधस्य कार्यविलम्बकारकत्वमस्तीति तात्पर्यम् । अपि अन्यदुच्यते स्वजने कोपो न विधेयः । ननु सत्यपराधे कथं न कोप इत्यत आह त्वदर्थकामस्य त्वदर्थसाधनेच्छावतः जनस्य सुग्रीवस्य प्रमादमनवधानतामपि सोढुमर्हसि ॥ ४।३३।५१ ॥

अस्मादृशेषु तव कोपः सर्वदैवानुचित इति बोधयन्ती आह कोपमिति । हे कुमार गुणप्रकृष्टः गुणैः श्रेष्ठः पुरुषः अपकृष्टसत्त्वे कोपं कथं कुर्यात् न कुर्यादित्यर्थः । ननु कोपो दुर्निवार एवेत्यत आह– सत्त्वावरुद्धः विशुद्धसत्वमयः अत एव तपसो विचारस्य प्रसूतिः कारणम् अतिविचारवानित्यर्थः, त्वद्विधः कः कोपवशं गच्छेत् प्राप्नुयात् न को ऽपीत्यर्थः ॥ ४।३३।५२ ॥

जानामीति । कोपं त्वत्क्रोधहेतुमहं जानामि । कार्यस्य अन्वेषणस्य कालसङ्गं योग्यकालसंबन्धं च जानामि । त्वयि नो ऽस्माकं यत्कार्यं कर्तव्यं तदपि जानामि । यत् विलम्बितं सुग्रीवेण कृतं तदपि जानामि । अत्र अस्मिन् समये यत् कार्यम् अनुष्ठेयं तदपि जानामि ॥ ४।३३।५३ ॥

जानामीति । शरीरजस्य कामस्य यदविषह्यं बलं तच्चापि जानामि । यस्मिन् जने स्त्रियामित्यर्थः, कामेन अवबद्धं सुग्रीवस्य अत्यासक्तिस्तमपि जानामि अद्य असक्तम् आसक्तिरहितं सुग्रीवं च जानामि ॥ ४।३३।५४ ॥

ननु किमन्ये न जानन्तीत्यत आह नेति । कामतन्त्रे कामाधीने तव बुद्धिर्ज्ञानं यथा यथावन्नास्ति कामवशो न हन्तव्य इति न जानासीत्यर्थः, अत एव त्वं मन्युवशं प्रपन्नः प्राप्तः । कामतन्त्रत्वं बोधयन्ती आह– कामरतिर्मनुष्यः यथा अर्थधर्मौ न अवेक्षते तथा देशकालावपि नावेक्षते । एतेन यदि मनुष्यो नावेक्षते तर्हि वानरो नावेक्षते इति किं वक्तव्यमिति । काव्यार्थापत्तिरलङ्कारो व्यक्तः ॥ ४।३३।५५ ॥

तमिति । कामवृत्तं कामे एव प्रवृत्तम् अत एव कामाभियोगात् विमुक्तलज्जं मम संनिकृष्टं त्वद्भिया स्त्रीसमुदाये स्थितमित्यर्थः, त्वद्भ्रातरं रामसखत्वेन त्वद्बन्धुं वानरवंशनाथं क्षमस्व तदपराधं सहस्वेत्यर्थः ॥ ४।३३।५६ ॥

महर्षय इति । धर्मतपोभ्यामभिरामाः प्राप्तशोभाः अत एव प्रतिबद्धमोहा निवृत्ताविवेकाः महर्षयो ऽपि कामानुकामाः विषयाभिलषिणः सन्तः सज्जन्ते इति शेषः, तर्हि कपिः कथं न सज्जेत ॥ ४।३३।५७ ॥

इतीति । वानरी सा तारा इति वचनं सखेदमुक्त्वा भर्तुर्हितमिदं वाक्यं पुनर्बभाषे ॥ ४।३३।५८ ॥

तद्वचनाकारमाह उद्योग इति । कामस्य विधेयेन वशेनापि सुग्रीवेण तवार्थप्रतिसाधने उद्योगः यत्नः चिरपूर्वमाज्ञप्तः अत एव कोटीशतसहस्राणि कोटीयुक्तानि शतसहस्राणि नानानगनिवासिनो हरय आगताः । श्लोकद्वयमेकान्वयि ॥ ४।३३।५९,६० ॥

तदिति । यतः चारित्रं सखा प्रबोधनीय इति मर्यादा त्वया रक्षितं तत् तस्मादागच्छ अन्तः प्रविश । ननु तत्र प्रवेशे अनुचितपरस्त्रीदर्शनं भविष्यतीत्यत आह मित्रभावेन दारावलोकनं सताम् अच्छलं नाधर्मः ॥ ४।३३।६१ ॥

तारयेति । तारया अभ्यनुज्ञातः प्रार्थितः त्वरया अन्वेषणकारणकवेगेन च प्रचोदितो लक्ष्मणः अभ्यन्तरं प्रविवेश ॥ ४।३३।६२ ॥

तत इति । ततः प्रवेशानन्तरं महार्हास्तरणोपेते अतिप्रशंसनीयास्तरणविशिष्टे काञ्चने सुवर्णमये परमासने आसीनं दिव्याभरणचित्राङ्गदादिविशेषणविशिष्टं प्रमदाभिः समं सहितं सुग्रीवं ददर्श ततो दर्शनानन्तरम् अन्तकसंनिभो लक्ष्मणः संरब्धतररक्ताक्षः अन्ताघूर्णितारुणनयनवान् बभूव । श्लोकत्रयमेकान्वयि ॥ ४।३३।६३६५ ॥

रुमामिति । रुमां गाढं परिरभ्य स्थितः वरासनस्थः सुग्रीवः सौमित्रिं ददर्श ॥ ४।३३।६६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ४।३३ ॥