०३२ हनुमता सुग्रीवबोधनम्

मन्त्रिप्रार्थनानन्तरकालिकं सुग्रीववृत्तान्तमुपक्रमते अङ्गदस्येत्यादिभिः । अङ्गदस्य अङ्गदप्रेरितमन्त्रिणोर्वचः श्रुत्वा आत्मवान् धैर्यवान्सुग्रीवः आसनं मुमोच । शयनासनाद्बहिस्तस्थौ ॥ ४।३२।१ ॥

स इति । गुरलाघवं गुरुत्वलघुत्वे रामे गुरुत्वं स्वस्मिन् लघुत्वं चेत्यर्थः, निश्चित्य मन्त्रेषु परिनिष्ठितः तद्विषयकातीवज्ञानवान् अत एव मन्त्रकुशलः मन्त्रप्रयोगे निपुणः स सुग्रीवः मन्त्रज्ञान् तान् मन्त्रिणः वाक्यमब्रवीत् ॥ ४।३२।२ ॥

तद्वचनाकारमाह नेति । मे मया किंचिन्न दुर्व्याहृतं दुरुक्तं रामायेति शेषः, नापि किंचिन्मे दुरनुष्ठितमनिष्टं कृतं रामस्येति शेषः, अतः लक्ष्मणः किं किमर्थं क्रुद्धः इत्यहं चिन्तये विचारयामि ॥ ४।३२।३ ॥

स्वनिश्चितमाह असुहृद्भिः मलिनान्तःकरणैः अत एव नित्यमन्तरदर्शिभिः स्वबुद्धिप्रकल्पितक्षुद्रबोधनशीलैः ममामित्रैः रिपुभिः असंभूतान् मया अनिष्पादितान् मम दोषान् राघवानुजः श्रावितः कारणमन्तरा लक्ष्मणक्रोधो न संभवतीति तात्पर्यम् ॥ ४।३२।४ ॥

अत्रेति । अत्र अस्मिन् समये भावस्य मच्चित्तान्तकस्य लक्ष्मणस्य निश्चयो ऽभिप्रायः यथाबुद्धिः स्वस्वबुद्ध्यनुरूपं यथाविधि विधिमनातिक्रम्य निपुणं यथा भवति तथा सर्वैः भवद्भिः तावन्मत्सङ्गमात्पूर्वमेव शनैर्विज्ञेयः ॥ ४।३२।५ ॥

नेति । राघवात् रामान्न मम त्रासः अत एव लक्ष्मणादपि न त्रासः अस्थानकुपितमपराधाभावेन अनवसरकोपविशिष्टं तु संभ्रमं भयं जनयत्येव । एतेन अयं मित्रद्रोहीति लोकोक्तेर्बिभेमीति सूचितम् । न त्रास इत्यनेनापराधे ऽपि राघवः शरणागतं न त्यजतीति सुग्रीवनिश्चयः सूचितः । कथंचिदुपकारेण कृतेनैकेन तुष्यति ॥ न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ इत्यादिवचनमत्रानुसंधेयम् ॥ ४।३२।६ ॥

सर्वथेति । मित्रं सर्वथा सर्वप्रकारेण सुकरमनायासेन मित्रं लभ्यते इत्यर्थः, प्रतिपालनं मित्रस्य रक्षणं तु दुष्करं तत्र हेतुः चित्तानामनित्यत्वात्प्रतिक्षणं विषयान्तरवर्तित्वाद्धेतोः अल्पे जने प्रीतिर्भिद्यते ॥ ४।३२।७ ॥

अत इति । महात्मना रामेण यत् ममोपकृतं तत्प्रतिकर्तुं मया न शक्यमतः इदं निमित्तं त्रस्तो ऽहम् ॥ ४।३२।८ ॥

सुग्रीवेणेति । सुग्रीवेण एवमुक्ते सति हरिपुङ्गवो हनुमान् वानरमन्त्रिणां मध्ये स्वेन स्वकीयेन तर्केण अनुमानेन उवाच ॥ ४।३२।९ ॥

सर्वथेति । हे हरिगणेश्वर अविस्रब्धमतिविश्वस्तं यथा भवति तथा कृतमुपकारं यत् सर्वथा त्वं न विस्मरसि तदेतत् आश्चर्यं न, महात्मनां स्वभाव एवायमिति तात्पर्यम् ॥ ४।३२।१० ॥

राघवेणेति । राघवेण भयं दूरतः उत्सृज्य वाली हतः, एतेन राघवस्य त्वय्यतीव कृपेति सूचितम् ॥ ४।३२।११ ॥

सर्वथेति । सर्वथा सर्वप्रकारेण प्रणयात् त्वद्विषयकस्नेहादेव राघवः क्रुद्धः त्वद्विघातकापराघजनितदोषं निवर्तयितुं क्रोधाभासमाश्रितवानित्यर्थः, तत्र संशयो न । अत एव भ्रातरं संप्रहितवान् प्रेषितवान् ॥ ४।३२।१२ ॥

अपराधमेव बोधयति त्वमिति । हे कालविदांवर प्रमत्तः असावधानचित्तस्त्वं कालं स्वप्रतिज्ञातान्वेषणसमयं न जानीषे स्मरसि । ननु कः स काल इत्यत आह फुल्लसप्तच्छदश्यामा पुष्पितसप्तच्छदहेतुकश्यामत्वविशिष्टा शुभागमनयोग्या शरत् प्रवृत्ता ॥ ४।३२।१३ ॥

तल्लक्षणमाह निर्मलेति । प्रनष्टाः बलाहकाः मेघाः यस्यां सा अत एव निर्मलग्रहनक्षत्रा द्यौः प्रकाशते इति शेषः, अत एव दिक्प्रभृतयः प्रसन्नाः ॥ ४।३२।१४ ॥

प्राप्तमिति । हे हरिपुङ्गव प्राप्तमुद्योगकालं यतो नावैषि अतस्त्वं प्रमत्तः इति व्यक्तम् अत एव अयं लक्ष्मणं इहागतः ॥ ४।३२।१५ ॥

आर्तस्येति । पुरुषान्तरात् लक्ष्मणात् श्रुतमिति शेषः । हृतदारस्य राघवस्य परुषं परुषाभासं वचनं ते त्वया मर्षणीयं क्षन्तव्यम् ॥ ४।३२।१६ ॥

कृतेति । अञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् अन्तरेण विना कृतापराधस्य ते अन्यत् क्षमं योग्यं न पश्यामि ॥ ४।३२।१७ ॥

ननु मद्भयरहित इव त्वं कथं ब्रवीषीत्यत आह नियुक्तैरिति । नियुक्तैः युक्तार्थबोधने नियोजितैः पार्थिवो ऽवश्यं हितं वाच्यः इत एव भयं त्यक्त्वा अवधृतं हितत्वेन निश्चितं वचो ब्रवीमि ॥ ४।३२।१८ ॥

राघवस्य प्रसादने तवैव हितं तत्कार्य त्वन्यथापि सेत्स्यतीत्याह अभीति । अभिक्रुद्धो राघवः चापमुद्यम्य सदेवासुरगन्धर्वं देवादिसहितं जगत् स्ववशे स्थापयितुं समर्थः । एतेन रावणमपि स्ववशे स्थापयितुं समर्थ एवेति बोधितम् ॥ ४।३२।१९ ॥

नेति । यो रामः पुनः निरन्तरं प्रसाद्यः सर्वैरिति शेषः, सः कृतज्ञेन अत एव पूर्वोपकारं स्मरता त्वया विशेषतः प्रसाद्यः अत एव कोपयितुं न क्षमः ॥ ४।३२।२० ॥

प्रसादनोपायमाह तस्येति । तस्य राघवस्य पादौ मूर्ध्ना प्रणम्य समये प्राप्तकाले भ्रातुर्भार्येव तद्वशे तिष्ठस्व तिष्ठ ॥ ४।३२।२१ ॥

उपसंहरन्नाह नेति । रामरामानुजयोः शासनं मनसा ऽपि अपोहितुं त्यक्तुं त्वया न शक्यम् । तत्र हेतुः सराघवस्य रामसहितस्य अस्य लक्ष्मणस्य मानुषं मः इयत्ताया अनुषः विध्वंसो यस्मिन् तद्बलं ते मनो ज्ञास्यति जानाति ॥ ४।३२।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ४।३२ ॥