रामवचनश्रवणानन्तरकालिकां लक्ष्मणोक्तिमाह स इत्यादिभिः । शोकाभिपन्नं प्रियावियोगजनितशोकविशिष्टम् अत एव कामिनं तदन्वेषणविषयकोत्कटेच्छावन्तम् अत एव समुदीर्णः संस्मृतः कामः सुग्रीवो येन तं दीनं दीनत्वेन प्रतीयमानम् अदीनसत्त्वम् अक्षीणमहापराक्रमं नरदेवपुत्रं पूर्वजं ज्येष्ठं रामं रामानुजः स लक्ष्मणः इत्युवाच ॥ ४।३१।१ ॥
तद्वचनाकारमाह नेति । अस्य सुग्रीवस्य बुद्धिस्तथा उक्तप्रकारेण अति अत्यन्तं नाक्रमते अन्वेषणे न प्रवर्तत इत्यर्थः । तत्र हेतुः वानरः सुग्रीवः कर्मफलानुषङ्गान् उद्योगनिष्पादितराज्यप्राप्तिरूपफलसाधकावस्मान्न मन्यते अतः साधुवृत्ते महात्मभिः सेविते धर्मेण राज्यपालन इत्यर्थः, न स्थास्यति अधर्मं करिष्यतीत्यर्थः । अतः वानरराजलक्ष्मीं न भोक्ष्यते । एतेन तद्बुद्धिभ्रंशो जात इति सूचितम् ॥ ४।३१।२ ॥
तत्र गमकमाह मतीति । मतिक्षयात् बुद्धिभ्रंशात् हेतोः प्रसादात् अतिप्रसन्नतां प्राप्य ग्राम्यसुखेषु सक्तः अत एव प्रतिकारबुद्धेः प्रत्युपकारविषयिणी मतिर्न अतः हतः सन् अग्रजं वीरवालिनं पश्यतु एवं विगुणस्य धर्मविरोधिगुणवतः राज्यं तव न देयं नञ आवृत्तिः । किंच प्रतिकारबुद्धिः विनष्टमतिः सुग्रीवविशेषणम् अस्मिन् पक्षे कार इति कोरूपम् ? ॥ ४।३१।३ ॥
नेति । उदीर्णवेगं कोपं न धारये निवर्तयामीत्यर्थः, अतः असत्यं सुग्रीवं निहन्मि अतः नरेन्द्रपुत्र्याः जनकात्मजायाः विचयमन्वेषणं हरिप्रवीरैः सह वालिपुत्रो ऽङ्गदः करोतु ॥ ४।३१।४ ॥
तमिति । आत्तबाणासनं गृहीतधनुषं निवेदितार्थं बोधितगमनप्रयोजनं रणचण्डकोपं रणकारकचण्डकोपविशिष्टं तं लक्ष्मणं परवीरहन्ता रामः स्वेन निश्चितं सानुनयं वाक्यमुवाच । किंच स्ववीक्षितमिति लक्ष्मणविशेषणं स्वस्मिन् वीक्षितं वीक्षणं यस्येत्यर्थः ॥ ४।३१।५ ॥
तद्वचनाकारमाह नहीति । त्वद्विधः धर्मज्ञ इत्यर्थः, एवं मित्रविघातरूपं पापं नैव समाचरेत् धारयेत् । ननु गृहीतकोपस्य का गतिरित्यत आह आर्येण विवेकेन कोपं यो हन्ति स वीरः स एव पुरुषोत्तमः पुरुषश्रेष्ठश्च । एतेन कोपं त्यजेति सूचितम् ॥ ४।३१।६ ॥
नेति । तां समागमकालां प्रीतिं परस्परं प्रेमसंगतमुचितं पूर्ववृत्तं परस्परोक्तिं च अनुवर्तस्व स्मरेत्यर्थः, अत एव इदं मित्रीभूतसुग्रीवविहननं साधुवृत्तेन त्वया न ग्राह्यं निश्चेतव्यम् ॥ ४।३१।७ ॥
तात्कालिककर्तव्यमाह सामेति । सामोपहितया सान्त्वयुक्तया वाचा रूक्षाणि परिवर्जयन् सन् कालपर्यये कालातिक्रमे स्थितं सुग्रीवं व्यतीतं कालं वक्तुमर्हसि कालो व्यतीत इति बोधयेत्यर्थः ॥ ४।३१।८ ॥
स इति । अग्रजेन अनुशिष्टः अर्थो यस्मै स लक्ष्मणः पुरीं किष्किन्धां यथावत्प्रविवेश ॥ ४।३१।९ ॥
तत इति । ततः पुरीप्रवेशानन्तरं भ्रातुः प्रियहिते रतः अत एव प्रतिसंरब्धः अन्वेषणकालातीतेन जातकोपो लक्ष्मणः शक्रबाणासनप्रख्यं इन्द्रधनुःसदृशं कालान्तकोपमं संहारककालसदृशं गिरिशृङ्गाभं पर्वतशिखरसदृशं धनुः प्रगृह्य सानुमान् शृङ्गविशिष्टः मन्दर इव कपेः सुग्रीवस्य भवनं जगाम । श्लोकद्वयमेकान्वयि ॥ ४।३१।१०,११ ॥
यथेति । यथोक्तकारी रामोक्तमनतिक्रम्य सकलकार्यकरणशीलः भ्रातुः कामक्रोधसमुत्थेत्र कामः सीतान्वेषणविषयकोत्कटेच्छा तद्विघातकसुग्रीवानवधानतेत्यर्थः, तस्मात्समुत्थेन जातेन क्रोधाग्निना स्वकोपरूपवह्निना वृतः अत एव अप्रीतः सुग्रीवविषयकप्रीतिरहितः बुद्ध्या बृहस्पतेः समः रामानुजो लक्ष्मणः सोत्तरं दास्यमानसुग्रीवप्रत्युत्तरसहितमुत्तरं सुग्रीवप्रत्युत्तरानन्तरकालकदास्यमानस्वप्रत्युत्तरं वचनं किंचोत्तरमुत्कृष्टं सोत्तरमुरत्वसहितमुत्तरमित्यर्थः, मत्वा निश्चित्य प्रभञ्जनः वेगेन वायुरिव प्रययौ ॥ श्लोकद्वयमेकान्वयि ॥ ४।३१।१२,१३ ॥
गमनप्रकारं वर्णयन्नाह– सालेति । बलात् तरसा वेगेन सालादीन् पातयन् गिरिकूटानि अन्यांश्च द्रुमान् पर्यस्यन् उत्पाट्य इतस्ततः प्रक्षिपन् गज इव पद्भ्यां शिलाः शकलीकुर्वन् खण्डीकुर्वाणः एकपदं दूरं त्यक्त्वा दूरे दूरे पादं धृत्वेत्यर्थः, वेगितः अतिवेगं प्राप्तः अत एव आशुगः लक्ष्मणः कार्यवशात् द्रुतं ययौ । श्लोकद्वयमेकान्वयि ॥ ४।३१।१४,१५ ॥
तामिति । गिरिसंकटे पर्वतमध्ये विद्यमानां बलाकीर्णां वानरसेनासंयुक्तामत एव दुर्गां परैरगम्यां हरिराजमहापुरीं तां प्रसिद्धां किष्किन्धां इक्ष्वाकुशार्दूलः लक्ष्मणः अपश्यत् ॥ ४।३१।१६ ॥
रोषादिति । सुग्रीवं प्रति रोषाद्धेतोः प्रस्फुरमाणौ औष्ठौ यस्य स लक्ष्मणः किष्किन्धायाः बहिश्चरान् वानरान् ददर्श ॥ ४।३१।१७ ॥
तमिति । वानराः नरा इव कुञ्जरप्रख्याः सर्वे वानराः तं लक्ष्मणं दृष्ट्वा पर्वतान्तरे पर्वतमध्ये विद्यमानानि शतशः शैलशृङ्गाणि प्रवृद्धान् महीरुहांश्च जगृहुः । वाशब्द इवार्थे । सार्धश्लोक एकान्वयी ॥ ४।३१।१८ ॥
तानिति । गृहीतप्रहरणान् स्वीकृतायुधान् तान् वानरान् दृष्ट्वा लक्ष्मणः बह्विन्धना ऽनल इव द्विगुणं क्रुद्धः क्रोधेन प्रज्वलितो बभूव ॥ ४।३१।१९ ॥
तमिति । समायान्तं कालमृत्युं कालमृत्युमिव क्षुब्धं तं लक्ष्मणं दृष्ट्वा भयपरीताङ्गाः शतशो वानराः दिशो विद्रुताः । कालमृत्युशब्द आचारक्विबन्तः ॥ ४।३१।२० ॥
तत इति हरिपुङ्गवाः वानरश्रेष्ठाः सुग्रीवस्य भवनं प्रविश्य लक्ष्मणस्यागमनं क्रोधं च न्यवेदयन् ॥ ४।३१।२१ ॥
तारयेति । कामीविषयभोगेच्छुः अत एव सक्तः तत्र प्रसक्तः तारया सहितः कपिवृषः सुग्रीवः कपिसिंहानां वचनं न शुश्राव ॥ ४।३१।२२ ॥
तत इति । ततः वचनश्रवणाभावानन्तरं सचिवसंदिष्टाः सचिवैराज्ञप्ताः अत एव रोमहर्षणाः जातहर्षाः गिरिकुञ्जरमेघाभाः हरयः नगरात् निर्ययुः ॥ ४।३१।२३ ॥
नखेति । सर्वे नखदंष्ट्रायुधाः अत एव घोराः भयंकराः सर्वे विकृतदर्शना विकृतनयनाश्च सर्वे शार्दूलदंष्ट्राः शार्दूलसदृशदंष्ट्रावन्तश्च सर्वे विकृताननाश्च ॥ ४।३१।२४ ॥
दशेति । केचित् दशनागबलाः केचित् दशगुणोत्तराः नागबलाद्दशगुणमधिकबला इत्यर्थः, केचित् नागसहस्रस्य तुल्यविक्रमाः बभूवुः । “तुल्यवर्चसः” इत्यपि पाठः ॥ ४।३१।२५ ॥
तत इति । द्रुमहस्तैः कपिभिर्व्याप्तामत एव दुरासदां किष्किन्धां क्रुद्धो लक्ष्मणः अपश्यत् ॥ ४।३१।२६ ॥
तत इति । उदग्रसत्त्वाः महाबलाः सर्वे हरयः प्राकारपरिखान्तरात् निष्क्रम्य आविष्कृतं यथा भवति तथा तस्थुः ॥ ४।३१।२७ ॥
सुग्रीवस्येति । आत्मवान् धैर्यवान् लक्ष्मणसुग्रीवस्य प्रमादं समीपानागमनानुमितानवधानतां पूर्वजस्य ज्येष्ठभ्रातुः अर्थं च दृष्ट्वा ज्ञात्वा पुनः क्रोधवशं कोपकान्तिं जगाम ॥ ४।३१।२८ ॥
स इति । दीर्घोष्णः अत्युष्णः महोच्छ्रवासो यस्य स नरशार्दूलः स लक्ष्मणः सधूमः पावक इव बभूव ॥ ४।३१।२९ ॥
बाणेति । बाणशल्यं बाणाग्रभाग एव स्फुरन्ती जिह्वा यस्य सः सायकासनं धनुरेव भोगः तद्वान् स्वतेजोविषसंभूतः स्वतेजोरूपविषेण व्याप्तः पञ्चास्यः पन्नग इव लक्ष्मणो दृश्यत इति शेषः ॥ ४।३१।३० ॥
तमिति । दीप्तं कालाग्निमिव कोपितं नागेन्द्रमिव तं लक्ष्मणं समासाद्य प्राप्य त्रासात् लक्ष्मणकोपदर्शनजनितोद्वेगात् परं विषादमगमत् ॥ ४।३१।३१ ॥
स इति । दोषताम्राक्षः स लक्ष्मणः अङ्गदं संदिदेश संदेशं कथयामास । तदाकारमाह हे वत्स इति एवं ममागमनं सुग्रीवः कथ्यताम् ॥ ४।३१।३२ ॥
कथनप्रकारमाह एष इति । भ्रातुर्व्यसनसंतप्तः एष रामानुजः त्वत्सकाशं त्वत्समीपं प्राप्तः सन् द्वारि तिष्ठति ॥ ४।३१।३३ ॥
तस्येति । तस्य लक्ष्मणस्य वाक्ये यदि रुचिः तर्हि साधु क्रियताम् इतीदं मम वाक्यमुक्त्वा शीघ्रमागच्छ ॥ ४।३१।३४ ॥
लक्ष्मणस्येति । लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टः व्याप्तशोको ऽङ्गदः पितुः समीपमागम्य अयं सौमित्रिरागत इत्यब्रवीत् ॥ ४।३१।३५ ॥
गमनप्रकारं बोधयन्नाह अथेति । अथ लक्ष्मणवचनश्रवणानन्तरं तस्य लक्ष्मणस्य सुतीव्रवाचा उग्रवचनेन संभ्रान्तभावः संभ्रान्तचित्तः अत एव परदीनवक्रः म्लानमुखो ऽङ्गदः निर्गत्य लक्ष्मणसमीपदेशादागत्य पूर्वं नृपतेः सुग्रीवस्य चरणौ ववन्दे । ततो रुमायास्तदुपलक्षिततारायाश्च चरणौ ववन्दे ॥ ४।३१।३६ ॥
संगृह्येति । उग्रतेजा अङ्गदः पितुः पादौ संगृह्य पुनर्मातुस्तारायाः पादौ जग्राह रुमायाश्च पादौ निपीडयित्वा निपीड्य ततः तम् अयं सौमित्रिरागतः इत्येतद्रूपमर्थं निवेदयामास ॥ ४।३१।३७ ॥
स इति । यः मदनेन कामेन मोहितः अत एव मदमत्तः मादकद्रव्यादिनोन्मत्तः अत एव निद्राक्लान्तसंवीतः निद्राक्लान्तेन निद्राजनितग्लान्या संवीतो व्याप्तो बभूव स सुग्रीवो न विबुद्धवान् प्रबोधं प्राप ॥ ४।३१।३८ ॥
तत इति । ततः सुग्रीवप्रबोधाभावानन्तरं क्रुद्धं लक्ष्मणं प्रेक्ष्य भयमोहितचेतसः वानराः अङ्गदप्रभृतयस्तं प्रसादयन्तः सन्तः किलकिलां दीनतासूचकस्वजातीयशब्दं चक्रुः ॥ ४।३१।३९ ॥
ते इति । ते बुद्धिमन्तो वानराः लक्ष्मणस्य लक्ष्मणं दृष्ट्वा महौघनिभं महाप्रवाहस्वनसदृशस्वनं वज्राशनिसमस्वनं च सिंहनादं च सममेककालावच्छेदेन समीपतः सुग्रीवसंनिधौ चक्रुः । सुग्रीवप्रबोधायेति शेषः ॥ ४।३१।४० ॥
तेनेति । मदविह्वलताम्राक्षः मदेन विह्वलः ताम्रे अक्षिणी यस्य स एव स इति कर्मधारयः अत एव व्याकुलः अस्वस्थचित्तः स्रग्विभूषणः मालया शोभितः वानरः सुग्रीवः तेन महता शब्देन प्रत्यबुध्यत गतनिद्रो ऽभवत् ॥ ४।३१।४१ ॥
अथेति । अथ प्रबोधानन्तरमङ्गदवचः लक्ष्मणसंदेशकथनाय राजा भवद्भ्यां गन्तव्य इत्याकारिकामङ्गदोक्तिं श्रुत्वा वानरेन्द्रस्य संमतौ प्रीतिविषयीभूतौ उदारं दर्शनं ययोस्तावेव ताविति कर्मधारयः । वानरेन्द्रस्य मन्त्रिणौ तेनाङ्गदेन सह समागतौ । वानरेन्द्रस्येत्युभयान्वयि ॥ ४।३१।४२ ॥
मन्त्रिणोर्नाम निर्दिशन्नाह प्लक्ष इति । अर्थधर्मयोः उच्चावचं वक्तुं बोधयितुं यौ मन्त्रिणो आसातामिति शेषः, तौ प्लक्षः प्रभावश्च प्राप्तं लक्ष्मणं शशंसतुः सुग्रीवसमीपे इति शेषः ॥ ४।३१।४३ ॥
शंसनप्रकारमाह प्रसादयित्वेति । मरुत्पतिं देवेशमिवासीर्नं सुग्रीवं प्रयुपासीनौ समीपे स्थितौ मन्त्रिणौ सार्थनिश्चयैः अर्थनिश्चयसहितैर्वचनैः प्रसादयित्वा मनुष्यभावं मनुष्याकृतिं संप्राप्तौ नित्यं स्वीकृतवन्तौ राज्यदायिनौ तुभ्यमिति शेषः । यौ रामलक्ष्मणौ तयोर्मध्ये एकः यस्य भीता वानराः प्रवेपन्तः सन्तो महानादान् मुञ्चन्ति स धनुष्याणिर्लक्ष्मणो द्वारि तिष्ठति अर्द्धषट्कमेकान्वयि ॥ ४।३१।४४४६ ॥
स इति । वाक्यं रामवचनं सारथिर्यस्य व्यवसायः करणीयार्थविषयकनिश्चयः रथो यस्य स लक्ष्मणः रामशासनादेव प्राप्तः ॥ ४।३१।४७ ॥
अयमिति । ताराया दयितः प्रियस्तनयो ऽयमङ्गदस्ते तव सकाशं समीपं लक्ष्मणेन त्वरया प्रेषितः ॥ ४।३१।४८ ॥
स इति । रोषपरीताक्षः सो ऽयं लक्ष्मणः वानरान् चक्षुषा निर्दहन्निव द्वारि तिष्ठति ॥ ४।३१।४९ ॥
तस्येति । तस्य समीपमद्यैव शीघ्रं गच्छ । तत्प्रयोजनमाह रोषः लक्ष्मणकोपः उपशाम्यताम् तत्र न श्रम इत्याह मूर्ध्ना प्रणामं त्वं कुरुष्वेति शेषः । हिरेवार्थकः ॥ ४।३१।५० ॥
यथेति । धर्मात्मा रामः यथा येन प्रकारेण यदुपदिशतीति शेषः तेन प्रकारेण तत् कुरुष्व । रामो यथा समाहितः स्वस्थचित्तो भवेत् तत्कुरुष्व । अत एव समये स्वकृतान्वेषणसंकेते तिष्ठ अन्वेषणं कुरुष्वेत्यर्थः, अत एव सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥ ४।३१।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ ४।३१ ॥