रामवृत्तान्तमाह गृहमित्यादिभिः । सुग्रीवे गुहां प्रविष्टे सति वर्षरात्रस्थितो रामः घनैर्गगने विमुक्ते सति कामशोकाभिपीडितः कामेन जानकीप्राप्तिविषयकोत्कटेच्छया शोकेन तत्प्राप्त्यभावजनितचिन्तया अभिपीडितो व्याप्त आसीदिति शेषः ॥ ४।३०।१ ॥
तदेव भङ्ग्यन्तरेणाह पाण्डुरमिति । विमलं निर्मलं गगनं दृष्ट्वा विमलं घनच्छायारहितं पाण्डुरं चन्द्रमण्डलं च दृष्ट्वा ज्योत्स्नायाः चन्द्रिकायाः अनुलेपनं व्याप्तिर्यस्यां तां शारदीं रजनीं च दृष्ट्वा ॥ ४।३०।२ ॥
अत एव कालं वृष्टिसमयमतीतं व्यतीतं दृष्ट्वा सुग्रीवं कामवृत्तं कामासक्तं दृष्ट्वा जनकात्मजां नष्टां दृष्ट्वा संस्मृत्य परमातुरो रामो मुमोह ॥ ४।३०।३ ॥
स इति । सः विह्वलचित्तो नृपो राघवः मुहूर्तात्संज्ञां चैतन्यमुपागम्य प्राप्य मनःस्थां वैदेहीं चिन्तयामास ॥ ४।३०।४ ॥
दृष्ट्वेति । गतविद्युद्बलाहकमत एव विमलं व्योम सारसारवसंघुष्टं दृष्ट्वा विज्ञाय आर्तया गिरा विललाप राम इति शेषः ॥ ४।३०।५ ॥
विलापाकारमाह सारसेति । सारसारवनादिनी सारसानां रववत् नदति तच्छीला या बाला सीता सारसारवसंनादैः सारसारवप्रतिध्वनिभिरुपलक्षिते आश्रमे मे मया सह रमते अरमत सा ऽद्य मद्वियोगसमये कथं रमते रमेत ॥ ४।३०।६ ॥
पुष्पितानिति । या काञ्चनान् स्वर्णमयानिव निर्मलान् पुष्पितान् असनान् असनाभिधतरून् दृष्ट्वा मां पश्यन्ती अतिष्ठदिति शेषः, सा मामपश्यती अपश्यन्ती बाला सीता कथं रमते रमेत ॥ ४।३०।७ ॥
येति । कलभाषिणी मधुरभाषणशीला या सीता पुरा पूर्वं कलहंसानां कलेन शब्देन बुध्यते तच्छब्दश्रवणमात्रेण सैवागते ऽतिप्रतीत्या द्रुतं गत्वा मयेतस्ततो ऽवलोक्यते इत्यर्थः, सा अद्य कथं बुध्यते अवलोक्येत ॥ ४।३०।८ ॥
निःस्वमिति । सहचारिणां स्त्रियां सहैव गमनशीलानां चक्रवाकानां निःस्वनं श्रुत्वा पुण्डरीकविशालाक्षी एषा सीता कथं भविष्यति स्थास्यति ॥ ४।३०।९ ॥
सरांसीति । मृगशावाक्षीं मृगबालनयनां तां सीतां विना सर आदीनि चरन्नहं सुखं न लभे । काननवनयोः लघुत्वेन महत्वेन च भेदात् न पौनरुक्त्यम् ॥ ४।३०।१० ॥
अपीति । मद्वियोगाद्धेतोः शरद्गुणनिरन्तरः शरद्गुणैः निरन्तरम् प्रवृत्तः कामः मद्विषयकोत्कटेच्छा भामिनीं नित्यप्रभां सीतां सौकुमार्यात् हेतोः सुदूरमत्यन्तं पीडयेत् ॥ ४।३०।११ ॥
एवमिति । सारङ्गः चातको विहङ्गः पक्षी त्रिदशेश्वरात् इन्द्रात् सलिलं जलमिच्छन् यथा विलपति तथा एवमादि विललाप, सीताप्राप्तिमाचकाङ्क्षेत्यर्थः । “सारङ्गः पुंसि हरिणे चातके च मतङ्गजे” इति मेदिनी ॥ ४।३०।१२ ॥
तत इति । ततः रामविलापकाले फलार्थी लक्ष्मणः रम्येषु गिरिसानुषु चञ्चूर्य बम्भम्य पर्युपावृत्तः सन् अग्रजं ददर्श ॥ ४।३०।१३ ॥
स इति । एकं प्रियया विहीनमत एव दुस्सहया चिन्तया परीतं युक्तमत एव दीनं क्षीणत्वेन प्रतीयमानमत एव विसंज्ञं कर्तव्यविषयं विवेकरहितं रामं त्वरित वेगेन आगतः भ्रातुर्विषादात् अतिदीनः सौमित्रिः विजने वने समीक्ष्य उवाच ॥ ४।३०।१४ ॥
तद्वचनाकारमाह किमित्यादिभिः । कामस्य उत्कटेच्छायाः वशंगतेन अधीनभूतेन शोकेन किं न किंचित्साध्यमित्यर्थः । तत्र दोषमाह आत्मपौरुष्यस्य पराभवस्तिरोधानं येन तेन ह्रिया आत्मनां लञ्जाकारकेण शोकेन अयं महात्मभिः आदृतः समाधिः चित्तैकाग्र्यं संह्रियते निवर्त्यते अतः निवर्तितेन योगेन चित्तैकाग्र्येण किं चित्तैकाग्र्यविघातो न कार्य इत्यर्थः ॥ ४।३०।१५ ॥
क्रियेति । समाधियोगानुगतं चित्तैकाग्र्याधीनं मनसः प्रसादं कुरुष्व । तत्प्रयोजनमाह स्वकर्महेतुं स्वकर्तव्यकारणं सहायानां सामर्थ्यं येन सहायसामर्थ्यसाधकमित्यर्थः, कालं समयमेव क्रियाभियोगं क्रियाणामन्वेषणामभियोगः साधनमित्यर्थः, येन तत् कुरुष्व प्राप्तसमये एव यतितव्यमित्यर्थः ॥ ४।३०।१६ ॥
जानकीविषये कथंचित् शङ्का न कार्येति बोधयन्नाह नेति । हे मानववंशनाथ त्वया सनाथा त्वदेकनाथेत्यर्थः, जानकी परेण त्वदन्येन न सुलभा । एतेन त्वदन्यस्तद्वशकामो यदि भवेत्तर्हि नङ्क्षत्येवेति सूचितम् । तत्र दृष्टान्तः ज्वलितामग्निचूढां वह्निज्वालामुपेत्य प्राप्य कश्चित् वह्निभिन्नः न दह्यते इति न दह्यत एवेत्यर्थः ॥ ४।३०।१७ ॥
सेति । सलक्षणं राजवंशोचितचिह्नसहितमप्रधृष्यं परैः प्रधर्षयितुमशक्यं लक्ष्मणं हितं वर्धकम् अत एव पथ्यं नयप्रसक्तं नीतियुक्तमत एव ससामधर्मार्थसमाहितं सामसहितधर्मार्थाभ्यां सहितं स्वभावजं द्रुतस्खलितोच्चारणरहितमित्यर्थः, वाक्यं राम उवाच ॥ ४।३०।१८ ॥
तद्वचनाकारमाह निस्संशयमिति । हे कुमार कार्यं कर्तव्यं निस्संशयमवेक्षितव्यं विचारणीयमत एव क्रियाविशेषः कर्तव्यसाधकं कर्म अनुवर्तितव्यः संपादनीयः दुरासदस्य अन्यैरनिवर्तनीयस्य प्रवृद्धस्य अतिवृद्धिं प्राप्तस्य वीर्यस्य स्वपराक्रमस्य फलं चिन्त्यम् ॥ ४।३०।१९ ॥
अथेति । अथ उक्तवचनानन्तरं मैथिलीमनुचिन्तयन् अत एव परिशुष्यता मुखेनोपलक्षितो रामः लक्ष्मणमुवाच ॥ ४।३०।२० ॥
तद्वचनाकारमाह तर्पयित्वेति । सहस्राक्षः वसुन्धरां तर्पयित्वा अत एव सस्यानि निवर्तयित्वा कृतकर्मा साधितकृत्यः सन् व्यवस्थितः स्वस्थचित्तो ऽभवदिति शेषः ॥ ४।३०।२१ ॥
दीर्घेति । दीर्घः गम्भीरः निर्घोषो येषां ते गमाः गगनमागताः मेघाः सलिलं शैलद्रुमपुरः विसृज्य प्रापय्य परिशान्ताः अभवन्निति शेषः । शैलद्रुमपुरोगमा इत्येकं पदं वा, तदर्थस्तु शैलद्रुमाणां पुरो ऽग्रभागे गच्छन्तीति ॥ ४।३०।२२ ॥
तदेव भङ्ग्यन्तरेणाह नीलेति । नीलोत्पलदलश्यामाः पयोधराः दशदिशः श्यामीकृत्वा विमदाः मातङ्गा इव शान्तवेगाः अभवन्निति शेषः ॥ ४।३०।२३ ॥
जलेति । जलगर्भाः जलरूपगर्भविशिष्टाः कुटजार्जुनगन्धिनः समुद्यताः प्रभूताः वृष्टिवाताः चरित्वा संव्याप्य विरताः निवृत्ताः अभवन्निति शेषः ॥ ४।३०।२४ ॥
घनानामिति । घनादीनां नादः सहसा एककालावच्छेदेन प्रशान्तः प्रश्रवणाः निर्झराः ॥ ४।३०।२५ ॥
अभीति । महामेघैः अभिवृष्टाः अत एव निर्मलाः चित्रसानवः चित्रशृङ्गविशिष्टाः गिरयः चन्द्ररश्मिभिः अनुलिप्ता इव आभान्ति ॥ ४।३०।२६ ॥
शाखासु इति । सप्तच्छदपादपानां शरद्विकसनशीलसप्तच्छदाभिधतरूणां शाखासु तारार्कनिशाकराणां प्रभासु च उत्तमवारणानां महागजानां लीलासु च श्रियं शोभां विभज्य त्रिविधविभागेन संस्थाप्य शरत्प्रवृत्ता ॥ ४।३०।२७ ॥
संप्रतीति । शरत्कालगुणोपपन्ना लक्ष्मीः अनेकाश्रयचित्रशोभा अनेकाश्रयाणां चित्रशोभा यथा सा ऽपि संप्रति अस्मिन् काले सूर्याग्रहस्तप्रतिबोधितेषु सूर्यकिरणाग्रैः विकसितेषु पद्माकरेषु पद्मसमूहेषु अधिकं विभाति ॥ ४।३०।२८ ॥
सप्तेति । षट्पादवृन्दैः भ्रमरसमूहैः अनुगीयमानः पवनानुसारी पवनेन सञ्चनशीलः सप्तच्छदानां कुसुमोपगन्धः कुसुमोपगन्धत्वमस्मिन् सः तद्गन्ध एवेत्यर्थः, मत्तद्विपानां मदयुक्तगजानां दर्पं गर्वं विनेष्यन् दूरीकुर्वन् सन् अधिकं विभाति । किंच मत्तद्विपानां पवनानुसारी पवन एवेत्यर्थः, अस्मिन्पक्षे कुसुमोपगन्धशब्देन भावप्रधानकल्पना ॥ ४।३०।२९ ॥
अभ्यागतैरिति । चारुविशालपक्षैः अभ्यागतैः मानससरसः समागतैः स्मरप्रियैः कामप्रीतिविषयभूतैः पद्मरजोवकीर्णैः पद्मरजोभिव्याप्तैर्महानदीनां पुलिनेषु उपयातैः प्राप्तैः चक्रवाकैः सह हंसाः क्रीडन्ति ॥ ४।३०।३० ॥
मदेति । मदप्रगल्भेषु वारणेषु गजेषु दर्पितेषु गवां समूहेषु च प्रसन्नतोयासु निम्नगासु नदीषु च बहुधा त्रिधा विभक्ता लक्ष्मीः शरत्संपत् विभाति ॥ ४।३०।३१ ॥
नभ इति । अम्बुधरैः मेघैः विमुक्तं संत्यक्तं नभो गगनं समीक्ष्य गतोत्सवाः भोगोत्साहरहिताः अत एव प्रियासु अरक्ताः अनुरागरहिताः अत एव विमुक्तं संत्यक्तं बर्हाभरणं बर्हरूपमाभरणं यैः अत एव निवृत्तशोभाः वनेषु विद्यमानाः मयूराः ध्यानपराः ध्यानचिन्तनरताः बभूवुरिति शेषः ॥ ४।३०।३२ ॥
मनोज्ञेति । पुष्पाग्रभारैः अवनताः अग्रशाखाः येषां तैः अत एव मनोज्ञगन्धैः सुवर्णगौरैः अत एव नयनाभिरामैः अनल्पैः बहुभिः प्रियकैः असनतरुभिः वनान्तराणि वनमध्यानि उद्योतितानि प्रकाशितान्येव । इव एवार्थे ॥ ४।३०।३३ ॥
प्रियान्वितानामिति । प्रियैः पतिभिरन्वितानां नलिनी कमलिनी प्रिया येषां तेषां वनप्रियाणां कुसुमे सप्तच्छदकुसुमघ्राणे उद्गतानां प्रवृत्तानां मदेन उत्कटानां प्रवृद्धानाम् अत एव मदलालसानां मदजनितकामभोगविषयकोत्कटेच्छावतां गजोत्तमानां गतयो ऽद्य शरदि मन्दाः कान्तिमत्यः शनैस्त्वविशिष्टा वा सन्तीति शेषः ॥ ४।३०।३४ ॥
व्यक्तमिति । नभः शस्त्रविद्यौतवर्णं शाणसंस्कृतखड्गवर्णविशिष्टं व्यक्तं प्रादुर्भूतम्, नदीजलानि कृशप्रावाहानि जातानि, कह्लाराः तद्गन्धविशिष्टा एव शीताः पवनाः प्रवान्ति, दिशः तमोविमुक्ताः तमसा रहिताः अत एव प्रकाशाः ॥ ४।३०।३५ ॥
सूर्येति । सूर्यातपक्रामणेन अत्यातपप्रवृत्त्या नष्टानि पङ्कानि यस्याः सा अत एव चिरोद्धाटिताः बहुकालादुत्थिताः सान्द्ररेणवो यस्यां सा भूमिरभवत् । अत एव अन्योन्यवैरेण समायुतानां नराधिपानामुद्योगकालो ऽद्य प्रवृत्त इति शेषः ॥ ४।३०।३६ ॥
शरदिति । शरद्गुणैराप्यायिता प्रवृद्धा रूपशोभा योषाम् अत एव मदोत्कटाः प्रवृद्धमदाः अत एव प्रहर्षिताः अत एव युद्धलुब्धा युद्धविषयकलोभवन्तः अत एव गवां मध्यगताः युद्धार्थमिति शेषः अत एव पांसुभ्यः समुत्थितान्यङ्गानि येषां ते वृषा नदन्ति ॥ ४।३०।३७ ॥
सेति । समन्मथा मन्मथसहिता अत एव तीव्रतरः अनुरागः प्रीतिर्यस्याः सा अत एव मन्दगतिः कुलान्विता शोभनकुलजाता करेणुः हस्तिनी वनेषु यान्तं मदान्वितं भर्तारं संपरिवार्य आवर्त्य अनुप्रयाति निरन्तरं गच्छति ॥ ४।३०।३८ ॥
त्यक्त्वेति । विमनाः घनगर्जनाननुभवेनोदासीनचित्ता अत एव वराणि आत्मविभूषितानि विभूषणानि बर्हाणि त्यक्त्वा नदीनां तीरोपगताः अत एव दीनाः क्षीणाः मयूराः सारसौघैर्निर्भर्स्त्यमाना इव प्रयान्ति परावर्तन्ते । अदन्तो ऽपि मनशब्दः प्रसिद्धः ॥ ४।३०।३९ ॥
वित्रास्येति । भिन्नकटाः च्योतन्मदा गजेन्द्राः कारण्डवचक्रवाकान् महारवैर्वित्रास्य बुद्धैः विकसितैरम्बुजैर्भूषणं येषां तेषु सरस्सु विक्षोभ्य सञ्चाल्य जलं पिबन्ति ॥ ४।३०।४० ॥
व्यपेतेति । सगोकुलासु गोकुलसमूहैर्युक्तासु ससारसा सारससहिता अत एव आरावविनादिता अतिशब्दवत्यः कर्मधारयः, तासु नदीषु हृष्टाः हंसा निपतन्ति ॥ ४।३०।४१ ॥
नदीति । गतोत्सवानां नद्यादित्रयाणाम् अतिप्रवृद्धानिला महावाताः बर्हिणा मयूराश्च तेषां प्लवङ्गमानां भेकानां च रवाः ध्रुवं संप्रनष्टाः ॥ ४।३०।४२ ॥
अनेकेति । अम्बुधरेषु नवोदयेषु सत्सु चिरोषिताः अत एव क्षुधा अर्दिताः पीडिताः अत एव सुविनष्टकायाः अत एव नष्टा नष्टप्रायाः घोरविषाः अनेकवर्णाः सर्पाः बिलेभ्यः प्रसरन्ति । चिरोषितापीत्यत्र संधिरत एव ज्ञापकात् ॥ ४।३०।४३ ॥
चञ्चदिति । चञ्चत् शोभमानो यश्चन्द्रस्तस्य किरणैः यः स्पर्शः तस्माज्जातो यो हर्षस्तेन उन्मीलिता ईषत्प्रकाशविशिष्टा तारा यस्यां सा अत एव रागवत्यपि संध्या अम्बरं स्वयं जहाति अहो आश्चर्यमेतत् ॥ ४।३०।४४ ॥
रात्रिरिति । शशाङ्कोदितः उदितचन्द्रः एव सौम्यं वक्रं यस्यास्तारागणाः एव उन्मीलितानि प्रकाशितानि चारुनेत्राणि यस्याः सा, ज्योत्स्नांशुकेन जोत्स्नारूपवस्त्रेण प्रावरणं यस्याः सा रात्रिः शुक्लांशुकसंवृताङ्गी नारीव विभाति ॥ ४।३०।४५ ॥
विपक्वेति । विपक्वान्येव शालिप्रसवानि व्रीहीन् भुक्त्वा प्रहर्षिता शीघ्रवेगा सारसचारुपङ्क्तिः वातावधूता ग्रथिता माला इव नभः समाक्रामति ॥ ४।३०।४६ ॥
सुप्तेति । सुप्तः एकः हंसो यस्मिन् कुमुदैः उपेतं युक्तं महाहृदस्थं सलिलं घनैर्विमुक्तं घनरहितं पूर्णः चन्द्रो यस्मिन् तत् तारागणाकीर्णमन्तरिक्षमिव भाति ॥ ४।३०।४७ ॥
प्रकीर्णेति । प्रकीर्णाः प्रसृताः हंसाः एव आकुलमेखला यासां प्रबुद्धानि विकसितान्येव पद्मोत्पलानि तेषां माला समूहः तद्वतीनां वाप्युत्तमानां लक्ष्मीः संपत्तिः भूषिताना वराङ्गनानां लक्ष्मीरिव अधिका विभातीति शेषः ॥ ४।३०।४८ ॥
वेण्विति । वेणुस्वनव्यञ्जितः प्रकटीभूतवेणुस्वन एव तूर्यं वाद्यस्वनः तेन मिश्रः संयुक्तः प्रत्यूषकाले अनिलसंवृत्तः वायुसंसर्गेण संवृद्धः अत एव संमूर्छितो व्याप्तः गह्वरगोवृषाणां वने विद्यमानानां गवां वृषाणां च शब्दः अन्योन्यमापूरयतीव ॥ ४।३०।४९ ॥
नवैरिति । कुसुम एव प्रहासो येषां तैः मृदुमारुतेन व्याधूयमानैः धौताः अमलक्षौमपटाः तद्वत्प्रकाशो येषां तैः नवैः काशैः काशाभिधतृणैः नदीनां कूलानि उपशोभितानि ॥ ४।३०।५० ॥
वनेति । वनप्रचण्डा वनविचरणशीलाः मधुपानशौण्डाः पुष्परसपाने चतुराः अत एव पद्मासनरेणुगौराः पद्मपुष्पाणाम् असनपुष्पाणां चरेणुभिर्गौराः अत एव मत्ताः प्रहृष्टाः षट्चरणाः भ्रमराः पवनानुयात्रां गन्धप्राप्त्यर्थं पवनेन सह गमनं कुर्वन्ति ॥ ४।३०।५१ ॥
जलमिति । प्रसन्नं स्वच्छं जलं कुसुम एव प्रहासो यस्य तत् क्रौञ्चानां स्वनो यस्मिन् तत् विपक्वं शालिवनं च मृदुर्वायुश्च विमलश्चन्द्रश्च व्यपनीतकालं गतसमयं वर्षं शसन्ति बोधयन्ति ॥ ४।३०।५२ ॥
मीनेति । मीनोपसंदर्शितमेखलानां मीना एव उपसंदर्शिताः प्रतीताः मेखला यासां तासां नदीवधूनां नदीरूपस्त्रीणां गतयः प्रभातकालेषु कान्तेन उपभुक्ताः अत एव अलसगामिन्यस्ता एव ता इति कर्मधारयः, तासां कामिनीनां गतय इव मन्दाः भवन्तीति शेषः ॥ ४।३०।५३ ॥
सेति । सचक्रवाकानि चक्रवाकसहितानि सशैवलानि शैवलसहितानि दुकूलैरिव कासैः संवृतानि नदीमुखानि सपत्रलेखानि सरोचनानि वधूमुखानीव प्रकाशन्ते इति शेषः । तत्र चक्रवाकशैवालौ रोचनापत्रलेखास्थानीयौ ॥ ४।३०।५४ ॥
प्रफुल्लेति । वनेषु प्रफुल्लबाणासनाभ्यां पुष्पिततरुविशेषाभ्यां चित्रितेषु अत एव प्रहृष्टषट्पादनिकूजितेषु सत्सु गृहीतचाप आत्तधनुष्कः उद्यतः प्रारब्धः दण्डचण्डः चण्डदण्डो येन सः प्रचण्डचापः कामः वनेषु प्रादुर्भूत इति शेषः । वनेषु इत्युभयान्वयि ॥ ४।३०।५५ ॥
लोकमिति । सुवृष्ट्या लोकं परितोषयित्वा परितोष्य नदीतटाकानि च पूरयित्वा वसुधां निष्पन्नसस्यां च कृत्वा नभस्त्यक्त्वा पयोधरा मेघाः प्रनष्टाः अदृश्याः बभूवुरिति शेषः ॥ ४।३०।५६ ॥
दर्शयन्तीति । शरन्नद्यः नवसंगमसव्रीडाः योषितो जघनानीव पुलिनानि शनैः दर्शयन्ति ॥ ४।३०।५७ ॥
प्रसन्नेति । प्रसन्नानि सलिलानि येषां ते कुरराभिविनादिताः चक्रवाकगणैः आकीर्णाः सलिलाशयाः विभान्ति ॥ ४।३०।५८ ॥
अन्योन्येति । हे नृपात्मज पार्थिवानामुद्योगसमयः उपस्थितः संप्राप्तः ॥ ४।३०।५९ ॥
इयमिति । सा वर्षानन्तरकाला प्रथमा इयं पार्थिवानां यात्रा समयः प्राप्ता सुग्रीवं तथाविधं पूर्वसुग्रीवप्रतिज्ञासदृशम् उद्योगं च न पश्यामि ॥ ४।३०।६० ॥
वृष्टिनिवृत्तिचिह्नमाह असना इति । श्यामाः असनादयः गिरिसानुषु पुष्पिता दृश्यन्ते । श्यामा अपि तरुविशेषो एव वा ॥ ४।३०।६१ ॥
हंसेति । हंसाद्यैः अवकीर्णानि नदीनां पुलिनानि पश्य ॥ ४।३०।६२ ॥
चत्वार इति । या अङ्गना विषमं दण्डकारण्यमुद्यानं वनं चक्रवाकीव भर्तारं मामनुगता तां सीतामपश्यतः अत एव शोकाभितप्तस्य मम वार्षिकाश्चत्वारो मासाः वर्षशतोपमाः गताः । श्लोकद्वयमेकान्वयि ॥ ४।३०।६३,६४ ॥
प्रियेति । हे लक्ष्मण प्रियाविहीनत्वादिविशिष्टे मयि सुग्रीवः कृपां न कुरुते ॥ ४।३०।६५ ॥
ननु स्वयं समर्थत्वात्सुग्रीवापेक्षा किमर्थं क्रियते इत्यत आह अनाथ इति । रावणेन रावणसदृशेन वालिना धर्षितः अत एव अनाथः रक्षकरहितः अत एव दीनः कामी अयं सुग्रीवः मां शरणं गतः इत्येतैः कारणैः वानरराजस्य सुग्रीवस्य सुग्रीवेण परिभूतः वशीकृतः अहमस्मीति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।३०।६६,६७ ॥
स इति । कालम् अन्वेषणायोग्यमदुक्तवृष्टिसमयं परिसंख्याय ज्ञात्वा सीतायाः परिमार्गणे समयं गतवृष्टिकालकनिश्चयं कृत्वा कृतार्थो दुर्मतिः स सुग्रीवः नावबुध्यते ॥ ४।३०।६८ ॥
स इति । सः तत्कृतनिश्चयज्ञाता त्वं किष्किन्धां प्रविश्य ग्राम्यसुखे सक्तमत एव मूर्खं सुग्रीवं मम वचनाद्बूहि ॥ ४।३०।६९ ॥
वचनप्रकारमाह अर्थिनामिति । उपपन्नानामतिवीर्यादियुक्तानामत एव पूर्वमुपकारिणामर्थिनामाशाम् ईप्सितं संश्रुत्य पूरयितुं प्रतिज्ञाय यो जनः हन्ति न पूरयति । स पुरुषाधमः अधमपुरुषो ज्ञेय इति शेषः ॥ ४।३०।७० ॥
शुभमिति । शुभं पापं वा उदीरितं प्रतिज्ञातं वाक्यं यो यदि सत्यत्वेन अत्याज्यत्वेनेत्यर्थः, परिगृह्णाति स वीरस्तदा पुरुषोत्तमः मन्तव्यः ॥ ४।३०।७१ ॥
कृतार्था इति । कृतार्थाः साधितस्वप्रयोजनाः ये जनाः अकृतार्थानां मित्राणां न भवन्ति कार्यसाधनायेति शेषः, मृतानपि तान् कृतघ्नान् काव्यादाः मांसाशिनः श्वप्रभृत्तयः न उपभुञ्जते खादन्ति ॥ ४।३०।७२ ॥
नूनमिति । रणे मया विकृष्टस्य काञ्चनपृष्ठस्य चापस्य विद्युद्गणोपमं रूपं द्रष्टुमिच्छसि नूनं किम् ॥ ४।३०।७३ ॥
घोरमिति । संयुगे क्रुद्धस्य मम वज्रस्य निर्घोषमिव घोरं ज्यातलनिर्घोषं पुनः संश्रोतुमिच्छसि किमिति शेषः ॥ ४।३०।७४ ॥
तदुपकृत्यभावे ऽपि मम न क्षतिरिति बोधयँल्लक्ष्मणं प्रत्याह काममिति । अस्य सुग्रीवस्य एवम् अनेन प्रकारेण उपकृत्यभावं गते ऽपि पराक्रमे स्वपौरुषे परिज्ञाते चिन्तिते सति त्वत्सहायस्य मे चिन्ता न स्यात् ॥ ४।३०।७५ ॥
यदर्थमिति । यदर्थं यत्प्रयोजनसाधनार्थमयं सख्यादिः आरम्भः आरब्धः अत एव कृतः अन्वेषणसमयः संपादितस्तं समयं कृतार्थः प्लवगेश्वरः सुग्रीवः नाभिजानाति स्म ॥ ४।३०।७६ ॥
वर्षेति । वर्षासमयकालं वर्षस्य वृष्टिसमयस्य आसमयः सम्यग्गमनं यस्मिन् तं कालं हरीश्वरः प्रतिज्ञाय विहरन् सन् व्यतीतान् चतुरो मासान् नावबुध्यते ॥ ४।३०।७७ ॥
सेति । सामात्यपरिषत् अमात्यपरिषत्सहितः सुग्रीवः पानमेवोपसेवते अत एव शोकदीनेषु अस्मासु दयां न कुरुते ॥ ४।३०।७८ ॥
उच्यतामिति । हे महाबल त्वं गच्छ मम रोषस्य यद्रूपं तत्सुग्रीवस्त्वया उच्यताम् इदं वक्ष्यमाणं वचः ब्रूयाश्च ॥ ४।३०।७९ ॥
तद्वचनाकारमाह नेति । येन पथा हतो वाली गतः स पन्थाः न संकुचितः नष्टः अतः समये अन्वेषणकाले तिष्ठ समयं न त्यज अन्वेषणं कुर्वित्यर्थः, वालिपथं मान्वगाः ॥ ४।३०।८० ॥
एक इति । मया शरेण वाली एक एव निहतः सत्यादतिक्रान्तं त्वां तु सबान्धवं हनिष्यामि ॥ ४।३०।८१ ॥
लक्ष्मणं प्रत्याह यदिति । एवं कालविलम्बेन कार्ये हते असिद्धे सति यत् यत् हितं तत् तत् ब्रूहि सुग्रीवं प्रतीति शेषः, अतस्त्वर शीघ्रं गच्छ कालव्यतिक्रमो मा भूदिति शेषः ॥ ४।३०।८२ ॥
सुग्रीवं बोधयितुमुपसंहरन्नाह कुरुष्वेति । हे वानरेश्वर शाश्वतं सर्वकालिकं धर्ममवेक्ष्य ममाग्रे प्रतिश्रुतं प्रतिज्ञातं सत्यं मम चोदितः प्रेरितस्त्वं कुरुष्व । मम शरैः प्रेतगतः परलोकं प्राप्तः सन् यमक्षये यमागोचरलोके विद्यमानं वालिनं मा पश्येः ॥ ४।३०।८३ ॥
स इति । दीनं प्रियावियोगेन कृशं तत्त्वेन भासमानम् अत एव तीव्रविवृद्धकोपम् अन्वेषणकालातिक्रमेण आश्रितातिक्रोधम् अत एव लालप्यमानम् अविशयेन कथयन्तं पूर्वजं वीक्ष्य उग्रतेजाः स लक्ष्मणः हरीश्वरे सुग्रीवे तीव्रां तद्विघातिकात्वेन क्रूरां मतिं चकार ॥ ४।३०।८४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रिंशः सर्गः ॥ ४।३० ॥