०२९ हनुमत्-सुग्रीवसंवादः

सुग्रीवं प्रति हनुमदुक्तिमाह समीक्ष्येत्यादिभिः । गतविद्युद्बलाहकं गता निवृत्ता विद्युतो बलाहकाश्च यस्मात् तत् अत एव विमलं सारसैराकुलं व्याप्तम् अत एव संघुष्टं तदेव तदिति कर्मधारयः रम्यज्योत्स्नाया अनुलेपनं व्याप्तिर्यस्मिन् तत् व्योम समीक्ष्य समृद्धः संपन्नः अर्थो यस्य तमत्यर्थमत्यन्तमसतां मार्गं कामित्वं प्राप्तमिति शेषः, अत एव एकान्ते स्त्रीमात्रसेवितस्थले गतं संलग्नं मानसं यस्य तम् अत एव निवृत्तं कार्यं कृत्यान्तरं यस्य अत एव सदा प्रमदाभिरभिरतम् अत एव मन्दः शिथिलीभूतः धर्मार्थयोः संग्रहो यस्य तम् अभिप्रेतान् इच्छाविषयीभूतान् सर्वान् मनोरथान् उत्तमपदार्थान् अभिप्रेतां स्वां पत्नीं रुमां च समीप्सितां तारां च प्राप्तवन्तम् अत एव गन्धर्वाप्सरसां गणैः क्रीजन्तं कृतार्थं विगतज्वरं देवेशमिव अहोरात्रं विहरन्तम् अत एव सिद्धार्थं मन्त्रिषु न्यस्तानि अधीनीकृतानि कार्याणि येन तं मन्त्रिणामनवेक्षकम् उच्छिन्नः राज्यसंदेहो यस्य तं कामैः कामिभिः वृत्तं वर्तनं यस्य तं वाक्यतत्त्वज्ञम् अवस्थितं हरीशं हरयः ईशाः समर्थाः यस्य तं हरीश्वरं सुग्रीवमुपागम्य प्राप्य अर्थतत्त्वज्ञः अर्थयाथार्थ्यज्ञाता अत एव निश्चितः अर्थः कर्तव्यं वस्तु येन कालधर्मविशेषवित् वाक्यवित् मारुतात्मजो हनूमान् हेतुमद्भिः सयुक्तिकैः वाक्यैः हितं तत्कालोचितं पथ्यमुपकारकं तथ्यं सत्यं सामधर्मार्थनीतिमत् सामादियुक्तं प्रणयप्रीतिभ्यां संयुक्तं प्रणयो नम्रता विश्वासकूतानां शास्त्रोक्तौ विश्वासयुक्तानां निश्चयो यस्मिन् तत् वाक्यमब्रवीत् । सार्धश्लोकाष्टमेकान्वयि ॥ ४।२९।१८ ॥

तद्वाक्याकारमाह राज्यमिति । राज्यं यशश्च प्राप्तं त्वयेति शेषः, अत एव कौली स्वकुलसंबन्धिनी श्रीः अभिवर्धिता वृद्धिं प्रापिता । मित्राणां संग्रहः तत्कार्यसाधनं तु शेषः अवशिष्टः तत्साधनं कर्तुमर्हति ॥ ४।२९।९ ॥

तत्र हेतुमाह य इति । यो जनः मित्रेषु साधु वर्तते तस्य राज्यादि वर्धते ॥ ४।२९।१० ॥

तदेव भङ्ग्यन्तरेणाह यस्येति । कोशः धनागारं दण्ड्यते अनेन दण्डः सेना मित्राणि च आत्मा स्वदेहश्च एतानि सर्वाणि यस्य समानि स्वदेहवत् कोशादयो ऽपि परिपाल्यन्ते इत्यर्थः, स पुरुषः महत् राज्यमश्नुते प्राप्नोति ॥ ४।२९।११ ॥

तदिति । निरत्यये ध्वंसरहिते पथि रामाश्रयणरूपमार्गे स्थितः अत एव वृत्तं प्राप्तं संपन्नं संपत्तिर्यं सः भवान् अभिनीतार्थं प्रतिज्ञाविषयीभूतवस्तुसिद्ध्यर्थं मित्रार्थं यथावत्कर्तुमर्हति ॥ ४।२९।१२ ॥

विपक्षे दोषमाह समिति । यो जनः सर्वकर्माणि संत्यज्य मित्रार्थे मित्रप्रयोजनसिद्धये संभ्रमात् उद्वेगात् न वर्तते स जनः कृतः छिन्नः उत्साहो यस्य स सन् अनर्थेन अवरुध्यते प्राप्यत इत्यर्थः । कृतोत्साहः जातोत्साहविशिष्टः सन् न वर्तते इति वा योजना ॥ ४।२९।१३ ॥

कालात्यये दोषमाह य इति । कालः कर्तव्यसमयो व्यतीतो येषां तेषु मित्रकार्येषु यो वर्तते सः महतो ऽर्थान् कृत्वा ऽपि मित्रार्थे न युज्यते मित्रार्थकारी न भवतीत्यर्थः ॥ ४।२९।१४ ॥

यदिति । एतत्प्राप्तकालं राघवस्य वैदेह्याः परिमार्गणं यत् यतः कालातीतं नो भवेदिति शेषः, तस्मात् इदं मित्रकार्यं मित्रीभूतवानरनियोगो वैदेह्याः परिमार्गणं वा क्रियताम् ॥ ४।२९।१५ ॥

ननु अन्वेषणसमये राम एव आज्ञापयितेत्यत आह नेति । कालवित् तव वशानुगः त्वद्वशं प्राप्तः प्राज्ञः स रामः त्वरमाणो ऽपि अतीतं कालं न निवेदयति स्वयं न निवेदयिष्यति । एतेन रामस्य सौशील्यगुणो व्यञ्जितः ॥ ४।२९।१६ ॥

कुलस्येति । कुलस्य वंशस्य स्फीतस्य प्रशस्तत्वस्य हेतुः यस्मिन्कुले तस्य प्रसादो भवति तदेव प्रशस्तं भवतीत्यर्थः, दीर्घबन्धुः गुणैः अप्रतिमः अत एव अप्रमेयप्रभावः यस्त्वयं राघवः तस्य कार्यं त्वं कुरु । तत्र हेतुः तेन रामेण तव कार्यं कृतम् अतः कपिश्रेष्ठान् आज्ञापयितुमर्हसि । अर्धचतुष्टयमेकान्वयि ॥ ४।२९।१७,१८ ॥

ननु कालो ऽतीतो जात एवेत्यत आह नहीति । चोदनात् रामप्रेरणायाः ऋते विना व्यतीतो ऽपि कालः व्यतीतो नैव भवेत् हि यतः चोदितस्य प्रेरितस्य कार्यस्य व्यतीतः कालः कालव्यतिक्रमो भवेत् । कालो व्यतीत इति त्र्यन्वयि ॥ ४।२९।१९ ॥

अकर्तुरिति । हे हरीश्वर अकर्तुः अकृतोपकारस्यापि जनस्य कार्यस्य भवान् राज्येन धनेन च कर्ता करणशीलः ते प्रतिकर्तुः कार्यस्य कर्ता भवान् चेत्किं पुनर्वक्तव्यम् ॥ ४।२९।२० ॥

शक्तिमानिति । शक्तमानतिसामर्थ्यविशिष्टः अतिविक्रान्तः महाबलस्त्वं दाशरथेः प्रीतिं कर्तुम् आज्ञायां वानराज्ञापने किंनु किमर्थं सज्जसे विलम्बसे ॥ ४।२९।२१ ॥

काममिति । सुरासुरमहोरगान् शरैर्वशे कर्तुं यो दाशरथिः शक्तः समर्थः स त्वत्प्रतिज्ञामवेक्षते । एतेन त्वदनुग्रहार्थमेव रामस्त्वामाश्रित इति सूचितम् ॥ ४।२९।२२ ॥

प्राणेति । प्राणत्यागाविशङ्केन साक्षात्स्वानपराधिवालिप्राणत्याजनानौचित्यशङ्कारहितेन तेन रामेण महत् प्रियं ते महाप्रमोदः कृतम् अतस्तस्य रामस्य वैदेहीं पृथिव्यामम्बरे च मार्गाम् अन्वेषयाम ॥ ४।२९।२३ ॥

देवेति । तस्य रामस्य भयं देवादयो नैव कुर्युः राक्षसाः किं कथं कुर्युः । एतेन राक्षसा अतिप्रबला इति कथं जेतव्या इति संशयो न कार्य इति ध्वनितम् ॥ ४।२९।२४ ॥

तदिति । पिङ्गेश हे वानरेश तत् उक्तहेतोः एवं शक्तियुक्तस्य पूर्वं तव प्रतिकृतः कृतोपकारस्य रामस्य सर्वात्मना निखिलयत्नेन प्रियं कर्तुमर्हसि ॥ ४।२९।२५ ॥

नेति । हे कपीश्वर तवाज्ञया अस्मासु मध्ये कस्यचिद्वानरादेर्गतिर्गमनम् अधस्तादादौ न सज्जते शिथिलीभवति तत् उपरि अन्तरिक्षे अम्बरे ततो ऽप्यूर्ध्वदेशे । एतेन दुर्गमदेशे स्थापिता चेत्सीता कथमन्वेषणीयेति संशो न कार्य इति ध्वनितम् ॥ ४।२९।२६ ॥

तदिति । अप्रधृष्याः धर्षयितुमशक्याः ये हरयो वानराः कोट्यग्रशः कोटितो ऽप्यधिकास्ते सन्ति तेषां मध्ये कः वानरः कुतः कस्मिन्प्रदेशे किं त्वदाज्ञापनं व्यवस्यतु निश्चिनोतु तदाज्ञापय ॥ ४।२९।२७ ॥

तस्येति । तस्य हनुमतः काले यथोचितसमये साधुनिरूपितं वचनं श्रुत्वा सत्त्वसंपन्नः सुग्रीवः उत्तमां रामकार्यसाधनविषयिकात्वेनोत्कृष्टां मतिं निश्चयं चकार ॥ ४।२९।२८ ॥

समिति । अतिमतिमान् सुग्रीवः सर्वासु दिक्षु विद्यमानानां सर्वेषां सैन्यानामुपसंग्रहे स्वसमीपानयनार्थं नित्यकृतोद्यमं नीलं संदिदेश ॥ ४।२९।२९ ॥

आज्ञाप्रकारमाह यथेति । सेनाग्र्येण सेनाग्रेसरैः सह मे समग्राः सेनाः सर्वशो यूथपालाश्च असङ्गेन अविलम्बेन यथा समागच्छन्ति तथा कुरु ॥ ४।२९।३० ॥

समागमनप्रकारमाह ये इति । ये अन्तपालाः अतिदूरदेशवर्तिसेनाधीशाः शीघ्रगा व्यवसायिनः प्लवगास्ते ऽपि त्वरिताः सन्तः समानयन्तु आगच्छन्तु ॥ ४।२९।३१ ॥

स्वयमिति । अनन्तरं सेनासमागमनोत्तरकाले कार्यं सेनागणनादि स्वयं भवानेव अनुपश्यतु विचारयतु करोत्वित्यर्थः । अर्धं पृथक् ॥ ४।२९।३२ ॥

त्रिपञ्चेति । सीतावृत्तान्तज्ञानार्थं गतो यो वानरः त्रिपञ्चरात्रात् त्रिगुणितपञ्चरात्रात् पञ्चदशाहादित्यर्थ, ऊर्ध्वमिह प्राप्नुयात् तस्य प्राणान्तिकः प्राणविघातको दण्डो भवेत् अत्र अस्मिन् विषये विचारणा न कार्या ॥ ४।२९।३३ ॥

हरीनिति । साङ्गदो भवान् निश्चितां ममाज्ञामधिकृत्य वृद्धान् हरीन् वानरान् उपयातु तेषां सत्कृत्यर्थं तत्समीपं गच्छतु । हरिपुङ्गवेश्वरः सुग्रीवः इति व्यवस्थां नियोगं विधाय कृत्वा वेश्म स्वशिबिरं प्रविवेश ॥ ४।२९।३४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ ४।२९ ॥