०२८ प्रावृड्वर्णनम्

रामोक्तिमुपक्रमते स इति । माल्यवतः पृष्ठे वसन् स रामः लक्ष्मणमब्रवीत् ॥ ४।२८।१ ॥

तद्वचनाकारमाह अयमित्यादिभिः । जलागमः वृष्टिप्रापकः अत एव कालः सर्वस्थित्युपदेशकः स प्रसिद्धो ऽयं समयः संप्राप्तः अतः गिरिसंनिभैः मेघैः संवृतं नभः त्वं पश्य । काल इति उपदेशार्थककालधातुप्रकृतिककर्त्रजन्तः अत एव न पौनरुक्त्यम् ॥ ४।२८।२ ॥

समयं वर्णयति नवेत्यादिभिः । द्यौराकाशं सूर्यस्य गभस्तिभिः किरणैः रसायनं सर्वरसानां मूलं समुद्राणां रसं पीत्वा नवमासधृतं गर्भमिव प्रसूते । गर्भशब्द आचारक्विबन्तः ॥ ४।२८।३ ॥

शक्यमिति । कुटजार्जुनमालाभिः कर्तृभिः मेघसोपानपङ्क्तिभिः मेघरूपसोपानसमूहमार्गेण अम्बरमारुह्य दिवाकरो ऽलंकर्तुं शक्यम्, सामान्ये नपुंसकम् ॥ ४।२८।४ ॥

सन्ध्येति । सन्ध्यारागोत्थितैः संध्यारागसंबद्धैः अत एव ताम्रैः अरुणैः अन्तेषु च पाण्डुभिः श्वेतैः अभ्रपटच्छेदैः अभ्ररूपपटखण्डैः बद्धव्रणमिव अम्बरमाकाशमभवदिति शेषः ॥ ४।२८।५ ॥

मन्देति । मन्दमारुत एव निश्वासो यस्य तत् सन्ध्याचन्दनरञ्जितं सन्ध्यारूपचन्दनचर्चितम् आपाण्डुजलदम् ईषत्पाण्डुजलदविशिष्टम् अम्बरं कामातुरमिव भाति । ईषत्पाण्डुजलदस्य कपोलरूपकत्वं तेन वियुक्तत्वं व्यज्यते ॥ ४।२८।६ ॥

एषेति । धर्मपरिक्लिष्टा धर्मेण संतप्ता अनन्तरं नववारिपरिप्लुता एषा मही शोकसंतप्ता सीतेव बाष्पं विमुञ्चति ॥ ४।२८।७ ॥

मेघेति । मेघोदरविनिर्मुक्ताः मेघोदरादागताः अत एव कर्पूरदलशीतलाः कर्पूरलिप्तदलवत् शीतलाः केतकगन्धिनो वाताः अञ्जलिभिः पातुं शक्या इव ॥ ४।२८।८ ॥

एष इति । फुल्लाः प्रफुँल्लिताः अर्जुना यस्मिन् सः केतकैरभिवासित एष शैलः शान्तारिः सुग्रीव इव धाराभिरभिषिच्यते ॥ ४।२८।९ ॥

मेघेति । मेघकृष्णाजिनधराः मेघरूपकृष्णाजिनधारिणः धारा एव यज्ञोपवीतानि तद्वन्तः मारुतेन आपूरिता गुहा येषां ते पर्वताः प्राधीताः आरब्धाध्ययना इव आसन्निति शेषः ॥ ४।२८।१० ॥

कशाभिरिति । विद्युद्भिरन्तःस्तनितनिर्घोषमम्बरं हैमीभिः कशाभिस्तोत्रैः अभिताडितं सवेदनमश्वमिव पश्येति शेषः ॥ ४।२८।११ ॥

नीलेति । नीलमेघाश्रिता स्फुरन्ती विद्युत् रावणस्याङ्के स्थाने स्फुरन्ती वैदेहीव मे प्रतिभाति ॥ ४।२८।१२ ॥

इमा इति । घनैर्मेघैरनुलिप्ताः अत एव नष्टग्रहनिशाकराः अदृष्टग्रहचन्द्राः अत एव प्रतिहता इव इमा दिशः मन्मथवतां हिताः उद्दीपकचन्द्रादिदर्शनाभाववत्तया हिता एवेत्यर्थः ॥ ४।२८।१३ ॥

क्वचिदिति । क्वचित्स्थले बाष्पाभिसंरुद्धान् बाष्पैः नवजलसेकजनितपार्थिवाद्युष्माभिः अभिसंरुद्धान् व्याप्तान् वर्षागमसमुत्सुकान् पुष्पितान् शोकाभिभूतस्य मम कामसन्दीपनान् गिरिसानुषु स्थितान् कुटजान् पश्य । सार्धश्लोक एकान्वयी ॥ ४।२८।१४ ॥

रज इति । रजः धूलिः प्रशान्तं वृष्ट्या निवृत्तं सहिमः सशीतः वायुर्वातीति शेषः, अत एव निदाघदोषप्रसराः निदाघदोषाणां तापादीनां प्रसराः विस्ताराः प्रशान्ताः अत एव वसुधाधिपानां यात्रा स्थिता निवृत्तेत्यर्थः, अत एव प्रवासिनो नराः स्वदेशान् यान्ति ॥ ४।२८।१५ ॥

समिति । संप्रति वृष्टिकाले मानसवासलुब्धाः मानससरोवासविषयकोत्कटेच्छावन्तः सन्तः प्रियान्विताः चक्रवाकाः संप्रस्थिताः मानसं सरो ऽगच्छन् । अभीक्ष्णानि पुनः पुनः पतितानि एव वर्षोदकानि तैः विक्षतेषु विनष्टेषु मार्गेषु यानानि रथादीनि न संपतन्ति गच्छन्ति ॥ ४।२८।१६ ॥

क्वचिदिति । प्रकीर्णाः प्रक्षिप्ताः अम्बुधराः मेघा यस्मिन् तत् नभः क्वचित्प्रकाशं क्वचिदप्रकाशं विभाति । तत्र दृष्टान्तः पर्वतसंनिरुद्धं प्रशान्तमहार्णवस्य तरङ्गरहितसमुद्रस्य रूपं स्वरूपं यथा क्वचित्क्वचिद्विभाति ॥ ४।२८।१७ ॥

व्यामिश्रितमिति । सर्जकदम्बपुष्पैः व्यामिश्रितं पर्वतधातुताम्रं पर्वतधातुभिः गौरिकादिभिस्ताम्रमरूणं मयूरकेकाभिः मयूरशब्दैः अनुप्रयातं जलं शैलापगाः पर्वतसरितः शीघ्रतरं वहन्ति समुद्रं प्रापयन्ति ॥ ४।२८।१८ ॥

रसेति । रसाकुलं रसैर्व्याप्तं षट्पदसंनि षट्पदैः संनीयते रसपानार्थं प्राप्यते तत् अनेकवर्णं पवनावधूतं वायुना कम्पितं विपक्वं जम्बुफलम् आम्रफलं च भूमौ पतति । अत एव काशं सुखव्याप्तं यथा भवति तथा प्रकामं प्रभुज्यते जन्तुभिरिति शेषः ॥ ४।२८।१९ ॥

विद्युदिति । विद्युतः पताका इव येषां ते सबलाकमालाः बलाकपङ्क्तिसहिताः शैलेन्द्रकूटस्य गिरिराजशिखरस्य आकृतिरिव संनिकाश आकृतिर्येषां ते समुदीर्णः अतिगम्भीरः नादो येषां ते मेघाः मत्ताः संयुगस्थाः गजेन्द्रा इव गर्जन्ति ॥ ४।२८।२० ॥

वर्षेति । वर्षोदकैः आप्यायितानि प्रवृद्धानि शाद्वलानि येषु तानि प्रवृत्तनृत्तोत्सवाः बर्हिणाः मयूराः येषु निर्वृष्टाः बलाहकाः मेघा येषु तानि वनानि अपराह्णेषु अधिकं विभान्ति त्वं पश्य ॥ ४।२८।२१ ॥

समिति । बलाकिनः बकपङ्क्तियुक्ताः सलिलातिभारं समुद्वहन्तः नदन्तः वारिधराः मेघाः महीधराणां पर्वतानां महत्सु शृङ्गेषु विश्रम्य विश्रम्य पुनः प्रयान्ति ॥ ४।२८।२२ ॥

मेघेति । मेघाभिकामा गर्भधारणार्धं मेघविषयकेच्छावती अत एव परिसंपतन्ती मेघानवलोक्य परितो गच्छन्ती संमोदिता बलाकपङ्क्तिः अम्बरस्य आकाशस्य वातावधूता वरपौण्डरीकी श्रेष्ठश्वेतपद्मनिर्भिता लम्बा बृहती रुचिरा रमणीया मालेव भाति ॥ ४।२८।२३ ॥

बालेति । बालेन्द्रगोपान्तरचित्रितेन बालैर्नवैः इन्द्रगोपैः अन्तरचित्रितेन मध्ये चित्रीकृतेन नवशाद्वलेन युक्ता भूमिः गात्रानुयुक्तेन शरीरलग्नेन शुकप्रभेण हरितवर्णेन लाक्षोक्षितकम्बलेन मध्ये लाक्षारसरक्तीभूतकम्बलविशेषेण युक्ता नारीव विभाति ॥ ४।२८।२४ ॥

निद्रेति । निद्रा केशवमभ्युपैति प्राप्नोति नदी सागरमभ्युपैति बलाका बकपङ्क्तिः घनमभ्युपैति सकामा कान्ता प्रियमभ्युपैति ॥ ४।२८।२५ ॥

जाता इति । वनान्ताः वनमध्यदेशाः शिखिनां सुप्रनृत्तमतिनर्तनं येषु ते । जाताः कदम्बाः सकदम्बाः कदम्बपुष्पसहितशाखावन्तो जाताः वृषाः । वर्दाः गोषु समानकामा जाताः । मही सस्यवनाभिरामा सस्यैर्वनैश्च रामा रमणीया जाता ॥ ४।२८।२६ ॥

वहन्तीति । नदीप्रभृतयः यथाक्रमं वहनादि कुर्वन्ति तत्र प्लवङ्गाः वानराः समाश्वसन्ति इदानीं न कस्माच्चित्ते भयमिति बोधयन्तीत्यर्थः । “समाहयन्ति” इति पाठान्तरम् । तत्र हर्षेणेतस्ततो गच्छन्तीत्यर्थः ॥ ४।२८।२७ ॥

प्रहर्षिता इति । केतकपुष्पगन्धमाघ्राय प्रहर्षिताः प्रपातशब्दाकुलिताः निर्झरशब्दश्रवणेन चञ्चलचित्ताः समदाः मदसहिताः अत एव मत्ताः गजेन्द्राः मयूरैः सार्धं नदन्ति ॥ ४।२८।२८ ॥

धारेति । धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः षट्चरणाः भ्रमराः क्षणार्जितम् उत्सवेन गृहीतं पुष्परसावगाढं पुष्परसैः प्रवृद्धं मदं शनैस्त्यजन्ति ॥ ४।२८।२९ ॥

अङ्गारेति । अङ्गारचूर्णोत्करसंनिकाशैः जलासिक्ताकाष्ठाग्निचूर्णसमूहसदृशैः सुपर्याप्तरसैः परिपूर्णरसविशिष्टैः समृद्धैः बृहत्स्वरूपैः फलैर्युक्ता जम्बूद्रुमाणां शाखाः षट्पदौघैः निपीयमाना इव भान्ति ॥ ४।२८।३० ॥

तडिदिति । तडितः पताका इव ताभिरलंकृतानाम् उदीर्णः संजातो गम्भीरमहारवो येषां तेषां बलाहकानां मेघानां रूपाणि रणोत्सुकानां वारणानां गजानां रूपाणीव विभान्ति ॥ ४।२८।३१ ॥

मार्गेति । शैलवनानुसारी शैलवनेषु विचरणशीलः युद्धाभिकामः गजेन सह युद्धाय अभिकामो यस्य सः अत एव मार्गानुगः मार्गाय गजान्वेषणाय अनुगः निरन्तरं गन्ता मत्तो गजः मेघरवं निशम्य पश्चाद्देशे श्रुत्वा प्रतिनादशङ्की योद्धुकामगजान्तरशब्दविषयकशङ्कावान् प्रतिसंनिवृत्तः अग्रे गमनात् निवृत्तः पश्चाद्देशं चलित इत्यर्थः ॥ ४।२८।३२ ॥

क्वचिदिति । षट्पदौघैः भ्रमरसमूहैः क्वचित्प्रगीता इव नीलकण्ठैर्मयूरैः क्वचित्प्रनृत्ता इव वारणेन्द्रैर्गजैः क्वचित्प्रमत्ता इव वनान्ता वनमध्यदेशाः अनेकाश्रयिणः बहुधर्मविशिष्टा भान्ति ॥ ४।२८।३३ ॥

कदम्बेति । कदम्बादिभिस्तरुभिराढ्या मधुवारिभिः मद्यसदृशवर्णविशिष्टजलैः पूर्णा वनान्तभूमिः मयूरमत्ताभिरुतप्रनृत्तैः मत्तमयूररुतनृत्यैः आपानभूमिप्रतिमा मद्यपानभूमिसदृशी विभाति । मद्यपानभूमौ मद्यपनृत्यादि प्रसिद्धम् ॥ ४।२८।३४ ॥

मुक्तेति । सुरेन्द्रदत्तम् इन्द्रप्रेरणया मेघैर्मुक्तम् अत एव पतत् अधः आगच्छत् अत एव पत्रपुटेषु द्रोमाकारपत्रेषु लग्नं मुक्तासमाभं सुनिर्मलसलिलं हृष्टाः स्वपेयजलप्राप्त्या प्राप्तहर्षाः विवर्णच्छदनाः जलसिक्तत्वेन परिणतपक्षास्तृपिताः विहङ्गाः चातकाः पिबन्ति । चातकाः सद्योवृष्टस्वातिजलमेव पिबन्तीति प्रसिद्धिः ॥ ४।२८।३५ ॥

षट्पादेति । षट्पादा भ्रमरास्तन्त्र्यो वीणा इव तेषां मधुराभिधानं मधुरशब्दो यस्मिन् तत् प्लवङ्गमैः दर्दुरैः उदीरितः कण्ठतालः सूत्रधारकण्ठनिःसृतशब्दविशेषो यस्मिन् तत् मेघा एव मृदङ्गास्तेषां नादैः आविष्कृतं प्रकटितं वनेषु संगीतमिव प्रवृत्तम् ॥ ४।२८।३६ ॥

क्विचिदिति । क्वचित्कस्मिंश्चित् समये प्रनृत्तैः प्रकृष्टनर्तनविशिष्टैः क्वचित् उन्नदद्भिः महानादं कुर्वद्भिः क्वचिद्वृक्षाग्रेषु निषण्णाः संस्थापिताः कायाः शरीराणि यैस्तैः व्यालम्बीनि अतिविशालानि बर्हाणि पिच्छानि एव आभरणानि येषां तैः मयूरैः वनेषु संगीतमिव प्रवृत्तम् ॥ ४।२८।३७ ॥

स्वनैरिति । चिरसंनिरुद्धां बहुकालं स्थितां निद्रां घनानां स्वनैः करणैर्विहाय प्रबुद्धाः सावधानाः अनेकरूपाकृतिवर्णनादाः अनेकरूपादिविशिष्टाः प्लवगाः भेका अम्बुधाराभिहताः सन्तो नदन्ति ॥ ४।२८।३८ ॥

नद्य इति । समुद्वाहिताः वारिपूरेणोन्नीताः चक्रवाकाः याभिस्ताः दृप्ताः नद्यः शीर्णानि स्ववेगेन विदारितानि तटानि अपवाहयित्वा नवप्रावृतपूर्णभोगाः नवैः प्रावृतैः पुष्पाद्युपहारैः पूर्णाः भोगा यासां ताः सत्यस्वभर्तारं समुद्रं द्रुतमुपोपयान्ति ॥ ४।२८।३९ ॥

नीलेष्विति । नीलेषु जलपूर्णतया नैल्यविशिष्टेषु मेघेषु सक्ताः आसक्ताः वारिपूर्णाः मेघाः दवाग्निदग्धेषु शैलेषु बद्धमूलाः सक्ताः दग्धा शैला इव प्रतिभान्ति ॥ ४।२८।४० ॥

प्रमत्तेति । प्रमत्ताः अत एव संनादिताः संनादवन्तो बर्हिणाः मयूराः येषु तानि सशक्रगोपैः(?) आकुलानि व्याप्तानि शाद्वलानि येषु तानि नीपार्जुनवासितानि नीपार्जुनयोर्गन्धविशिष्टानि वनान्तराणि गजाः चरन्ति ॥ ४।२८।४१ ॥

नवेति । नवाम्बुधाराभिः हताः केसराः येषां तानि सरोरुहाणि कमलानि परित्यज्य सकेसराणि नवानि कदम्बपुष्पाणि हृष्टाः भ्रमराः पिबन्ति ॥ ४।२८।४२ ॥

मत्ता इति । गजेन्द्राः मत्ताः गवेन्द्राः वृषभाः मुदिताः मृगेन्द्राः वनेषु विक्रान्ततराः अतिविक्रमवन्तः नगेन्द्राः महापर्वताः रम्याः नरेन्द्राः निभृताः त्यक्तयुद्धोत्साहाः सुरेन्द्रः वारिधरैः प्रक्रीडितः ॥ ४।२८।४३ ॥

मेघा इति । समुद्धूतः तिरस्कृतः समुद्रनादः येस्ते गगनावलम्बाः मेघाः महाजलौघैः नद्यादीनि अपवाहयन्ति पूरयन्तीत्यर्थः ॥ ४।२८।४४ ॥

वर्षेति । विपुलाः वर्षप्रवेगाः वृष्टिप्रवाहाः पतन्ति । समुदीर्णवेगाः अतिवेगवन्तो वाताः प्रवान्ति । अत एव प्रणष्टकूलाः अत एव विप्रतिपन्नाः निवर्तिताः मार्गाः जनानामध्वानः याभिस्ताः नद्यः जलं शीघ्रं प्रवहन्ति ॥ ४।२८।४५ ॥

नरैरिति । नरैर्नरेन्द्रा राजान इव सुरेन्द्रदत्तैरिन्द्रप्रेरितैः पवनोपनीतैः घनाम्बुकुम्भैः घना एव अम्बुकुम्भास्तैरभिषिच्यमानाः पर्वतेन्द्राः रूपं स्वां श्रियं चाभिदर्शयन्ति ॥ ४।२८।४६ ॥

घन इति । गगनं घनोपगूढं घनैराच्छन्नम् अतः तारादर्शनं नाभ्युपैति भास्करश्च दर्शनं नाभ्युपैति जलौघैर्धरणी वितृप्ता तमोविलिप्ता अन्धकारेणावृता च अत एव दिशः प्रकाशो न ॥ ४।२८।४७ ॥

महान्तीति । महाप्रमाणैः अतिविस्तृतैर्विपुलैर्बहुभिः मुक्ताकलापैः मुक्तासमूहैः लम्बमानैरिव प्रपातैर्निर्झरैः धाराविधौतानि महीधराणां महान्ति कूटानि अधिकं विभान्ति ॥ ४।२८।४८ ॥

शैलेति । शैलोपलेषु प्रस्खलमानो वेगो येषां ते विपुलाः प्रपाताः निर्झराः संनादितबर्हिणासु शैलोत्तमानां गुहासु विकीर्यन्तः त्रुट्यन्तो हारा इव भान्ति ॥ ४।२८।४९ ॥

शीघ्रेति । शीघ्रप्रवेगाः विपुला बहवः निर्धौतशृङ्गोपतलाः प्रक्षालितशृङ्गप्रदेशाः मुक्ताकलापप्रतिमाः मुक्तासमूहसदृशाः पतन्तो गिरीणां प्रपाताः महागुहानामुत्सङ्गतलैर्ध्रियन्ते ॥ ४।२८।५० ॥

सुरतेति । सुरतामर्दविच्छिन्नाः सुरतेषु विहारेषु आमर्दैर्विच्छिन्नाः पतिताः स्वर्गस्त्रीहारमौक्तिका इव तोयधारा समन्ततः पतन्ति ॥ ४।२८।५१ ॥

सूर्यदर्शनाभावेन रात्रिदिवसयोस्तुल्यत्वे ऽपि रात्रिबोधकमसाधारणचिह्नमाह विलीयमानैरिति । विलीयमानैः स्वस्ववासवृक्षं गच्छद्भिर्विहगैः निमीलद्भिर्मुकुलीभावं प्राप्नुवद्भिः पङ्कजैः विकसन्त्या मालत्या च अस्तं गतो रविर्ज्ञायते ॥ ४।२८।५२ ॥

वृत्तेति । नरेन्द्राणां यात्रा वृत्ता निवृत्ता अत एव सेना पथि वर्तते न क्वचित् यातीत्यर्थः, अत एव वैराणि परस्परं राज्ञां द्वेषा मार्गाश्च सलिलेन समीकृताः ॥ ४।२८।५३ ॥

मासीति । ब्रह्म वेदं विवक्षतां पठितुमिच्छतां सामगानां प्रोष्ठपदे भाद्रे मासि अयं शुक्लतृतीयातिथिः अध्यायसमयः उपाकरणकालः उपस्थितः प्राप्तः ॥ ४।२८।५४ ॥

निवृत्तेति । निवृत्तं कर्मायतनं राजकर्मणां मूलं यात्रेत्यर्थः, यस्य सः अत एव सञ्चिता आर्जिताः सञ्चयाः कर्मसाधकपदार्थाः येन स कोशलाधिपो भरतः आषाढीं पूर्णिमां प्राप्य अभ्युपगतः विशेषानुष्ठानमारभत ॥ ४।२८।५५ ॥

नूनमिति । आयान्तं मां समीक्ष्य अयोध्यायां स्वन इव आपूर्यमाणायाः सरय्वा रयो वेगः वर्धते ॥ ४।२८।५६ ॥

इमा इति । स्फीतगुणाः इमाः वर्षा राज्ये च स्थितः सुग्रीवः सुखमश्नुते ॥ ४।२८।५७ ॥

अहमिति । हृता दारा यस्य सः अत एव महतो राज्यात् शोभायाश्च्युतो ऽहं तु क्लिन्नमाप्लावितं नदीकूलमिव अवसीदामि ॥ ४।२८।५८ ॥

शोक इति । मम शोकादिः अपारः बहुकालमन्तरहित इव भाति ॥ ४।२८।५९ ॥

अयात्रामिति । दुर्गमान् मार्गान् दृष्ट्वा अत एव अयात्रां यात्राभावं दृष्ट्वा प्रणते ऽपि सुग्रीवे मया किंचिन्न ईरितम् ॥ ४।२८।६० ॥

अपीति । अपि च अन्यदुच्यते चिरात् बहुकालं परिक्लिष्टं दारैः समागतम् इदानीं स्त्रीभिः संयुक्तं वानरं सुग्रीवं वक्तुम् आज्ञापयितुम् आत्मनः कार्यस्य गरीयस्त्वात् बहुकालादितः साध्यत्वात् हेतोः नेच्छामि, किंच आत्मकार्यस्य गरीयस्त्वात् गुरुत्वादपि नेच्छामि ॥ ४।२८।६१ ॥

स्वयमिति । विश्रम्य स्वश्रमं निवर्त्य उपागतं प्राप्तं कालमन्वेषणसमयं ज्ञात्वा उपकारं मत्कर्तृकोपकृतिं वेत्स्यते समयं प्राप्य यतिष्यत इत्यर्थः, अत्र संशयो न ॥ ४।२८।६२ ॥

तस्मादिति । तस्मादुक्तहेतोः सुग्रीवस्य नदीनां च प्रसादं स्वेच्छयोद्योगप्रवृत्तिं मार्गदात्रीत्वं चेत्यर्थः, अभिकाङ्क्षयन् कालप्रतीक्षो ऽहं स्थितो ऽस्मि ॥ ४।२८।६३ ॥

उपकारेणेत्यादि । श्लोकत्रयमित्थं पूर्वमपि पठितमिति व्याख्यातत्वान्नात्र व्याख्यायते ॥ ४।२८।६४६६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टाविंशः सर्गः ॥ ४।२८ ॥