रामवृत्तान्तमुपक्रमते अभिषिक्त इति । अभिषिक्ते वानरे सुग्रीवे गुहां प्रविष्टे रामं संप्रार्थ्य याते सति रामः प्रस्रवणं गिरिमाजगाम ॥ ४।२७।१ ॥
गिरिं वर्णयन्नाह शार्दूलेति । शार्दूलमृगसंघुष्टं शार्दूलैः मृगैश्च शब्दितं भीमरवैः सिंहैर्वृतं नानागुल्मलतागूढमनेकविधैर्गुल्मैर्लताभिश्च आच्छादितम् ॥ ४।२७।२ ॥
ऋक्षादिभिश्च निषेवितं मेघराशिनिभं शुचिकरं दर्शनादिकर्तृ़णां पवित्रकारकं शिवं मङ्गलप्रदं यत् शैलम् ॥ ४।२७।३ ॥
तस्य शैलस्य शिखरे महतीं गुहां रामः प्रत्यगृह्णीत स्वीचकार ॥ ४।२७।४ ॥
कृत्वेति । अनघः शरणागतानामघनिवर्तकः सुग्रीवेण सह समयं कृत्वा प्रस्रवणमागत इति शेषः, रामः कालयुक्तं कालोचितं वाक्यं भ्रातरं लक्ष्मणमुवाच । सार्धश्लोक एकान्वयी ॥ ४।२७।५ ॥
तद्वचनाकारमाह इयमिति । इयं गिरिगुहा विशाला युक्तमारुता नित्यं मारुतविशिष्टा अत एव रम्या अतः अस्यां गुहायां वर्षरात्रं वार्षिकान् मासान् इत्यर्थः, वत्स्याम ॥ ४।२७।६ ॥
गिरिशृङ्गं वर्णयन्नाह गिरीति । पार्थिवात्मज हे लक्ष्मण श्वेतादिभिः शिलाभिः उपशोभितं नानाधातुभिः समाकीर्णं व्याप्तं नदीदर्दुरसंयुतं नदीसंसर्गिमण्डूकैर्विशिष्टम् ॥ ४।२७।७,८ ॥
वृक्षखण्डैस्तरुसमूहैः चारु रमणीयं चित्रलतावृत्तम् ॥ ४।२७।९ ॥
पुष्पितैः मालत्यादिभिः उपशोभितमत एव रम्यमिदमस्तीति शेषः, एतेनात्रैव वस्तव्यमिति सूचितम् । सार्धश्लोकत्रयमेकान्वयि ॥ ४।२७।१० ॥
इयमिति । हे नृपात्मज फुल्लपङ्कजमण्डिता पुष्पितकमलैः शोभिता इयं नलिनी सरसी नौ आवयोः गुहायाः नातिदूरे समीपे इत्यर्थः, भविष्यति वृष्टिवशात्पूर्णतां प्राप्स्यतीत्यर्थः ॥ ४।२७।११ ॥
प्रागिति । प्रागुदक्प्रवणे ईशानदिशि निम्ने देशे विद्यमाना इयं गुहा साधु वासाय शोभना भविष्यति तेन ईशानदिग्भागे निम्नत्वादसंभवेन गुहाद्वाराभावः सूचितः । अत एव पश्चात् नैऋत्यदिग्भागे उन्नता एतद्दिग्द्वारिकेति तात्पर्यम् । अत एव निवाता प्रायो वातप्रवेशाभाववती भविष्यति । एतेन प्रायो वातेरितवृष्टिजलकणसंसर्गाभावः सूचितः ॥ ४।२७।१२ ॥
गुहेति । समतला निम्नोन्नतरहितमध्या शिवा स्थातृ़णां कल्याणप्रदा आयता विशाला भिन्नाञ्जनचयोपमा विविक्तदेशस्थाञ्जनसमूह इव अत एव कृष्णा गुहाद्वारे शिलास्तीति शेषः ॥ ४।२७।१३ ॥
गिरेरिति । भिन्नाञ्जनचयाकारं विविक्तदेशस्थाञ्जनसमूहसदृशमुदितमुत्थितमम्भोधरं समुद्रमिव उत्तरतः उत्तरस्यां दिशि इदं गिरेः शृङ्गं पश्य ॥ ४।२७।१४ ॥
दक्षिणस्यामिति । श्वेतमम्बरं वस्त्रमिव कैलासशिखरप्रख्यं कैलासशृङ्गसदृशं नानाधातुविराजितं दक्षिणस्यामपि दिशि स्थितमिदं गिरेः शृङ्गं पश्येत्यत्राप्यनुकृष्यते ॥ ४।२७।१५ ॥
प्राचीनेति । त्रिकूटे जाह्नवीं गङ्गामिव भृशमत्यन्तम् अकर्दमां कर्दमरहितां प्राचीनवाहिनीं पूर्वदिग्वाहिनीं चन्दनाद्यैः शोभितां नदीं गुहायाः पुरतः पूर्वस्यां दिशि पश्य । श्लोकत्रयमेकान्वयि ॥ ४।२७।१६१८ ॥
तीरजैरिति । नानारूपैः अनेकविधैस्तीरजैश्चन्दनादिभिः शोभिता युक्ता नदीं वसनाभरणोपेता अभ्यलंकृता सिन्दूरादिविभूषिता प्रमदा इव भाति ॥ ४।२७।१९ ॥
शतश इति । शतशः पक्षिसङ्घैः पक्षिणां समूहैः नानानादविनादिता एकैकं परस्परमनुरक्तैः चक्रवाकैः अतिरम्यैः पुलिनैश्च अलंकृता हंससारससेविता नानारत्नसमन्विता एषा नदी प्रहसन्ती अवभाति । श्लोकद्वयमेकान्वयि ॥ ४।२७।२०,२१ ॥
क्वचिदिति । क्वचित् कस्मिंश्चित् स्थले नीलोत्पलैः क्वचित् रक्तोत्पलैः छन्ना सती आभाति । शुक्लैः दिव्यैः क्रीडायोग्यैः कुमुदकुड्मलैः क्वचिदाभाति ॥ ४।२७।२२ ॥
पारिप्लवेति । पारिप्लवशतैः अनेकजलपक्षिभिः जुष्टा बर्हिणदेवेस्तस्मादिति अत एव रमणीया सौम्या नदी मुनिसंघैर्निषेविता अस्तीति शेषः ॥ ४।२७।२३ ॥
पश्येति । मनसा मदिच्छया सममुदिताः जाता इव चन्दनवृक्षाणां ककुभानामर्जुनवृक्षाणां च याः पङ्क्तयः दृश्यन्ते ताः सुरुचिराः पङ्क्तीः पश्य अवलोकय ॥ ४।२७।२४ ॥
अहो इति । हे शत्रुनिषूदन अयं देशः अहो आश्चर्यं रमणीयः अतः अत्र साधु निवसावहे रंस्याव च दृढं निश्चितमेतत् ॥ ४।२७।२५ ॥
इत इति । सुग्रीवस्य पुरी किष्किन्धा इतो नातिदूरे समीपे अस्तीत्यर्थः ॥ ४।२७।२६ ॥
तत्र ज्ञापकमाह गीतेति । मृदङ्गाडम्बरैः मृदङ्गशब्दैः सह नदतां वानराणां गीतवादित्रनिर्घोषः श्रूयते ॥ ४।२७।२७ ॥
लब्ध्वेति । सुग्रीवः राज्यं महतीं श्रियं च संप्राप्य भार्यां च लब्ध्वा ध्रुवं नन्दति ॥ ४।२७।२८ ॥
इतीति । राघवः इत्युक्त्वा बहूनि दृश्यानि अपूर्वत्वेन द्रष्टव्यानि अनेकविधवस्तूनि यस्मिन् तदेव दरीकुञ्जं तस्मिन् प्रस्रवणे गिरौ न्यवसत् ॥ ४।२७।२९ ॥
सुमुख इति । सुमुखे अतिसुखहेतावपि तस्मिन् धरणीधरे पर्वते वसतः प्राणेभ्यो ऽपि गरीयसीं भार्यां स्मरतः रामस्य अल्पा ऽपि रतिः प्रीतिर्नाभवत् । सार्धश्लोक एकान्वयी ॥ ४।२७।३० ॥
उदयेति । सविशेषतः विशेषेण सकलकलयेत्यर्थः, उदयाभ्युदितम् उदयाचलात् प्रकाशितं शशाङ्कं चन्द्रं दृष्ट्वा शयनं गतं तत्समुत्थेन हृतभार्यास्मरणजनितेन शोकेनोपलक्षितमत एव बाष्पोपहतचेतनमत्यश्रूद्गमहेतुकचैतन्याभाववत्त्वेन प्रतीयमानं तं हृतभार्यं रामं निद्रा न आविवेश । सार्धश्लोक एकान्वयी ॥ ४।२७।३१,३२ ॥
तमिति । शोचमानं काकुत्स्थं रामं लक्ष्मणः अनुनयं विनीतं वचो अब्रवीत् ॥ ४।२७।३३ ॥
तद्वचनाकारमाह अलमिति । व्यथां चित्तचाञ्चल्यं गत्वा प्राप्य अलं बहु शोचितुं नार्हसि । तत्र हेतुः सर्वथा अत्यन्तं शोचन्तो जनाः अवसीदन्ति इति ते विदितम् ॥ ४।२७।३४ ॥
शोकानर्हत्वे हेतुं वदन्नाह भवानिति । लोके सर्वभुवने क्रियापरः निखिलक्रियाप्रवर्तकः भवानेव देवपरायणः देवपराणां देवतृप्तिकारकाणामयनः आश्रयः भवानेव अत एव आस्तिकादिर्भवानेव । एतेन त्वत्सावधानतामात्रेण सर्वकार्यं सेत्स्यतीति सूचितम् ॥ ४।२७।३५ ॥
तदभावे दोषमाह नहीति । विक्रमे विशेषतो जिह्मकारिणं कापट्यकर्मशीलं राक्षसं तं रावणं रणे हन्तुम् अव्यवसितः व्यवसायरहितस्त्वं समर्थो न प्रतीयसे इति शेषः ॥ ४।२७।३६ ॥
समिति । शोकं समुन्मूलय संत्यज, व्यवसायमुद्यमं स्थिरीकुरु, ततो ऽन्तरं राक्षसं रावणं हन्तुमर्हसि ॥ ४।२७।३७ ॥
पृथ्वीमिति । ससागरवनाचलां पृथिवीं परिवर्तयितुं त्वं शक्तः रावणं परिवर्तयितुं शक्तश्चेत् किं वक्तव्यम् ॥ ४।२७।३८ ॥
ननु किमिदानीमेवोद्योगः कर्तव्य इत्यत आह शरदिति । अयं प्रावृट्काल आगतः प्राप्तः अतः शरत्कालं शरत्कालावयवीभूताश्विनपर्यन्तं प्रतीक्षस्व क्षमस्व ततो ऽनन्तरं सराष्ट्रं रावणानुकूलराष्ट्रसहितं रावणं वधिष्यसि ॥ ४।२७।३९ ॥
अहमिति । काले होमसमये आहुतिभिः भस्मच्छन्नमनलमिव दीप्तैस्तव वीर्यप्रकाशकैः वचनैः प्रसुप्तं शोकवशात् तिरोहितं ते वीर्यं प्रतिबोधये संस्मारयामि ॥ ४।२७।४० ॥
लक्ष्मणस्येति । राघवः लक्ष्मणस्य वाक्यं प्रतिपूज्य सुहृदं लक्ष्मणं स्निग्धं वचनमब्रवीत् ॥ ४।२७।४१ ॥
तद्वचनाकारमाह वाच्यमिति । अनुरक्तेन अनुरागयुक्तेन जनेन यत् वाच्यं तत् स्निग्धेन स्नेहयुक्तेन अत एव हितेन हिताचरणप्रवर्तकेन सत्यविक्रमयुक्तेन त्वया उक्तम् ॥ ४।२७।४२ ॥
एष इति । सर्वकार्यावसादकः सकलकार्यविघातकः एषः स्ववीर्यविस्मृतिहेतुकः शोकः परित्यक्तः अत एव विक्रमेषु अप्रतिहतं तेजः स्ववीर्यं प्रोत्साहयामि संस्मरामि ॥ ४।२७।४३ ॥
शरदिति । तव वचने अहं स्थितो ऽस्मि अतः सुग्रीवस्य नदीनां च प्रसादमानुकूल्यमनुपालयन् सन् शरत्कालमाश्विनं प्रतीक्षिष्ये ॥ ४।२७।४४ ॥
सुग्रीवो ऽवश्यं मत्कार्यं साधयितेति बोधयन्नाह उपेति । उपकारेण युक्तो वीरः प्रतिकारेण प्रत्युपकारेण युज्यत एव । तत्र हेतुः अकृतज्ञः विस्मृतोपकारः अत एव अप्रतिकृतः प्रत्युपकाररहितः जनः सत्त्ववतां महात्मनां मनः ईप्सिताज्ञां धर्मशास्त्रमित्यर्थः, हन्ति न मन्यते । एतेन शास्त्रानुसारित्वात् सुग्रीवो मदुपकृतिं न विस्मरिष्यतीति सूचितम् ॥ ४।२७।४५ ॥
तदिति । तत् रामोक्तं युक्तमेव इति प्रणिधाय निश्चित्य कृताञ्जलिः लक्ष्मणः तत् रामसंबधि भाषितं प्रतिपूज्य आत्मनः शूभं दर्शनं ज्ञानं प्रदर्शयन् रामाय बोधयन् स्वभिरामदर्शनम् अत्यानन्दकारकदर्शनविशिष्टं राममुवाच ॥ ४।२७।४६ ॥
तद्वचनाकारमाह यथेति । उक्तं सुग्रीवाय त्वया कथितं सर्वमेतत्तवेप्सितं शरत्प्रतीक्षः त्वदाज्ञया शरत्कालपर्यन्तं प्रतीक्षावान् वानरः सुग्रीवः न चिरात् शीघ्रमेव यथा यथावत्कर्ता अतः इमं जलप्रपातं वृष्टिकालं रिपुनिग्रहे धृतः दृढनिश्चयो भवान् क्षमताम् ॥ ४।२७।४७ ॥
उपसंहरन्नाह नियम्येति । कोपं राक्षसापराधस्मृतिजनितक्रोधाभासं नियम्य शरत् परिपाल्यतां गमनाय निश्चीयताम् । अत एव शत्रुवधे समर्थः सर्वकालं
सामर्थ्यविशिष्टो ऽपि त्वं संवर्तयन् स्वधर्मज्ञत्वं विस्तारयन् अस्मिन्नचले पर्वते मया सह चतुरो मासान् वस क्षमस्व वियोगदुःखं सहस्व च ॥ ४।२७।४८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥ ४।२७ ॥