रामकर्तृकसुग्रीवादिसान्त्वनमुपक्रमन्नाह– स इति । समानशोकः सुग्रीवमित्रत्वात् तादृशशोकविशिष्टः सहलक्ष्मणः लक्ष्मणसहितः स रामः साङ्गदमङ्गदसहितं सुग्रीवं तारां च सान्त्वयन् इदमब्रवीत् ॥ ४।२५।१ ॥
तद्वचनाकारमाह नेति । मृतो जनः शोकपरितापेन करणेन श्रेयसा कल्याणेन न युज्यते अतः अत्र अस्मिन् समये अनन्तरं मरणात्पश्चात् यत्कार्यं तत् समाधातुं सम्यक्कर्तुमर्हथ ॥ ४।२५।२ ॥
लोकेति । लोकवृत्तं लोकाचारः अत एव अनुष्ठेयं कर्तव्यं बाष्पमोक्षणं वो युष्माभिः कृतं कालादुत्तरं कालप्रापितमरणानन्तरकाले किंचित् कर्म मरणनिवृत्तिसंपादकक्रिया उपासितुं कर्तुं न शक्यम् ॥ ४।२५।३ ॥
कालस्य प्राबल्यमाह नियतिरित्यादिभिः । नियम्यते तत्तत्कर्मणि प्रवर्त्यते अनयेति, किंच नितरां यतिः ऐहिकभोगान्निवृत्तिः यया सा नियतिः काल एव कर्मसाधनं सकलकर्मप्रवर्तकं नियतिरेव सर्वभूतानां नियोगेषु तत्तज्जातिविषयकाग्रहेषु कारणं हेतुः अतः इह प्राकृते लोके नियतिरेव कारणं निखिलहेतुः ॥ ४।२५।४ ॥
ननु निखिलप्रवृत्तिकारणत्वेन स्वभावस्य प्रसिद्धिरित्यत आह– नेति । यो लोको जनः स्वभावे वर्तते स्वभावधीनतया तिष्ठति तस्य लोकस्य परायणं परमप्रवर्तकः कालः अत एव कस्यचित्कर्मणः कश्चित्स्वभावादिः कर्ता कालमनपेक्ष्य कारको न अत एव नियोगे जात्यादिविषयकाग्रहे ऽपि ईश्वरः समर्थो न ॥ ४।२५।५ ॥
ननु कालस्यापि कदाचिन्नाशे कः प्रवर्तक इत्यत आह नेति । कालः कालं स्वात्मानं नात्येति उल्लङ्घते असंभवात् न विघातयतीत्यर्थः, अतः कालः न परिहीयते केनचित् निवर्त्यते अतः स्वभावं समासाद्य प्राप्य किंचिदपि वस्तु न अतिवर्तते कालमुल्लङ्घते ॥ ४।२५।६ ॥
ननु तर्हि काल एव सर्वैः सेव्यः परमात्मा किमर्थं सेव्यते इत्यत आह नेति । आत्मनः स्वप्रकाशब्रह्मद्वारा सर्वत्र परिपूर्णस्य परमात्मनो वशो यः कालस्तस्य कालस्य बन्धुत्वं सेवयापि स्नेहो नास्ति अत एव हेतुः तद्वशे कारणं न अत एव पराक्रमस्तद्वशकारकबलं नास्ति अत एव मित्रज्ञातिसंबन्धः मित्रत्वज्ञात्यादिसंसर्गः कालस्य नास्ति अत एव कारणं कस्य सुखस्य अरणं प्राप्तिर्नास्ति । एतेन कालस्य जडत्वं सूचितं तेन परमात्मानमनपेक्ष्य कालमात्राश्रयणे कल्याणं न भवतीति ध्वनितं तेन परमात्मैव सेव्य इति व्यञ्जितम् ॥ ४।२५।७ ॥
तर्हि किं कालः उपेक्षणीय इत्यत आह किं त्विति । धर्मादयः कालक्रमसमाहिताः कालक्रमेणैव भवन्ति अतः साधु पश्यता सम्यग्जनता जनेन धर्मादिः कालपरीणामः परमात्माधीनकालकृतः द्रष्टव्यः ज्ञातव्यः । कालस्य परमात्मवशत्वे “यः कालकालो गुणी सर्वविद्यः” इत्यादिश्रुतिरनुग्राहिका ॥ ४।२५।८ ॥
प्रासङ्गिकमुक्त्वा प्रकृतमाह इत इति । स्वां प्रकृतिं चाञ्चल्यं तद्वशात् अधर्ममित्यर्थः, गतः प्राप्तः अतः क्रियाफलमधर्महेतुकमरणं प्राप्तो ऽपि प्लवगेश्वरो वाली इतो ऽस्मिन् समये सामदानार्थसंयोगैः साम्ना दानेन च अर्थस्तेन प्रार्थितः यः संयोगो मद्बाणसंबन्धस्तेन च पवित्रं लोकं प्राप्तः इति शेषः, सामदानप्रभावेण मद्बाणप्रहारप्रार्थना तेन च सल्लोकप्राप्तिरिति तात्पर्यम् ॥ ४।२५।९ ॥
स्वधर्मस्य बाणप्रहारप्रार्थनाहेतुत्वेन प्रशंसां कुर्वन्नाह स्वधर्मस्येति । महात्मना पुरुषेण जितः प्राप्तः स्वर्गः स्वधर्मस्य संयोगाद्धेतोस्तेन वालिना परिगृहीतः प्राप्तः अत एव प्राणा न परिरक्षिताः ॥ ४।२५।१० ॥
एषेति । यां हरियूथपो वालो गतः प्राप्तः सा एषा युद्धे प्राणापहारिका नियतिः कालः श्रेष्ठा । तत्तस्माद्धेतोः परितापेन तद्विषयकशोकेन अलं शोको न कर्तव्य इत्यर्थः, अतः प्राप्तः कालो यस्य तत् प्रमीतक्रियादि उपास्यतां क्रियताम् ॥ ४।२५।११ ॥
वचनान्त इति । रामस्य वचनान्ते उक्त्यवसाने लक्ष्मणः प्रश्रितं नम्रं वाक्यं गतचेतसं नष्टविवेकं सुग्रीवमवदत् ॥ ४।२५।१२ ॥
तद्वचनाकारमाह कुर्विति । हे सुग्रीव अनन्तरं शीघ्रमित्यर्थः, अस्य वालिनः प्रेतकार्यं ताराङ्गदाभ्यां सहितस्त्वं कुरु अत एव वालिनो दहनं प्रति दहनार्थं बहूनि शुष्कानि काष्ठानि वालिसंस्कारकारणात् दिव्यानि चन्दनानि च समाज्ञापय आनेतुं भृत्यानिति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।२५।१३,१४ ॥
समिति । यतः इदं किष्किन्धाख्यं पुरं त्वदधीनमतो बालिशबुद्धिः अविवेकचित्तस्त्वं मा भूः अत एवाङ्गदं समाश्वासय ॥ ४।२५।१५ ॥
अङ्गद इति । माल्यादीनि यदत्र समनन्तरं शीघ्रमपेक्षितं तदन्यत्तिलादि च अङ्गद आनयेत् ॥ ४।२५।१६ ॥
वालिमन्त्रिणं संबोध्याह– त्वमिति । हे तार संभ्रमात् अतिवेगात् शिबिकामादाय किष्किन्धातो गृहीत्वा शीघ्रमागच्छ हि यतः अस्मिन् काले त्वरा वेगः गुणवती अनेकगुणविशिष्टा, अतः विशेषतो युक्ता कर्तव्येत्यर्थः ॥ ४।२५।१७ ॥
सज्जीभवन्त्विति । बलिनः अतिबलवन्तः अत एव समर्था वालिवहनसामर्थ्ययुक्ताः अत एव शिबिकावाहनोचिताः शिबिकानयनयोग्याः ये प्लवगाः वालिनं निर्हरिष्यन्ति चिताभूमिं प्रापयिष्यन्ति ते सज्जीभवन्तु कृतप्रयत्नास्तिष्ठन्तु ॥ ४।२५।१८ ॥
एवमिति । लक्ष्मणः सुग्रीवमेवमुक्त्वा तस्थौ तूष्णीं बभूव ॥ ४।२५।१९ ॥
लक्ष्मणस्येति । संभ्रान्तमानसः उद्विग्नचित्तस्तारो वालिमन्त्री लक्ष्मणस्य वचः श्रुत्वा शिबिकासक्तमानसः शिबिकानयने आसक्तमनाः सन् गुहां प्रविवेश ॥ ४।२५।२० ॥
आदायेति । उद्वहनोचितैर्वानरैः उह्यमानाम् ॥ ४।२५।२१ ॥
दिव्यां देवलोकात् प्राप्तां भद्रासनयुतां कल्याणकारकासनविशिष्टामत एव शिबिकामारोहकाणां कल्याणप्रदाम् “उदीचां” इतीत्वम् । स्यन्दनोपमाम् अतिविपुलत्वेन रथसदृशीं पक्षिकर्मभिः पक्षिनिर्मापकक्रियाभिः आचित्रां समन्ताच्चित्रितां शिल्पिनिर्मितानेकविधपक्षिविशिष्टामित्यर्थः, द्रुमकर्मभिः कृत्रिमद्रुमैर्विभूषितां शिल्पिनिर्मितानेकविधद्रुमविशिष्टामित्यर्थः ॥ ४।२५।२२ ॥
चित्रपत्तीभिः । चित्रीभूतपदातिभिः आचितां व्याप्तां सुनिविष्टां शोभनप्रवेशमार्गविशिष्टां विमानमिव विमानसदृशीं जालवातायनायुताम् जालवन्निर्मितवायुमार्गविशिष्टाम् ॥ ४।२५।२३ ॥
सुनियुक्तां शोभनावयवसंनिवेशविशिष्टां विशालां विस्तीर्णस्थलां शिल्पिभिः सुकृतां शोभनप्रयत्नजनितां कृतामारोहकानां दुःखनिवर्तिकां दारुपर्वतकोपेतां दारुनिर्मितक्रिडापर्वतविशिष्टां चारुकर्मपरिष्कृतां चारु शोभनं कर्म येषां तैरनेकशिल्पिभिरित्यर्थः, परिष्कृतां सेविताम् ॥ ४।२५।२४ ॥
वराभरणहारैर्युक्तामिति शेषः, चित्रमाल्योपशोभिताम् चित्रीभूतानेकविधपुष्पयुक्ताम्, गुहागहनसंछन्नाम् शिल्पिनिर्मितगुहाकाननाभ्यां संछन्नां संयुक्ताम् ॥ ४।२५।२५ ॥
पुष्पाढ्यैः बहुपुष्पैः समभिच्छन्नाम्, तरुणादित्यवर्णाभिः अत एव भ्राजमानाभिः पद्ममालाभिः आवृताम् शिबिकामादाय स लक्ष्मणाज्ञप्तस्तारः पुनः पर्यापतत् आगच्छत् । श्लोकषट्कमेकान्वयि ॥ ४।२५।२६ ॥
ईदृशीमिति । शिबिकां दृष्ट्वा वाली क्षिप्तं विनीयतां चितां प्राप्यताम् प्रेतकार्यं विधीयतामिति रामो लक्ष्मणमब्रवीत् ॥ ४।२५।२७ ॥
तत इति । ततः रामवचनश्रवणानन्तरम् अङ्गदेन सहैव विक्रोशन् सुग्रीवः उद्यम्य यत्नेनोत्थाप्य वालिनं शिबिकामारोपयत ॥ ४।२५।२८ ॥
आरोप्येति । सुग्रीवः अलंकारादिभिर्भूषितं वालिनं शिबिकामारोप्य आज्ञापयत् । आज्ञापनप्रकारमाह आर्यस्य वालिनः और्ध्वदेहिकम् अनुकूलतो नदीकूलसमीपे शास्त्रानुसारतो वा क्रियताम् । श्लोकद्वयमेकान्वयि ॥ ४।२५।२९,३० ॥
विश्राणयन्त इति । रत्नानि विश्राणयन्तः प्रक्षेपेण ददतः प्लवगा अग्रतो यान्तु, तदनन्तरम् शिबिका यातु ॥ ४।२५।३१ ॥
राज्ञामिति । राज्ञां भुवि चिताभूमिसमीपे यादृशा ऋद्धिविशेषा दृश्यन्ते अदृश्यन्त तादृशैः ऋद्धिविशेषैः हे वानरा भर्तृसत्क्रियां समीचीनप्रमीतक्रियां भवन्तः कुर्वन्तु ॥ ४।२५।३२ ॥
तादृशमिति । तदा सुग्रीववचनश्रवणानन्तरकाले तारप्रभृतयः अङ्गदं परिरभ्य परिगृह्य तादृशं राजान्तरौर्ध्वदेहिकसदृशमौर्ध्वदेहिकं प्राकुर्वन् कर्तुमारभन्त ॥ ४।२५।३३ ॥
क्रोशन्त इति । हताः राजविघातेन निहतप्राया बान्धवा येषां ते क्रोशन्तो वानराः प्रययुः । ततो ऽनन्तरं प्रणिहिताः समीपं प्राप्ताः अस्य वालिनो वशानुगाः वानर्यः वीरवीरेतिभूयश्चुक्रुशुः । अत एव वानरा अपि भूयः क्रोशन्ति आक्रोशन् । सार्धश्लोक एकान्वयी ॥ ४।२५।३४ ॥
तारेति । करुणस्वनाः दयोत्पादकस्वनवत्यः ताराप्रभृतयो नार्यः क्रोशन्त्यः सत्यः भर्तारमनुजग्मुः । अर्धद्वयमेकान्वयि ॥ ४।२५।३५ ॥
तासामिति । वनान्तरे वनमध्ये वानरीणां रुदितशब्देन वनादीनि क्रोशन्तीव ॥ ४।२५।३६ ॥
पुलिन इति । विविक्ते जनैरसेविते जलसंवृते जलसमीपे चतुर्दिक्षु जलैराच्छादिते वा गिरिनद्याः पर्वतीयसरितः पुलिने सुबहवो वानराः चितां चक्रुः ॥ ४।२५।३७ ॥
अवेति । ततः चितासमीपप्राप्त्यनन्तरं शोकपरायणाः वानरोत्तमाः शिबिकां स्कन्धादवरोप्य उत्तार्य एकान्तमेकदेशमाश्रित्य तस्थुः ॥ ४।२५।३८ ॥
तत इति । सुदुःखिता तारा शिबिकातलशायिनं पतिं दृष्ट्वा तस्य शिरः अङ्के आरोप्य तस्याङ्के शिर आरोप्य वा विललाप ॥ ४।२५।३९ ॥
विलापप्रकारमाह हेत्यादिभिः । महार्ह हे वीरकर्तृकातिसत्कृत मां पश्य ॥ ४।२५।४० ॥
जनामिति । इमं जनं कस्मात् त्वं न पश्यासि । अर्धं पृथक् ॥ ४।२५।४१ ॥
प्रहृष्टमिति । अस्तार्कसमवर्णम् अस्तकालिकसूर्यवर्णसदृशवर्णविशिष्टं गतासोरपि ते वक्रं जीवतो वक्रमिव प्रहृष्टं दृश्यते ॥ ४।२५।४२ ॥
एष इति । येन एकेषुणा एकबाणेन सर्वा वयं विधवाः कृताः स एषः रामरूपेण काल एव त्वां कर्षति लोकान्तरं नयति ॥ ४।२५।४३ ॥
इमा इति । विकृष्टं दूरमध्वानं पादैरागताः तव वानर्यस्तव प्लवगाश्च किं न बुध्यसे जानासि । वाक्यस्य कर्मत्वान्न द्वितीया ॥ ४।२५।४४ ॥
तवेति । तवेष्टा ईप्सिता भार्याः सुग्रीवं च इदानीं कस्मात् नेक्षसे ॥ ४।२५।४५ ॥
एते इति । तारप्रभृतयः सचिवाः पुरवासिजनश्च परिवार्य त्वां संवेष्ट्य विषीदन्ति, विषीदति वचनविपरिणामेन पूर्वत्राप्यन्वयः ॥ ४।२५।४६ ॥
विसर्जयेति । हे अरिन्दम एतान् सचिवान् यथापुरं पूर्वमिव विसर्जय ततो ऽनन्तरं मदनोत्कटा उत्कटमदनवत्यो वयं वनेषु क्रीडामहे, त्वया सहेति शेषः ॥ ४।२५।४७ ॥
एवमिति । पतिशोकपरीवृताम् अत एव एवं विलपतीं विलपन्तीं तारां वानर्यः उत्थापयन्ति स्म ॥ ४।२५।४८ ॥
सुग्रीवेणेति । सो ऽङ्गदः सुग्रीवेण सार्धं रुदन् सन् पितरं चितामारोपयामास प्रापयामास, तत्र संस्थापयामासेत्यर्थः ॥ ४।२५।४९ ॥
तत इति । ततः आरोपणानन्तरम् अग्निं विधिवत् दत्त्वा संस्थाप्य दीर्घं पथिकानिवर्तकम् अध्वानं प्रस्थितं पितरं वालिनं सो ऽङ्गदः अपसव्यं चकार प्रदक्षिणेन परिक्रमणं चक्रे इत्यर्थः ॥ ४।२५।५० ॥
संस्कृत्येति । प्लवगर्षभाः वालिनं विधिवत् संस्कृत्य वह्निसंस्कारं कारयित्वा उदकं कर्तुं दातुं नदीमाजग्मुः ॥ ४।२५।५१ ॥
तत इति । ततः सहिताः संघीभूताः सुग्रीवतारासहिताः ते वानरर्षभाः वालिनः वालिने जलं सिषिचुः ॥ ४।२५।५२ ॥
सुग्रीवेणेति । सुग्रीवेण समानशोकः काकुत्स्थो रामः दीनो भूत्वा सुग्रीवेण प्रेतकार्याणि अकारयत् ॥ ४।२५।५३ ॥
तत इति । ततः प्रेतकृत्यसाधनानन्तरम् अग्र्यपौरुषम् अतिबलवन्तं प्रकाशं प्रसिद्धम् इक्ष्वाकुवरेषुणा हतं तं वालिनं प्रदीप्य विधिवत्संदह्य दीप्ताग्निसमौजसं सलक्ष्मणं रामं हरिः सुग्रीवः उपेयिवान् प्राप ॥ ४।२५।५४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥ ४।२५ ॥