सुग्रीवविलापं वर्णयितुमुपक्रमते तामिति अश्रुवेगेन अश्रूणां वेगो यस्मात् तेन अत एव दुरासदेन दुःसहेन शोकमहार्णवेन अभिप्लुतां निमग्नां तां तारां पश्यन् तरस्वी अतिवेगवान् वाल्यनुजः सुग्रीवः अप्रतिमेन असदृशेन भ्रातुर्वधेन तेपे ॥ ४।२४।१ ॥
स इति । संपरिदूयमानः अतिपरितापविशिष्टः अत एव निर्विण्णमनाः उदासीनचित्तः मनस्वी बाष्पपूर्णेन मुखेन उपलक्षितः स सुग्रीवः क्षणेन पश्यन् विचारयन् सन् भृत्यैर्वृतश्च सन् शनैः रामस्य समीपं जगाम ॥ ४।२४।२ ॥
स इति । गृहीतचापमाशीविषतुल्यबाणमाशीविषसदृशबाणविशिष्टमुदात्तं शीलधैर्यादिना अतिमहान्तं लक्ष्मणेन लक्षितमङ्गं यस्य तमवस्थितं राघवं समासाद्य प्राप्य इत्युवाच । “लक्षणलक्षिताङ्गम्” इत्यपि पाठः, तत्र लक्षणैः सामुद्रिकोक्तमहाराजचिह्नैर्लक्षितमङ्गं यस्येत्यर्थो बोध्यः ॥ ४।२४।३ ॥
तद्वचनाकारमाह यथेति । दृष्टफलं प्रत्यक्षराज्यप्राप्तिफलकं कर्म वालिवधः यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य कृतम् । ननु तर्हि राज्यं प्राप्नुहीत्यत आह हे नरेन्द्रसूनो हतजीवितेन भ्रातृवधहेतुकनिहतप्रायजीवनेन हेतुना भोगेषु राज्यसुखानुभवेषु प्रसक्तं मनो ऽभिलाषो निवृत्तम् ॥ ४।२४।४ ॥
तदेव भङ्गयन्तरेणाह अस्यामिति । नृपे वालिनि हते सति अत एव महिष्यमास्यां तारायां भृशं रुदन्त्यां सत्याम् अत एव पुरं तन्निवासिजने अतिविक्रोशति रुदति सति अत एव दुःखतप्ते अङ्गदे संशयिते जीवनादिविषयकसंशयं प्राप्ते सति राज्ये मे मनो न रमते ॥ ४।२४।५ ॥
क्रोधादिति । अमर्षात् दुःसहात् अतिविप्रधर्षात् भ्रातृकर्तृकातिपराभवात् जातात् क्रोधात् पुरस्तात् पूर्वं भ्रातुर्वधः मे अनुमतः संमतः इदानीं तु हरियूथपे हते सति सुतीक्ष्णमत्यन्तं प्रतप्स्ये प्रतपामि ॥ ४।२४।६ ॥
श्रेय इति । शैलमुख्ये ऋष्यमूके यथा तथा येन केनाप्युपायेन स्ववृत्त्या फलादिभक्षणेन वर्तयतो मम चिरं वास एव श्रेयो मन्ये इमं वालिनं निहत्य तु त्रिदिवस्य यो लाभस्तमपि श्रेयो न मन्ये पूर्वत्र वाक्यार्थस्य कर्मतया ऽन्वयान्न द्वितीया ॥ ४।२४।७ ॥
नेति । मतिमान् प्रशस्तमतिविशिष्टः महात्मा अयं वाली त्वामहं न जिघांसामि हन्तुमिच्छामि अतः चर इतो ऽपसर इति मां यदुवाच तद्वचस्तस्य वालिन एवानुरूपं योग्यमिदं बन्धुप्राणवियोगजनकप्रार्थनारूपं वचः कर्मयुद्धाद्याचरणं च मे एवानुरूपम् । एव उभयान्वयि । एतेन स्वस्यातितुच्छत्वं ध्वनितम् ॥ ४।२४।८ ॥
भ्रातेति । कामपुरस्कृतः उत्कटेच्छावानपि भ्राता राज्यस्य भ्रातृवधजनितराज्यसुखस्य दुःखस्य भ्रातृवधानन्तरजायमानक्लेशस्य च सारं प्राबल्यं विचिन्तयन्सन् महागुणस्य भ्रातुर्वधं कतं विरोचयेत । एतेनैवं लब्धराज्यस्य दुःखप्रदत्वं ध्वनितम् ॥ ४।२४।९ ॥
भ्रातुर्महत्त्वं प्रकटयन्नाह वध इति । स्वमाहात्म्यव्यतिक्रमात् आत्ममहत्ववैपरीत्यभयात् मे वधः मन्निष्ठप्राणवियोगः मतः वालिसंमतिविषयीभूतो नासीत् । मम बुद्धिदौरात्म्यात् बुद्धेर्दुष्टत्वात् प्राणहारी बन्धुप्राणविघातकः मम व्यतिक्रमः मत्कर्तृकमर्यादातिक्रमणमासीत् ॥ ४।२४।१० ॥
द्रुमेति । द्रुमशाखावभग्नः वालिना द्रुमशाखया निहतः अत एव मुहूर्तं परिनिष्ठनन् त्वदाह्वानार्थं दीनशब्दं कुर्वन्नहम् अनेन वालिना सान्त्वयित्वा त्वां न हनिष्यामीत्याद्युक्त्वा पुनः कर्तुं मया सह युद्धमिति शेषः, त्वं नार्हसीत्युक्तः । तुशब्द इत्यर्थे ॥ ४।२४।११ ॥
भ्रातृत्वमिति । अनेन वालिना भ्रातृत्वादिः रक्षितः मया तु क्रोधादि प्रदर्शितं रक्षितम् । तत्र कपित्वं चाञ्चल्यम् ॥ ४।२४।१२ ॥
अचिन्तनीयमिति । वयस्य हे सखे त्वाष्ट्रवधात् वृत्रासुरहननात् इन्द्र इव भ्रातुर्वधात् अचिन्तनीयं चिन्तयितुमप्ययोग्यमत एव परिवर्जनीयं निवर्तयितव्यम् अत एव अनीप्सनीयम् अवाञ्छितव्यम् अत एव स्वनवेक्षणीयं विचारायोग्यमिमं पाप्मानं पापं प्राप्तो ऽस्मि ॥ ४।२४।१३ ॥
ननु कृतपापो ऽपीन्द्रः शुद्ध एवेत्यत आह– पाप्मानमिति । इन्द्रस्य पाप्मानं पापं मह्यादयः जगृहुः शाखामृगस्य मम तु इमं भ्रातृवधजनितं प्राप्मानं पापं प्रतिपत्तुं प्राप्तुं क इच्छेत्, न को ऽपीत्यर्थः ॥ ४।२४।१४ ॥
ननु राज्यप्राप्त्यनन्तरं यागादिना शुद्धिर्भवितेत्यत आह नेति । हे राघव अधर्मयुक्तम् अत एव कुलनाशयुक्तं कुलविध्वंसकारकम् एवंविधं भ्रातृविनाशनं कर्म कृत्वा प्रजानां संमानं प्रजाकर्तृकसत्कारं नार्हामि अत एव यौवराज्यं नार्हामि राज्यं नार्हामि राज्यं कुतः, राज्यप्राप्तेर्न संभावनेत्यर्थः ॥ ४।२४।१५ ॥
पापस्येति । लोके सर्वभूवने गर्हितस्य निन्दितस्य अत एव क्षुद्रस्य नीचजनयोग्यस्य लोकापकृतस्य राजापकृतिद्वारा सर्वजनापकारस्य कर्ता ऽस्मि अत एव वृष्टेरम्बुवेगः निम्नमधोदेशमिव अयं महान् शोकः मामभिवर्तते मयि तिष्ठति ॥ ४।२४।१६ ॥
सोदर्येति । सोदर्यघातः समानोदर्यविध्यंसः स एव अपरगात्रवालः पुच्छकेशः यस्य सः, संतापाः अनेकविधखेदाः हस्ताक्षिशिरोविषाणानि यस्य सः, एनोमयः पापरूपः प्रवृद्धो दृप्तो हस्ती नदीकूलमिव गामभिहन्ति ॥ ४।२४।१७ ॥
अंह इति । हे नृवर अविषह्यं दुःसहम् इदं भ्रातृवधजनितमंहः पापं मे हृदि विद्यमानं साधुवृत्तं साध्वाचरणं निवर्तते निवर्तयति । तत्र दृष्टान्तः अग्नौ परितप्यमानं विवर्णं मलिनं जातरूतं सुवर्णं किट्टं स्वमलं यथा ॥ ४।२४।१८ ॥
महाबलानामिति । महाबलानामतिबलवतां हरियूथपानां वानराधिपानामिदं कुलं मन्निमित्तं मदभिन्ननिमित्तात् अङ्गदस्यातीवशोकसंतापात् हेतोः अर्धस्थितप्राणं मन्ये । यद्वा मन्निमित्तमहं निमित्तं यस्मिन् वालिवधजनितदुःखे तत् प्राप्य अतीव अत्यन्तम् अङ्गदस्य शोकतापात् शोकतापं विज्ञाय विद्यमानमिदं कुलम् अर्धस्थिताः प्राणा यस्मिन् तत् अहं मन्ये ॥ ४।२४।१९ ॥
नन्वङ्गदादेरतिशोकवत्त्वे सुतान्तराण्युत्पाद्य सुजनान्वशीकृत्य भोगात् भुङ्क्ष्वेत्यत आह सुत इति । सुतः पुत्रान्तरः सुलभ्यः सुजनः सुवश्यः एतत् द्वयं न दुर्लभमित्यर्थः, अङ्गदेन सदृशः पुत्रस्तु कुतो लभ्यः न लभ्य इत्यर्थः, सोदरसंनिकर्षः वालिसामीप्यं यस्मिन्देशे भवेत् स देशो ऽपि न विद्येत । एतेन भ्रात्राद्यभावसत्त्वे राज्यभोगादि दुःखभोग एवेति सूचितम् ॥ ४।२४।२० ॥
अद्येति । अद्य एतादृशपितृवियोगसमये वीरवरो ऽङ्गदो न जीवेत् यदि जीवेत् तदा माता तारा परिपालनार्थं स्वसुतरक्षार्थं जीवेत् । पुत्रं विना तु परितापदीना अतिखेदेन क्षीणा सा तारा नैव जीवेदिति मे निश्चितम् । जीवेदित्युभयान्वयि । यदीत्यध्याहृतम् ॥ ४।२४।२१ ॥
स इति । सः भ्रात्रादिवियुक्तो ऽहं भ्रात्रादिना सख्यमिच्छन् सन् अतिदीप्तमग्निं प्रवेक्ष्यामि । ननु मत्कार्यसिद्धिः कथं भवितेत्यत आह निदेशे मदाज्ञायां परिवर्तमाना इमे हनुमत्प्रभृतयो हरिप्रवीराः सीतां विचेष्यन्ति मार्गयिष्यन्ति ॥ ४।२४।२२ ॥
कृत्स्नमिति । तु यतो मयि अतीते मृते ऽपि ते कृत्स्नं कार्यं सेत्स्यति अतः कुलस्य हन्तारम् अत एव कृतागसम् अत एव अजीवनार्हं मामनुजानीहि अग्निं प्रवेष्टुमाज्ञापय ॥ ४।२४।२३ ॥
इत्येवमिति । एवमार्तस्य दुःखितस्य वालिजघन्यजस्य वाल्यनुजस्य इति वचः श्रुत्वा संजातबाष्पो रामो मुहूर्तं विमना बभूव ॥ ४।२४।२४ ॥
तस्मिन्निति । क्षितिक्षमावान् पृथ्वीक्षमासदृशक्षमाविशिष्टः समुत्सुकस्तारावलोकनेच्छुः रामः अभीक्ष्णमवेक्षमाणः सन् व्यसने दुःखसागरे निमग्नां तारां ददर्श ॥ ४।२४।२५ ॥
तामिति । कपिसिंहो वाली नाथो यस्यास्ताम् अदीनसत्त्वां न दीनाः सत्त्वाः सत्तावन्तो यस्यास्तामतिदीनामित्यर्थः कपिराजपत्नीं तां तारां मन्त्रिप्रधानाः उत्थापयामासुः ॥ ४।२४।२६ ॥
सेति । परिरभ्यमाणा परिरभमाणा भर्तारमालिङ्गयन्ती अत एव विस्फुरन्ती भर्तुः समीपादपनीयमाना सा तारा शरचापपाणिं रामं ददर्श । अविस्फुरन्तीति छेदो वा ॥ ४।२४।२७ ॥
सुसंवृतमिति । पार्थिवलक्षणैः राजोचितचिह्नैः सुसंवृतं संयुक्तमत एव चारुनेत्रमदृष्टपूर्वं पूर्वं न दृष्टः इत्यदृष्टपूर्वः “सह सुपा” इति समासः । किंच न दृष्टं दर्शनं पूर्वं यस्य तं, किंच न दृष्टः पौर्वकालिकदर्शनकर्मीभूतभिन्नः स एव पूर्वः सर्वेषामादिस्तं पुरुषप्रधानं तं रामं मृगशावस्य मृगबालस्य नेत्रे इव नेत्रे यस्याः सा तारा अयं सः सुग्रीवमित्रीभूतः काकुत्स्थः ककुत्स्थवंशोद्भवः इति प्रजज्ञे बुबुधे ॥ ४।२४।२८ ॥
तस्येति । इन्द्रकल्पस्य इन्द्रादिनिर्माणे समर्थस्य अत एव दुरासदस्य पराभावयितुमशक्यस्य तस्य रामस्य समीपमार्ता अतिदुःखिता अत एव व्यसनम् उरआद्यङ्गताडनाय हस्तादिप्रक्षेपं प्रपन्ना प्राप्ता अत एव परिविह्वलन्ती क्वचित् क्वचित् स्खनन्ती तारा अतितूणं जगाम ॥ ४।२४।२९ ॥
तमिति । विशुद्धसत्त्वं प्राकृतविलक्षणसत्त्वविशिष्टं रणोत्कर्षणलब्धलक्ष्यं रणे यदुत्कर्षणमाश्चर्योत्कर्षस्तेन लब्धं लक्ष्यं देवादिकर्तृकदर्शनकर्मता येन तं रामं शोकेन संभ्रान्तः वैपरीत्यं प्राप्तः शरीरभावः देहधर्मो यस्याः सा मनस्विनी सा प्रसिद्धा तारा उवाच ॥ ४।२४।३० ॥
तद्वचनाकारमाहत्वमिति । अप्रमेयः अनियतप्रभावः अत एव दुरासदः पराभावयितुमशक्यः अत एव जितेन्द्रियः नित्यं वशीकृतसकलकरणः अत एव उत्तमधर्मकः उत्तमः सर्वकालमधर्मसंसर्गशून्यत्वेन अतिश्रेष्ठः धर्मो यस्मिन् सः अत एव क्षितिक्षमावान् अत एव न क्षीणा कस्मिंश्चित्समये निवृत्ता कीर्तिर्यस्य सः अत एव विचक्षणः सर्वविलक्षणः क्षतजोपमाक्षः अरुणनयनस्त्वमसीति शेषः ॥ ४।२४।३१ ॥
त्वमिति । आत्तं गृहीतं बाणासनं धनुर्येन बाणः पाणौ यस्य स एव स इति कर्मधारयः । संहननोपपन्नः संहननेन दृढगात्रत्वेन उपपन्नः युक्तः मनुष्यदेहानाम् अभ्युदयो ऽतिमङ्गलं यस्मात् तत्स्वराज्यं विहाय दित्र्येन प्राकृतविलक्षणेन देहाभ्युदयेन स्वशरीरजनितमङ्गलकर्मणा युक्तो महाबलस्त्वं येन बाणेन इ अन्यविस्मयेन मे प्रियस्त्वया हतस्तेनैव बाणेन मां हि निश्चयेन जहि । ननु तेनैव बाणेन हिंसिता अहम् अस्य वालिनः समीपं गमिष्यामि । तत्प्रयोजनमाह हे वीर मां विना वाली न रमेत । मनुष्यदेहाभ्युदयं मनुष्यदेहोचितसुखं विहाय दिव्येन देहाभ्युदयेन देहसुखेन युक्त इति वालिविशेषणमिति भट्टाः ॥ ४।२४।३२,३३ ॥
ननु दिव्यलोके अनेकविधवरस्त्रीणां विद्यमानत्वात् तत्र तव का ऽपेक्षेत्यत आह स्वर्ग इति । हे पद्मामलपत्रनेत्र एष वाली स्वर्गे ऽपि समेत्य संप्राप्य संप्रेक्ष्य मदुद्देशेन
चतुर्दिक्ष्ववलोक्य च मामपश्यन् सन् उच्चावचाभिस्ताम्रचूडाभिः
अरुणपुष्पादिकृतारुणकेशवेशैः विचित्राणि वेषाः यासां ता एव अप्सरसः न अभजिष्यत् अभक्ष्यत् सेविष्यते ॥ ४।२४।३४ ॥
स्वर्ग इति । हे वीर रम्ये मनोरमे नगेन्द्रस्य उत्तमपर्वतस्य तटावकाशे विस्तीर्णतटे विदेहकन्यारहितस्त्वं यथा शोकं विवर्णतां च प्राप्नोषि तथा स्वर्गे ऽपि मया विना वाली शोकादि प्राप्स्यति ॥ ४।२४।३५ ॥
त्वमिति । वनिताविहीनः पुरुषः यावत् यत्परिमितं दुःखं प्राप्नोति तावत् दुःखं कुमारः नित्यं कुमारत्वेन प्रतीयमानस्त्वं वेत्थ अतः तत्त्वं याथार्थ्यं जानन् त्वं मां जहि । तत्र हेतुः वाली ममादर्शनजं दुःखं न भजेत प्राप्नुयात् ॥ ४।२४।३६ ॥
यदिति । महात्मा भवान् स्त्रीघातदोषो मह्यं भवेत् तव वधे इति शेषः, यत् यदि मन्येत तदा इयमस्य वालिनः आत्मा इति बुद्ध्या मां जहि अतः स्त्रीवधो न स्यात् । तेन तद्दोषस्याशङ्का न कर्तव्येति सूचितम् ॥ ४।२४।३७ ॥
ननु कथं त्वं तस्यात्मेत्यत आह शास्त्रेति । विविधात् अनेकानुपूर्वीविशिष्टात् वेदात् “अर्धो वा एष आत्मनो यत् पत्नी” इत्यादिरूपात् हेतोर्दाराः पुरुषस्य अनन्यरूपाः अभिन्नस्वरूपाः अतः ज्ञानवतां लोके विचारे दारप्रदानात् अन्यत् श्रेष्ठं दानं न दृश्यते दारप्रदानमेव वरं दानमित्यर्थः । एतेन रामबाणेन वधे पतिलोकमहं प्राप्स्यामीति तस्या निश्चयो ध्वनितः ॥ ४।२४।३८ ॥
ननु पुण्यसत्त्वे ऽपि अवध्यवधदोषस्तु दुरुद्धर एवेत्यत आह त्वमिति । हे वीर मम प्रियस्य तस्य वालिनो यदि धर्ममवेक्ष्य मां प्रदास्यसे तर्हि अनेन दानेन मम घातात् जनितमधर्मयोगं त्वं न लप्स्यसे ॥ ४।२४।३९ ॥
आर्तामिति । अनाथां पतिरहितामत एव अपनीयमानां पत्यालिङ्गनात् बहिष्कृतामत एव आर्तामतिदुःखिताम् अत एव एवंप्रकारेण गतां स्ववधाय त्वां प्राप्तां माम् अ हन्तुं नार्हसि । अर्धं पृथक् । ननु पुत्रलालनादिसुखं संत्यज्य स्वविघातं कथं प्रार्थयसीत्यत आह अहमिति । वरार्ह हे सकलश्रेष्ठपूज्य मातङ्गविलासगामिना मत्तगजगमनसदृशगमनशीलेन प्लवङ्गमानां वानराणामृषभेण स्वामिना उत्तमहेममालिना इन्द्रदत्तत्वेनोत्तमा या हेममाला तद्युक्तेन वालिना विना चिरं जीवितुमहं न शक्ष्यामि । विभुः स्वप्रकाशब्रह्मद्वारा सर्वत्र पूर्णः महात्मा रामस्तारां समाश्वास्य हितं बभाषे । सार्धश्लोक एकान्वयी ॥ ४।२४।४०,४१ ॥
तद्वचनाकारमाह मेति । हे वीरभार्ये विमतिं मरणविषयकविरुद्धबुद्धिं मा कुरुष्व हि यतः सर्वो लोकः प्राकृतजनः विधात्रा विहितः सृष्टः तं विधात्रा कृतं लोकं सुखदुःखयोगं नित्यं सुखदुःखाभ्यां संयुक्तं लोको वेदो ऽब्रवीत् । तेन वेदोक्तेन हेतुना कृतं ब्रह्मणा ऽपि तथैव निर्मितम् । लोकशब्दस्य वेदपरत्वं लोक्यते ब्रह्मणा ऽपि ज्ञायते ऽनेनेति व्युत्पत्तेः ॥ ४।२४।४२ ॥
त्रय इति । त्रयः त्रिविधलोकवासिनः लोकाः जनाः तस्य विधातुर्वशगाः अत एव विहितं विधात्रा नियुक्तं विधानं कर्मफलं नातिक्रमन्ते त्यक्तुं शक्नुवन्ति । एतेन विधातृविहितस्याशक्यवारणत्वात् शोको न कर्तव्य इति सूचितम् । ननु मम निर्वाहः कथं भविष्यतीत्यत आह ते पुत्रः यौवराज्यं प्राप्स्यति अतस्तथा पौर्वकालिकीमिव तां प्रसिद्धपरां प्रीतिं मुदं प्राप्स्यसि ॥ ४।२४।४३ ॥
धात्रेति । धात्रा यथा विहितं नियुक्तं तथैव विधानं मत्कर्तृकानुष्ठानमवेहीति शेषः, तेन मयि रिपुबुद्धिर्न्न कर्तव्येति सूचितम् । विलापस्यायुक्तत्वमाह शूरपत्न्यः न परिदेवयन्ति विलपन्ति । अर्धं पृथक् आश्वासितेति । ध्वनता विलापशब्दवता मुखेनोपलक्षिता अत एव महात्मना रामेण आश्वासिता सुवेषरूपा शोभनवेषरूपाभ्यां युक्ता तारा विरराम विलापात् निववृते । अर्धद्वयमेकान्वयि ॥ ४।२४।४४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ ४।२४ ॥