०२३ ताराशोकः

ताराया एव विलापान्तरमुपक्रमते तत इति । ततः भर्तृपरिरम्भणकाले कपिराजस्य वालिनस्तन्मुखमुपजिघ्रन्ती लोकविश्रुता तारा मृतं पतिमब्रवीत् ॥ ४।२३।१ ॥

तद्वचनाकारमाह शेषे इति । उपलोपचिते पाषाणैर्व्याप्ते अत एव विषमे अत एव सुदुःखे वसुधातले मम वचनमकृत्वा दुःखं यथा भवति तथा शेषे ॥ ४।२३।२ ॥

मत्त इति । मही मत्तस्तव प्रियतरा हि यतस्तां महीं परिष्वज्य शेषे मां च न प्रतिभाषसे प्रतिवदसि ॥ ४।२३।३ ॥

सुग्रीवस्येति । हे साहसिकप्रिय यः सुग्रीवः विक्रान्तस्त्वया बहुवारं पराभूतस्तस्य सुग्रीवस्य वशं त्वं प्राप्तः अतः एषः वशप्रापकरामरूपः विधिः अहो आश्चर्यं भवति ॥ ४।२३।४ ॥

ऋक्षेति । ये ऋक्ष्यवानरमुख्याः बलिनं त्वां पर्युपासते तेषां कृछ्रं विलपितं शोचतो ऽङ्गदस्य मम च गिरः श्रुत्वा किं किमर्थं न प्रतिबुध्यसे जागर्षि । सार्धः श्लोक एकान्वयी ॥ ४।२३।५ ॥

इदमिति । यत्र युधि रिपवः शायितास्तत्र युधि इदं तद्वीरशयनं रिपुशायनकर्तृवीरसंबन्धिशय्या तत्र शेषे, त्वमिति शेषः । अर्धद्वयमेकान्वयि ॥ ४।२३।६ ॥

विशुद्धेति । विशुद्धानि कापट्यसंसर्गरहितानि बलानि येषां ते अभिजनाः पार्श्ववर्तिनो यस्य, किं च विशुद्धं सत्त्वं स्थितिर्यस्मिन् तस्मिन् कुले अभिजनः अभिजातः तत्संबोधनं, एकां साहाय्यरहिताम् अनाथाम् अन्यस्मात्स्वकल्याणमनिछन्तीं मां विहाय त्वं गतो ऽसि ॥ ४।२३।७ ॥

शूरायेति । विपश्चिता जानता जनेन शूराय कन्या न प्रदातव्या । ननु किमर्थमिदमुच्यते इत्यत आह शूरभार्यां मां विधवां कृतां वैधव्यं प्राप्तामत एव हतां पश्य ॥ ४।२३।८ ॥

अवेति । मे मानः स्वपतिकर्तृकसत्कारः अवभग्नः अत एव शाश्वती सार्वकालिकी मे मम गतिः सुखप्राप्तिः भग्ना अत एव शोकसागरे निमग्ना ऽस्मि ॥ ४।२३।९ ॥

अश्मेति । यन्मे हृदयं भर्तारं निहतं दृष्ट्वा शतधा कृतं छिन्नं तत् हृदयमश्मसारमयं दृढपाषाणविकारः अत एव दृढं नूनं निश्चितमेतत् ॥ ४।२३।१० ॥

सुहृदिति । यो मम भर्ता प्रकृत्या स्वभावेनैव सुहृत् कापट्यरहितः प्रहारे पराक्रान्तः परः शत्रुः क्रान्तः पराभूतो येन स शूरः पञ्चत्वं मरणमागतः प्राप्तः ॥ ४।२३।११ ॥

ननु तव पुत्रस्य सत्त्वात् किमर्थं शोचसीत्यत आह पतीति । कामं पुत्रिणी पुत्रसहिता धनधान्यसमृद्धापि या नारी भवेत् पतिहीना सा ऽपि बुधैर्विधवेत्युच्यते ॥ ४।२३।१२ ॥

स्वगात्रेति । हे वीर कृमिरागपरिस्तोमे कृमिरागस्य लाक्षारसरक्तवस्त्रस्य स्तोमः आस्तरणं यस्मिन् तस्मिन् स्वकीये शयने इव स्वगात्रप्रभवे रुधिरमण्डले शेषे । किं च कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स परिस्तोमो यस्य तस्मिन्नित्यर्थः ॥ ४।२३।१३ ॥

रेण्विति । समन्ततः रेणुशोणितसंवीतं रेणुशोणिताभ्यां व्याप्तं तव गात्रं परिरब्धुमालिङ्गितुं न शक्नोमि ॥ ४।२३।१४ ॥

कृतेति । रामविमुक्तेन एकेषुणा यस्य भयं हृतं स सुग्रीवः अस्मिन्नतिदारुणे वैरे कृतकृत्यः सिद्धकार्यः अस्तीति शेषः ॥ ४।२३।१५ ॥

शरेणेति । त्वयि पञ्चत्वमागते प्राप्ते सति तव हृदि लग्नेन शरेण तव गात्रसंस्पर्शने विद्यमाना त्वां निरीक्षन्ती अहं वार्यामि वार्ये ॥ ४।२३।१६ ॥

ताराविलापमुक्त्वा वृत्तान्तमाह उदिति । गिरिगह्वरसंलीनं दुर्गमगिरिसंसक्तम् आशीविषमिव तस्य वालिनो गात्रगतं शरं नील उद्बबर्ह बहिश्चकार ॥ ४।२३।१७ ॥

अस्तेति । अस्तमस्तकसंरुद्धः अस्ताचलशिखरनिरुद्धो दिनकरादुच्छ्वसन् रश्मिः किरण इव निष्कृष्यमाणस्य तस्य वारणस्य द्युतिर्बभौ अधिकं शुशुभे ॥ ४।२३।१८ ॥

पेतुरिति । धराधरात् पर्वतात् ताम्रगैरिकसंपृक्ताः अरुणगैरिकसंलग्ना धारा इव तस्य वालिनः सर्वशो व्रणेभ्यः क्षतजधाराः पेतुः ॥ ४।२३।१९ ॥

अवकीर्णमिति । रणरेणुना अवकीर्णम् अस्रसमाहतमश्रुव्याप्तं शूरं भर्तारं विमार्जन्ती तारा अस्रैः अश्रुभिः सिषेच ॥ ४।२३।२० ॥

रुधिरेति । रुधिरोक्षितसर्वाङ्गं क्षतजसिक्तशरीरं विनिहतं प्राणैर्वियुक्तं पतिं दृष्ट्वा अङ्गना वालिस्त्री तारा पिङ्गाक्षमङ्गदं पुत्रमुवाच ॥ ४।२३।२१ ॥

तद्वचनाकारमाह अवस्थामिति । हे पुत्र पापकर्मणा पूर्वोपार्जितपापक्रियासंप्रसक्तस्य वैरस्य अन्तो ऽवसानं गतः प्राप्तः । तत्र हेतुं वदन्नाह पितुः सुदारुणाम् अतिभयावहां पश्चिमाम् अन्तावस्थां पश्य ॥ ४।२३।२२ ॥

बालेति । बालसूर्योज्वलतनुं बालसूर्यवत्स्वच्छशरीरं यमसादनं कालागम्यलोकमित्यर्थः, प्रयातं मानदं पितरमभिवादय ॥ ४।२३।२३ ॥

एवमिति । एवमुक्तो ऽङ्गदः पीनवृत्ताभ्यां भुजाभ्यां पितुश्चरणौ जग्राह ॥ ४।२३।२४ ॥

अभिवादयमानमङ्गदमवलोक्य पतिं प्रत्याह– अभीति । त्वामभिवादयमानमङ्गदं “दीर्घायुर्भव पुत्र” इति यथा पुरा पूर्वमिव किमर्थं नाभिभाषसे ॥ ४।२३।२५ ॥

अहमिति । सिंहेन सद्यः पातितं गावृषं सवत्सा गौरिव पुत्रसहाया पुत्रसहिता ऽहं त्वामुपासे ॥ ४।२३।२६ ॥

इष्ट्वेति । संग्रामयज्ञेन संग्रामरूपयागेन इष्ट्वा देवान् सत्कृत्य रामप्रहरणाम्भसा रामप्रहरणरूपजलेन तस्मिन् प्रसिद्धे अवभृथे संग्रामरूपयज्ञान्तस्नाने पत्न्या मया विना त्वं कथं स्नातः ॥ ४।२३।२७ ॥

येति । तव संयुगे संग्रामे संतुष्टेन देवराजेन इन्द्रेण या माला दत्ता तां शातकौम्भीं स्वर्णमयीं मालामिह अस्मिन् समये किं कथं न पश्यामि, सुग्रीवाय किमर्थं दत्तेत्यर्थः ॥ ४।२३।२८ ॥

राज्येति । आवर्तमानस्य परिभ्रमतः सूर्यस्य प्रभा शैलराजं सुमेरुमिव गतासुमपि त्वां राज्यश्रीर्न जहाति ॥ ४।२३।२९ ॥

नेति । पथ्यं हितम् इदं राममित्रीभूतसुग्रीवेण सह युद्धप्रवृत्तिनिवारणरूपं मे वचस्त्वया न कृतम् अत एव निवारणे अशक्ता अभवमिति शेषः, अत एव संयुगे हतेन त्वया सपुत्रा ऽहं हता ऽस्मि अत एव श्रीः त्वया सह विद्यमानां मामपिना पुत्रं जहाति त्यजति ॥ ४।२३।३० ॥

श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ ४।२३ ॥