वाल्युक्तिमुपक्रमते वीक्षमाण इति । मन्दासुः शिथिलप्राणः अत एव मन्दमुच्छ्वसन् सर्वतो वीक्षमाणः अवलोकयन् वाली आदौ प्रथममग्रतः स्थितं सुग्रीवं ददर्श । तत्काले वालिप्राणसत्त्वे ऽपि संस्कार्यो हरिराजो ऽयमिति हनुमदुक्तिर्न विरुध्यते प्राणहारकरामबाणविद्धत्वेन मरणनिश्चयात् ॥ ४।२२।१ ॥
तमिति । प्लवगेश्वरो वाली प्राप्तविजयं सुग्रीवं व्यक्तया वाचा आभाष्य संबोध्य सस्नेहमिदमब्रवीत् ॥ ४।२२।२ ॥
तद्वचनाकारमाह सुग्रीवेति । हे सुग्रीव किल्बिषात् मत्कर्तृकस्वविषयकदोषाचरणं संस्मृत्य दोषेण विशिष्टं मां गन्तुं बोद्धुं नार्हसि । तत्र हेतुः भविष्येण भविष्यता बुद्धिमोहेन बुद्धेर्मोहकेन तव प्रारब्धभोगेनेत्यर्थः, बलात् कृष्यमाणं स्ववशे प्राप्यमाणं मां गन्तुमर्हसि । एतेनायं मद्विरोधीति बुद्धिं त्यजेति सूचितम् ॥ ४।२२।३ ॥
तदेव भङ्ग्यन्तरेणाह– युगपदिति । हे तात यस्मात् आवयोः सुखं युगपत् एककालावच्छेदेन न विहितं ब्रह्मणा लिखितं तत्तस्माद्धेतोः भ्रातृयुक्तं भ्रात्रोः उचितम् इदं लोके प्रसिद्धं सौहार्दमन्यथा जातमित्यहं मन्ये ॥ ४।२२।४ ॥
प्रतिपद्येति । वैवस्वतक्षयं कालरहितस्थानमित्यर्थः, अद्यैव गच्छन्तं मां विद्धि जानीहि अतः वनौकसां राज्यमद्यैव प्रतिपद्यस्व प्रतिपद्य प्राप्नुहि । न च राजपुत्रसत्त्वे भ्रातुः राज्यानौचित्यात् कथमेवमुक्तमिति वाच्यं, बिलप्रविष्टवालिमरणनिश्चये तदानीं वालिपुत्रस्याभावात् सुग्रीवस्य प्राप्तराज्यत्वेन नवीनराज्यत्वाभावेनादोषात् ॥ ४।२२।५ ॥
जीवितमिति । एषो ऽहं जीवितादिकमगर्हितमनिन्दितं प्रशस्तमित्यर्थः, यशश्च प्रजहामि त्यजामि ॥ ४।२२।६ ॥
अस्यामिति । हे वीर हे राजन् अस्यामासन्नमरणायामवस्थायाम् असुकरमपि यद्वचः यदि वक्ष्यामि तदा तत् कर्तुं त्वमर्हसि ॥ ४।२२।७ ॥
सुखार्हमिति । सुखार्हं सुखयोग्यमत एव सुखसंवृद्धमबालिशं सुबुद्धिमित्यर्थः, बाष्पपूर्णमुखं भूमौ पतितमङ्गदं बालं पश्य ॥ ४।२२।८ ॥
दर्शनप्रयोजनमाह ममेति । प्राणैः प्राणेभ्यः प्रियतरं मया हीनं मम औरसं पुत्रं स्वस्यौरसं पुत्रमिव अहीनार्थं यथा भवति तथा सर्वतः सर्वप्रकारेण परिपालय ॥ ४।२२।९ ॥
परिपालनप्रकारं वदन्नाह त्वमिति । अहमिव त्वमपि अस्य अङ्गदस्य पित्रादिर्भवेति शेषः ॥ ४।२२।१० ॥
तत्परिपालने तवापि प्रयोजनं भवितेति बोधयन्नाह एष इति । त्वया तुल्यपराक्रमः एष तारात्मजस्तेषां त्वदीप्सितवधानां रक्षसां वधे ते अग्रतो ऽग्रे भविष्यति भविता ॥ ४।२२।११ ॥
तदेव भङ्ग्यन्तरेणाह अनुरूपाणीति । तरुणः बलवान् तारेयः एषः अङ्गदः रणे विक्रम्य प्राप्य अनुरूपाणि मत्सदृशानि कर्माणि करिष्यति ॥ ४।२२।१२ ॥
सुषेणेति । सुषेणदुहिता इयं तारा विविधे अनेकप्रकारके औत्पातिके उत्पातकालोचिते अर्थसूक्ष्मविनिश्चये दुर्ज्ञेयार्थबोधने सर्वतः सर्वप्रकारेण हि यतः परिनिष्ठिता अतिनिपुणा ऽस्तीति शेषः, अतः, किंचित्तारामतमन्यथा न परिवर्तते भवति अतः एषा तारा यत्कर्तव्यं साधु ब्रुयात् तत् मुक्तसंशयं यथा भवति तथा कार्यम् । श्लोकद्वयमेकान्वयि । एतेन तारा ऽवश्यं रक्षणीयेति सूचितम् ॥ ४।२२।१३,१४ ॥
राघवस्येति । राघवस्य कार्यं ते त्वया अविशङ्कया संदेहराहित्येन कर्तव्यं हि यतः अकरणे अधर्मः मिथ्याप्रतिज्ञत्वादिपातकं स्यात्, अमानितः अवमानितो रामस्त्वां हिंस्याच्च ॥ ४।२२।१५ ॥
इमामिति । हे सुग्रीव काञ्चनीं स्वर्णमयीं दिव्यामिमाम् इन्द्रदत्तां मालां त्वमाधत्स्व हि यतः अस्यां मालायामुदारा अत्युत्कर्षां श्रीः विजयादिलक्ष्मीः स्थिता, एतद्धारयिता विजयादिलक्ष्मीः प्राप्नोतीत्यर्थः । ननु यावज्जीवं त्वय्येव तिष्ठतु इत्यत आह मयि मृते सति श्रीः मालां संप्रजह्यात् शवस्पर्शदोषात् त्यजेत् । मालां श्रीरिति चोभयान्वयि ॥ ४।२२।१६ ॥
इतीति । वालिना भ्रातृसौहृदात् इत्येवमुक्तः सुग्रीवः हर्षं रिपुवधजनितानन्दं त्यक्त्वा ग्रहग्रस्तः राहुपीडितः उडुराट् चन्द्र इव दीनः द्रोहनिवृत्तिपूर्वकभ्रातृवधहेतुकदैन्यवान् अभवदिति शेषः ॥ ४।२२।१७ ॥
तदिति । वालिवचनात् शान्तः अत एव अतन्द्रितः स्वस्थचित्तः अभ्यनुज्ञातः स सुग्रीवः युक्तं योग्यं तत् लोके प्रसिद्धं विलापादि कुर्वन् मालां जग्राह ॥ ४।२२।१८ ॥
तामिति । ताम् इन्द्रदत्तां मालां दत्त्वा सुग्रीवायेति शेषः, प्रेत्यभावाय परलोकप्राप्तये संसिद्धः कृतनिश्चयो वाली आत्मजमङ्गदं स्थितं दृष्ट्वा स्नेहादब्रवीत् ॥ ४।२२।१९ ॥
तद्वचनाकारमाह देशेति । प्रियाप्रिये वचने क्षममाणः तुल्यत्वेन मन्यमान इत्यर्थः, अत एव सुखदुःखसहस्त्वं देशकालौ भजस्व विचारय अत एव काले अस्मिन् समये सुग्रीववशगो भव ॥ ४।२२।२० ॥
सुग्रीववशगत्वे हेतुमाह यथेति । यथा येन प्रकारेण अपराधकर्तृत्वेनापीत्यर्थः, वर्तमानस्त्वं सततं निरन्तरं मया पालितस्तथा वर्तमानं त्वां सुग्रीवो न बहुमन्यते पालयिष्यतीत्यर्थः ॥ ४।२२।२१ ॥
सेवाप्रकारमाह नेति । अस्य सुग्रीवस्य अमित्रैः उदासीनैः गतं संगतं सख्यमित्यर्थः, न गच्छेः प्राप्नुयाः, शत्रुभिश्च संगतं मा गच्छे । हेयमुपदिश्योपादेयमाह दान्तो जितेन्द्रियस्त्वं भर्तुः सुग्रीवस्य अर्थपरः प्रयोजनसाधकः सन् सुग्रीववशगो भव ॥ ४।२२।२२ ॥
शिक्षान्तरमाह न चेति । अतिप्रणयः परप्रीतिः न कार्यः क्वचिदपि करणीयः । अप्रणयः स्नेहनिवर्तकविद्वेष इत्यर्थः, न कर्तव्यः । तत्र हेतुमाह उभयम् अतिप्रीतिविद्वेषं महादोषमतिदोषविशिष्टं तस्मात् अन्तरदृक् मध्यवर्ती भव ॥ ४।२२।२३ ॥
इतीति । इत्युक्त्वा भृशं शरसंपीडितः अत एव विवृत्ताक्षः विवृत्तनयनः अत एव भीमैः भयंकरैः विवृतैः दशनैर्दन्तैः उपलक्षितो वाली उत्क्रान्तजीवितो बभूव ॥ ४।२२।२४ ॥
तत इति । ततः उत्क्रान्तजीवनानन्तरं तत्र वालिसमीपे हतयूथपाः अत एव परिदेवयमानाः रुदन्तस्ते प्रसिद्धाः प्लवगसत्तमाः सर्वे वानराः विचुक्रुशुः विलेयुः ॥ ४।२२।२५ ॥
विलापप्रकारमाह किष्किन्धेत्यादिभिः । वानरेश्वरे वालिनि स्वर्गते सति किष्किन्धा शून्या, उद्यानादीनि च शून्यानि ॥ ४।२२।२६ ॥
हत इति । प्लवगशार्दूले हते सति वानराः निष्प्रभाः कृताः । अर्धं पृथक् । यस्येति । यस्य महता वेगेन प्रतापेन काननानि अरण्यानि वनानि जलानि च सकमलसरसीत्यर्थः, पुष्पौघेन पुष्पसमूहेन अनुबध्यन्ते सर्वकालं योज्यन्ते तत् योजनमद्य वालिमरणसमये कः कस्य प्रतापः करिष्यति । अर्धद्वयमेकान्वयि ॥ ४।२२।२७ ॥
येनेति । येन वालिना महात्मनो गन्धर्वस्य महाबाहोः गोलभस्य गोलभाभिधस्य दश पञ्च च वर्षाणि महद्युद्धं दत्तं तत्तस्य युद्धं रात्रौ नैवोपशाम्यति निवर्तते दिवसे च नोपशाम्यति ततः दशपञ्चवर्षानन्तरं षोडशमे षोडशे वर्षे गोलभो विनिपातितः वालिना हतः । अर्धचतुष्टयमेकान्वयि ॥ ४।२२।२८,२९ ॥
तमिति । दुर्विनीतं गोलभं हत्वा अस्माकं सर्वाभयंकरः द्रंष्ट्राकरालवान् द्रंर्ष्ट्राकरालत्वविशिष्टः । भावप्रधानो निर्देशः । अत एवान्यवन्नार्षकल्पना, एष वाली कथं निपातितः ॥ ४।२२।३० ॥
तद्विलापं संवर्ण्य तद्वृत्तान्तमाह हत इति । तदा रामबाणप्रविद्धसमये तत्र तस्मिन् प्रसिद्धे वीरप्लवगाधिपे वालिनि हते सति वनेचराः शर्म सुखं न लेभिरे । तत्र दृष्टान्तः गवां पतौ पत्यौ रक्षके निहते सति सिंहयुते महावने वनेचरा गावो यथा ॥ ४।२२।३१ ॥
तत इति । ततस्तत्प्राणापगमे सति व्यसनार्णवप्लुता सा तारा भर्तुर्वदनं मुखं समीक्ष्य वालिनं परिरभ्य छिन्नमहाद्रुममाश्रिता लतेव भूमिं जगाम ॥ ४।२२।३२ ॥
श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ ४।२२ ॥