तारां प्रति हनुमदुपदेशं वर्णयितुमुपक्रमते तत इति । ततस्ताराविलापकाले अम्बरात् आकाशात् च्युतां पतितां तारां नक्षत्रमिव निपतितां तारां हनूमान् शनैराश्वासयामास ॥ ४।२१।१ ॥
तदाश्वासनप्रकारमाह गुणेति । अव्यग्रो जन्तुः प्राणी गुणदोषकृतं गुणेन धर्मबुद्ध्या दोषेण पापबुद्ध्या कृतं निष्पादितं फलहेतुकं शुभाशुभफलकारणीभूतं यत् स्वकर्म तत् तस्य स्वकर्मणः शुभाशुभं फलं प्रेत्य प्राणांस्त्यक्त्वा अवाप्नोति । एतेन पूर्वोपार्जितकर्मफलमेव त्वया प्राप्तमिति सूचितम् ॥ ४।२१।२ ॥
शोच्येति । शोच्या भविष्यद्वृत्ताज्ञानेन शोचनीया अत एव दीनां त्वं कं शोच्यं
दीनं शोचसि अनुकम्पसे च, स्वयमसमर्थस्य शोको नोचित इति तात्पर्यम् तुल्यन्यायात् । सर्वशोकस्य अनुचितत्वमाह अस्मिन्प्रसिद्धे बुद्बुदोपमे देहे कः जन्तुः कस्य जन्तोः अनुशोच्यो ऽस्ति न कस्यचिदित्यर्थः, अशक्यनिवारणस्य प्रवृत्तौ शोको व्यर्थ इति तात्पर्यम् । अङ्गद इति । जीवपुत्रया जीवंश्चिरञ्जीवी पुत्रो यस्यास्तया त्वया अयमङ्गदः कुमारः द्रष्टव्यः रक्षणीयत्वेनावलोकनीयः । अत एव आयत्त्यामुत्तरकाले अस्य समर्थानि समीचीनार्थकारकाणि विधेयानि कार्याणि चिन्तय ॥ ४।२१।३,४ ॥
जानासीति । अनियतां ज्ञायमानकालनियमरहितां भूतानामागतिं जन्मगतिं मरणं जानासि तस्मात् हेतोः पण्डितेन ज्ञानविशिष्टेन त्वया लौकिकं रोदनादिकमिव शुभं पारलौकिकमपि कर्तव्यम् । पण्डितेनेति सामान्ये नपुंसकम् । एवंशब्दः सादृश्यवचनः ॥ ४।२१।५ ॥
यस्मिन्निति । यस्मिन् वालिसमीपे कृतांशानि परिकल्पितस्वस्वविभागानि प्रयुक्तानि आज्ञप्तानि हरीणां वानराणां सहस्राणि अर्बुदानि च वर्तयन्ति स्वस्वकार्याणि निर्वाहयन्ति । सो ऽयं वाली दिष्टान्तं प्रारब्धभोगावसानमागतः प्राप्तः । “शतानि नियुतानि च” इति भट्टटीकाङ्कितपुस्तकपाठः ॥ ४।२१।६ ॥
यदिति । यत् यस्माद्धेतोः न्यायेन राजनीत्या दृष्टः ज्ञातः अर्थः येन अत एव सामदानक्षमापरः अयं वाली धर्मजितां धर्मवद्भिः प्राप्यां भूमिं लोकं गतः प्राप्तः अत एवैनं शोचितुं नार्हसि ॥ ४।२१।७ ॥
सर्व इति । सर्वे हरिशार्दूलास्त्वत्सनाथाः त्वया नाथवन्तः अङ्गदश्च त्वत्सनाथः । हर्यृक्षपतिराज्यं हरिपतीनाम् ऋषपतीनां च राज्यं त्वत्सनाथम् । त्वत्सनाथशब्दः लिङ्गवचनपरिणामेन अन्यत्राप्यन्वेति ॥ ४।२१।८ ॥
ताविति । तौ वालिविघातेन प्राप्तौ इमौ शोकसंतप्तौ शोकं तत्कारणीभूतसंतापं च प्रेरय निवर्तयस्व । तत्प्रयोजनमाह त्वया परिगृहीतो ऽयमङ्गदः मेदिनीं शास्तु ॥ ४।२१।९ ॥
संततिरिति । संततिः पुत्रः यथा यथावत् दृष्टा त्वया प्राप्तेत्यर्थः, अतः सांप्रतं यत् राज्ञः कृत्यमस्ति तत् क्रियताम् एषः कृत्यकारः कालस्य निश्चयः प्रेरणा । कालप्रेरणेत्यनेन कृत्यकरणस्य दुर्निवारत्वं व्यञ्जितम् ॥ ४।२१।१० ॥
कृत्यस्वरूपमाह संस्कार्य इति । हरिराजो वाली संस्कार्यः प्रमीतिविधिना संस्करणीयः । अङ्गदश्च अभिषिच्यताम् । सिंहासनगतं पुत्रं पश्यन्ती त्वं शान्तिमेष्यसि? प्राप्स्यसि ॥ ४।२१।११ ॥
सेति । भर्तृव्यसनपीडिता सा तारा तस्य हनुमतो वचनं श्रुत्वा उत्तरं वाक्यमब्रवीत् ॥ ४।२१।१२ ॥
तद्वचनाकारमाह अङ्गदेति । अङ्गदप्रतिरूपाणामङ्गदसदृशानां पुत्राणां शतमेकतः एकत्र अस्तु, एकत्र हतस्यापि अस्य गात्रसंश्लेषणमस्तु तत्र गात्रसंश्लेषणं वरं तोलनयेदमेवाधिकमित्यर्थः । एतेन एतद्वियोगे न मम किंचित्सुखदमिति सूचितम् ॥ ४।२१।१३ ॥
ननु सुखाभावे ऽपि संस्कारादि कार्यमेवेत्यत आह– नेति । हरिराजस्य संस्कारायेति शेषः, अङ्गदस्य अभिषेकाय चेति शेषः, अहं न प्रभवामि समर्था ऽस्मि तस्याङ्गदस्य पितृव्यः सुग्रीवः सर्वकार्येषु अनन्तरः समर्थ इत्यर्थः ॥ ४।२१।१४ ॥
ननु त्वत्कर्तृकाभिषेकाप्रवृत्तौ त्वद्विषयकाङ्गदप्रीतिर्विनङ्क्ष्यतीत्यत आह नहीति । हे हनुमन् पिता तदुपलक्षितपितृव्यादिश्च पुत्रस्य बन्धुः माता तु न, न एषा बुद्धिः अङ्गदं प्रति आस्थया प्रापणीया । किंच मातैव बन्धुः पित्रादिस्तु न इति बुद्धिर्नास्थेया पितृव्ये ऽपि बन्धुत्वं बोधनीयमित्यर्थः । एतेनेदृग्बुद्ध्यनुत्पत्तौ सुग्रीवविद्वेषे ऽङ्गदविध्वंसो भविष्यतीति व्यञ्जितम् ॥ ४।२१।१५ ॥
नन्वौदासीन्यं संत्यज्य सुग्रीवाङ्गदादिभिः प्रीतिं संपादयेत्यत आह न हीति । इहलोके परत्र वा हरिराजसंश्रयात् अन्यत् क्षमतरम् आश्रयणीयमित्यर्थः, नैवास्ति । अतः अभिमुखं संमुखं हतो यो वीरस्तेन सेवितमिदं शयनं मम सेवितुं क्षमम् ॥ ४।२१।१६ ॥
श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकविंशः सर्गः ॥ ४।२१ ॥