ताराविलापं वर्णयितुमाह रामेति । रामचापविसृष्टेन अन्तकरेण विनाशकेन शरेण भूमौ विनिहतं भर्तारं समासाद्य समीपं प्राप्य ताराधिपानना चन्द्रमुखी भामिनी स्वप्रारब्धविषयककोपवती तारा पर्यष्वजत आलिङ्ग्यत । सार्धश्लोक एकान्वयी ॥ ४।२०।१ ॥
इषुणेति । इषुणा अभिहतमत एव उन्मूलं तरुमिव पर्वतेन्द्राभं वालिनं दृष्ट्वा शोकसंतप्तमानसा आतुरा तारा पर्यदेवयत व्यलपत ॥ ४।२०।२,३ ॥
विलापाकारमाह रण इति । दारुणं विक्रान्तं विक्रमो यस्य तत्संबोधनम् । प्रवीर नित्यं युद्धोत्साहविशिष्टः । पुरोभागाम् अग्रे स्थितां मां किं किमर्थं नाभिभाषसे ॥ ४।२०।४ ॥
उत्तिष्ठेति । हे हरिशार्दूल स्वशयनोत्तमं भजस्व स्वीकुरु तस्मिंस्तिष्ठेत्यर्थः । तत्र हेतुः एवंविधाः भवत्सदृशाः नृपतयः भूमौ न शेरते ॥ ४।२०।५ ॥
अतीवेति । वसुधा भूमिः ते अतीव कान्ता प्रिया खलु निश्चितमेतत् अत एव गतासुरपि त्वं मां विहाय गात्रैस्तां वसुधां निपेवसे ॥ ४।२०।६ ॥
व्यक्तमिति । धर्मतः धर्मेण संप्रवर्तता त्वया स्वर्गमार्गे धर्मवद्भिरन्वेषणीयस्वर्गे किष्किन्धा इव पुरी निर्मिता व्यक्तं स्फुटमेतत् ॥ ४।२०।७ ॥
यानीति । मधुगन्धिषु वनेषु काले समये त्वया सार्धं यानि सुखानि विहृतानि प्राप्तानि तेषामुपरमो निवृत्तिस्त्वया कृतः ॥ ४।२०।८ ॥
निरानन्देति । त्वयि पञ्चत्वमापन्ने प्राप्ते सति निराशा सुखाशारहिता अत एव निरानन्दा अत एव शोकसागरे निमग्ना ऽहमस्मीति शेषः ॥ ४।२०।९ ॥
हृदयमिति । भुवि निपतितं त्वां दृष्ट्वा शोकाभिसंतप्तं मह्यं मम यत् हृदयं सहस्रधा न स्फुटते तत् सुस्थितमतिदृढं निश्चिनोमीति शेषः ॥ ४।२०।१० ॥
सुग्रीवस्येति । यत् सुग्रीवस्य भार्या त्वया हृता यच्च स सुग्रीवो विवासितः तत् तस्य तस्य कर्मण इयं व्युष्टिः फलं प्राप्ता ॥ ४।२०।११ ॥
निःश्रेयसेति । हितैषिणी त्वद्धिताकाङ्क्षिणी अत एव निःश्रेयसपरा त्वच्छुभकर्मसाधिका यैषा ऽहं हितं वाक्यमब्रुवं रामेण संग्राममवारयमित्यर्थः, सा ऽहं मोहात् युद्धोत्साहहेतुकचित्तस्वास्थ्याभावात् विगर्हिता तिरस्कृता, मद्वाक्यं न स्वीकृतवानसीत्यर्थः ॥ ४।२०।१२ ॥
त्वद्वियोगे ममैव दुःखं तव तु तत्रा ऽपि सुखमिति बोधयन्ती आह रूपेति । रूपयौवनदृप्तानां रूपादिजनितगर्वविशिष्टानां दक्षिणानां निपुणानामप्सरसां चित्तानि प्रमथिष्यसि विहरिष्यसीत्यर्थः ॥ ४।२०।१३ ॥
काल इति । येन कालेन अवशो ऽपि त्वं सुग्रीवस्य वशमवपन्नः प्रापितः स तव जीवितान्तकरः निःसंशयः कार्याकार्ययोः स्वतन्त्रत्वात् संशयरहित इत्यर्थः, कालः नूनं निश्चितमेतत् ॥ ४।२०।१४ ॥
अस्थानेति । अस्थाने अप्रसङ्गे स्वभार्यासु विद्यमानास्वित्यर्थः, सुगर्हितम् अतिनिन्दितं कर्म अनुजवधूपरिग्रहं कृत्वा परेण सुग्रीवेण युध्यमानं वालिनं हत्वा काकुत्स्थो रामो न संतपति संतापं प्राप्नोति । संतापहेतोरवध्यवधस्याभावादिति भावः ॥ ४।२०।१५ ॥
वैधव्यमिति । पूर्वमदुःखोपचिता अप्राप्तदुःखेत्यर्थः । अत एव अकृपणा कार्पण्यरहिता अहमनाथवत् रक्षकाभाववत् शोकसंतापं शोकसंतापविशिष्टं वैधव्यं कृपणा सती वर्तयिष्यामि प्राप्स्यामीत्यर्थः ॥ ४।२०।१६ ॥
लालित इति । पितृव्ये सुग्रीवे क्रोधमूर्छिते सति सुखोचितः सर्वकालं सुखयोग्यः लालितः मे सुकुमारो ऽङ्गदो वीरः कामवस्थां दशां वत्स्यते प्राप्स्यतीत्यर्थः ॥ ४।२०।१७ ॥
अङ्गदं प्रत्याह कुरुष्वेति । हे पुत्र पितरं सुदुष्टमतिदर्शनकर्मीभूतं कुरुष्व । तत्र हेतुः तस्य पितुः दर्शनं तव दुर्लभं दुष्प्रापं भविष्यति ॥ ४।२०।१८ ॥
वालिनं प्रत्याह समिति । हि यतः प्रवासं प्रस्थितो ऽसि अतः एनं मे पुत्रं मूर्ध्नि समाघ्राय संदेशम् एतस्य कर्तव्यं संदिशस्व उपदिश ॥ ४।२०।१९ ॥
रामेणेति । सुग्रीवस्य संनिधौ प्रतिश्रवे त्वद्वधप्रतिज्ञासमाप्त्यर्थं त्वामभिनिघ्नता रामेण आनृण्यं मित्रीभूतसुग्रीवयाचितदेयरूपऋणराहित्यं गतं प्राप्तमत एव महत् अन्यैरसाध्यं कर्मं कृतम् ॥ ४।२०।२० ॥
सुग्रीवं प्रत्याह सकाम इति । हे सुग्रीव रिपुस्तव भ्राता शस्तः हिंसितः अतः अनुद्विग्नस्त्वं राज्यं भुङ्क्ष्व रुमां च प्रतिपत्स्यसे अत एव सकामो भव ॥ ४।२०।२१ ॥
पुनर्वालिनं प्रत्याह किमिति । हे वानरेश्वर एवं प्रलपतीं विविधं वदन्तीं प्रियां मां किं नाभिभाषसे बह्व्यः इमास्ते भार्याः पश्य । वाक्यस्य कर्मतया ऽन्वयान्न द्वितीया ॥ ४।२०।२२ ॥
तस्या इति । ता वालिसंबन्धिन्यः वानर्यस्तस्या तारायाः विलपितं श्रुत्वा अङ्गदं परिगृह्य सर्वतः प्रतिचुक्रुशुः ॥ ४।२०।२३ ॥
तत्प्रतिक्रोशप्रकारमाह किमिति । सा ऽङ्गदो ऽङ्गदसहितो वीरो मानी वीरविध्वंसकत्वेन वीरत्वविशिष्टो बाहुर्यस्य तत्संबोधनम्, अङ्गदमचिरं शीघ्रं विहाय किं किमर्थं प्रवासं यास्यसि । हे प्रियपुत्र एवंगुणसंनिकृष्टं गुणैः संपन्नं पुत्रं विहाय गन्तुं न युक्तम् ॥ ४।२०।२४ ॥
यदीति । हरिवंशानां वानरजातानां नाथः स्वामी तत्संबोधनम् । असंप्रधार्य अज्ञात्वा यदि तव किंचिदप्रियं मया कृतं स्यात् तर्हि तत् मे अपराधं क्षमस्व । मूर्ध्ना तव पादौ चरणौ व्रजामि प्राप्नोमि, स्पृशामीत्यर्थः ॥ ४।२०।२५ ॥
तथेति । तथा उक्तप्रकारेण भर्तुः समीपे वानरीभिः सह करुणं रुदन्ती अनिन्द्यवर्णा रिपुभिरपि न निन्द्यो वर्णो यस्याः सा तारा यत्र यस्यां भुवि वाली वर्तत इति शेषः, तत्र प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुं व्यवस्यत निरचिनोत् ॥ ४।२०।२६ ॥
श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे विंशतितमः सर्गः ॥ ४।२० ॥