०१९ तारागमनम्

वालिकर्तृकरामप्रार्थनानन्तरकालिकं वालिवृत्तान्तमाह स इति । शरपीडितः विद्धः रामबाणेन व्यथितः अत एव शयानः स रामदृष्टिपथं गतो वानरमहाराजो वाली हेतुमद्वाक्यैः युक्तिविशिष्टवचनैः प्रत्युक्तस्त्वद्दोष इदानीं परिभ्रष्ट इत्यादिप्रत्युत्तरितो ऽपि उत्तरं न प्रतिपद्यते प्रत्यपद्यत विशेषतो नाशृणोदित्यर्थः ॥ ४।१९।१ ॥

तत्र हेतुमाह अश्मभिरिति । अश्मभिः शिलाभिः परिभिन्नाङ्गः भृशमत्यन्तं पादपैरप्याहतः रामबाणेन च आक्रान्तः आविद्धः स वाली जीवितान्ते प्राणापगमसमये मुमोह ॥ ४।१९।२ ॥

तमिति । भार्या तारा रामदत्तेन रामकृतेन बाणमोक्षेण हतं तं प्रसिद्धं प्लवगशार्दूलं वानरश्रेष्ठं वालिनं शुश्राव ॥ ४।१९।३ ॥

सेति । सपुत्रा पुत्रसहिता सा तारा अप्रियम् अत एव सुदारुणं भर्तुर्वधं श्रुत्वा भृशमुद्विग्ना सती तस्मात्पुरभूतात् गिरिकन्दरात् किष्किन्धाभिधगिरिगुहातः निष्पपात निर्जगाम ॥ ४।१९।४ ॥

ये इति । महाबलाः अङ्गदपरीवारा ये वानरास्ते तु सकार्मुकं धनुःसहितं राममालोक्य प्रदुद्रुवुः ॥ ४।१९।५ ॥

सेति । यूथात् परिभ्रष्टान् निहतयूथपान् वा मृगानिव त्रस्तान् अत एव द्रुतमापततः प्रदुद्रुवतः हरीन् वानरान् सा तारा ददर्श ॥ ४।१९।६ ॥

तानिति । रामवित्रासितान् अत एव इषुभिर्बाणैः अनुविद्धानिव अत एव दुःखितान् सर्वान् तान् वानरान् समासाद्य प्राप्य उवाच ॥ ४।१९।७ ॥

तद्वचनाकारमाह वानरा इति । हे वानराः । यस्य राजसिंहस्य वालिनो यूयं पुरःसरास्तं विहाय सुवित्रस्ताः अत एव दुर्गताः दुर्मार्गगमनशीलाः सन्तः कस्मात् द्रवत द्रवथ ॥ ४।१९।८ ॥

राज्येति । क्रूरेण भ्रात्रा सुग्रीवेण प्रयोजकेन रामेण प्रयोज्यभूतेन प्रसृतैः अतिवेगवद्भिः दूरपातिभिः दूरगतस्यापि लक्ष्यस्य विघातकैरित्यर्थः, मार्गणैः बाणैः करणैः राज्यहेतोः भ्राता स वाली चेत् यदि पातितस्तर्हि भवत्पलायनं न युज्यते इति शेषः, सुग्रीव एव सेव्यतामिति तात्पर्यम् । मार्गणैरित्यत्र बहुवचनं तु स्वप्रतीत्यभिप्रायेण ॥ ४।१९।९ ॥

कपीति । कपिपत्न्यास्तारायाः वचः श्रुत्वा प्राप्तकालं कालप्राप्तिबोधकम् अविश्लिष्टं स्पष्टं वचनम् अङ्गनां तारामूचुः । “अविक्लिष्टम्” इति पाठान्तरं सुयुक्तिमदिति तदर्थः ॥ ४।१९।१० ॥

तद्वचनाकारमाह जीवेति । जीवः सप्राणः पुत्रो यस्यास्तत्संबोधनम् । अन्तकः कालः रामरूपेण वालिनं हत्वा नयति स्वलोकमिति शेषः, अतो निवर्तस्य किष्किन्धां प्रविशेत्यर्थः । तत्प्रयोजनमाह अङ्गदं स्वपुत्रं रक्षस्व । एतेन सपुत्रायाः पत्यनुगमनं नोचितमिति सूचितम् ॥ ४।१९।११ ॥

वधप्रकारमाह क्षिप्तानिति । क्षिप्तान् रिपुवधाय वालिना संत्यक्तान् वृक्षान् विपुलाः बहुशिलाश्च वज्रसमैर्वज्रसदृशैर्बाणैर्वज्रेणवज्रिणेव रामेणेति शेषः, समाविध्य वाली निपातितः । वज्रशब्दः अर्शआद्यजन्तः ॥ ४।१९।१२ ॥

अभीति । प्लवगशार्दूले श्रेष्ठे अस्मिन् वालिनि हते सति वानरसंबन्धि वानरम् इदं सर्वं बलमभिभूतं रामेण पराभूतमत एव विद्रुतं पलायितमस्तीति शेषः ॥ ४।१९।१३ ॥

वानरपलायननिवृत्तौ यत्नमाह रक्ष्यतामिति । शूरैः पलायनरहितैरित्यर्थः, वानरैः नगरी रक्ष्यताम् अङ्गदो ऽभिषिच्यतां च । पदस्थं राज्यासने स्थितं वालिनः पुत्रमङ्गदं प्लवङ्गमाः भजिष्यन्ति भक्ष्यन्ति ॥ ४।१९।१४ ॥

पक्षान्तरमाह अथवेति । हे रुचिरानने अथवा यदि इह अस्यां किष्किन्धायां स्थानं स्थितिस्ते रुचितं प्रीतिविषयीभूतं न तदा अभार्याः सहभार्याश्च ये वनचारिणो वानरा अत्र सन्ति ते अद्य अस्मिन् काले क्षिप्रं शीघ्रं दुर्गाणि किष्किन्धादुर्गमस्थानानि आविशन्ति आविशन्तु । तत्र हेतुः– विप्रलुब्धेभ्यः अस्माभिर्वञ्चितेभ्यः अत एव लुब्धेभ्यः अस्मद्धनाद्याकाङ्क्षिभ्यः तेभ्यः प्रविष्टेभ्यो नः सुमहद्भयमस्ति । श्लोकद्वयमेकान्वयि ॥ ४।१९।१५,१६ ॥

अल्पेति । अल्पान्तरगतानां किंचित् दूरे वर्तमानानां वानराणां वचः श्रुत्वा अङ्गना वालिस्त्री सा तारा आत्मनः प्रतिरूपं सदृशं वचनं बभाषे ॥ ४।१९।१७ ॥

तद्वचनाकारमाह पुत्रेणेति । कपिसिंहे भर्तरि नश्यति सति पुत्रादिना मम किं कार्यं न किमपीत्यर्थः ॥ ४।१९।१८ ॥

पादेति । यो ऽसौ पतिः रामप्रयुक्तेन रामत्यक्तेन शरेण विनिपातितस्तस्यैव पादमूलमहं गमिष्यामि ॥ ४।१९।१९ ॥

एवमिति । एवमुक्त्वा दुःखेन रुदन्ती अत एव शोकमूर्छिता प्रवृद्धशोका अत एव शिर उरश्च समभिघ्नती तारा प्रदुद्राव वालिसमीपं जगाम ॥ ४।१९।२० ॥

सेति । व्रजन्ती सा तारा समरेषु अनिवर्तिनां दानवेन्द्राणां मायाव्यादीनां हन्तारं वज्राणां वज्रैः पर्वतेन्द्राणां क्षेप्तारं वासवमिव महावातेन समं सदृशमाविष्टमावशो वेग इत्यर्थः, यस्य स तं, महामेघौघस्य निःस्वन इव निःस्वनो यस्य तं, शक्रतुल्यं पराक्रान्तं पराक्रमो यस्य तं, नर्दतां नानराणां मध्ये भीमं नर्दन्तं, वृष्ट्या वृष्टेः उपरतं निवृत्तं घनमिव आमिषस्य मांसस्यार्थे शार्दूलेन व्याघ्रेण आहतं मृगराजं विपुलमांसवत्तया मृगश्रेष्ठं गजमिव सर्वलोकस्य अर्चितं पूजितं, सपताकं पताकासहितं सवेदिकं वेदिकासहितं नागहेतोः नागग्रहणाय सुपर्णेन गरुडेन उन्मथितं चैत्यं देवालयमिव शूरेण रामेण पातितमत एव भुवि निपतितं पतिं ददर्श । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ४।१९।२१२४ ॥

अवष्टभ्येति । ऊर्जितं धनुरवष्टभ्य गृहीत्वा अवतिष्ठन्तं रामं रामानुजं च भर्तुरनुजं सुग्रीवं च ददर्श । अर्धद्वयमेकान्वयि ॥ ४।१९।२५,२६ ॥

तानिति । तान् रामादीन् अतीत्य अतिक्रम्य भर्तारं समासाद्य समीपं प्राप्य समीक्ष्य च व्यथिता दुःखिता अत एव संभ्रान्ता उद्विग्नचित्ता तारा भूमौ निपपात ॥ ४।१९।२७ ॥

सुप्तेति । सुप्ता पुनरुत्थाय इव विद्यमाना सा तारा मृत्युदामभिः मृत्युरूपपाशनेन संवीतं बद्धं पतिं दृष्ट्वा आर्यपुत्रेति वादिनी सती रुरोद ॥ ४।१९।२८ ॥

तामिति । कुररीमिव क्रोशन्तीं तां तारामवेक्ष्य आगतमङ्गदं च दृष्ट्वा सुग्रीवः कष्टं विषादमगमत् ॥ ४।१९।२९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकोनविंशतितमः सर्गः ॥ ४।१९ ॥