वालिवचनश्रवणानन्तरकालिकरामवचनं वर्णयितुमाह इतीति । इत्यनेन प्रकारेण प्रश्रितं नम्रताविशिष्टं धर्मार्थसहितं परुषं परुषत्वेन प्रतीयमानं वाक्यं निहतेन रामबाणविद्धेन अत एव विचेतसा व्याकुलचित्तेन वालिना राम उक्त आसीदिति शेषः ॥ ४।१८।१ ॥
तमिति । निष्प्रभं प्रभारहितम् आदित्यमिव मुक्ततोयं त्यक्तजलम् अम्बुदं मेघमिव उपशान्तं जलेन सिक्तम् अनलं वह्निमिव उक्तं वाक्यं येन तं हरिश्रेष्ठं श्रेष्ठवानरैः सहितम् अनुत्तमम् अनुजदारग्रहणरूपाधर्मकर्मणा ऽधमं हरीश्वरं तं वालिनं तदा वैचित्यकाले अधिक्षिप्तः वालिकर्तृकाधिक्षेपविशिष्टो रामः पश्चात् वाल्युक्तिश्रवणानन्तरं धर्मार्थगुणसंपन्नं धर्मार्थगुणैः संयुक्तं वचनमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ४।१८।२,३ ॥
तद्वचनाकारमाह धर्ममित्यादिभिः । धर्मादिकं लौकिकं समयं शिष्टाचारमित्यर्थः, कथमविज्ञाय बाल्यात्? स्वाज्ञानात् हेतोः मां विगर्हसे ॥ ४।१८।४ ॥
अपृष्ट्वेति । हे सौम्य हे वानर आचार्यसंमतान् आचार्यानुकूलान् बुद्धिसंपन्नान् वृद्धान् अपृष्ट्वा तेभ्यः प्रश्नपूर्वकं धर्मानश्रुत्वेत्यर्थः, चापल्याद्धेतोः त्वं मां वक्तुमिच्छसि ॥ ४।१८।५ ॥
तदज्ञानमेव प्रकटयन्नाह इक्ष्वाकूणामिति । सशैलवनकानना शैलवनकाननविशिष्टां इयं भूमिः इक्ष्वाकूणाम् अतो मृगपक्षिमनुष्याणां निग्रहानुग्रहेषु अधिकार इति शेषः । अपिर्हेतौ ॥ ४।१८।६ ॥
तामिति । तामिक्ष्वाकुभूमिमृजुः सरलस्वभावः सत्यवानतिसत्यवक्ता धर्मात्मा धर्मकामार्थतत्त्वज्ञः धर्मादियाथार्थ्यज्ञाता निग्रहानुग्रहे रतस्तत्परो भरतः पालयति ॥ ४।१८।७ ॥
भरतस्य धर्मात्मत्वादिवर्णने फलमाह नय इति । यस्मिन्नुभौ नयो विनयश्च सुस्थितमचाञ्चल्यं सत्यं च सन्तीति शेषः, यथा यथावद्विक्रमश्च दृष्टः देशकालवित् उचितदेशादिविज्ञातृत्वधर्मश्च दृष्टः स राजा भवतीति शेषः । एतेन भरते सर्वे राजगुणाः सन्तीति सुचितम् ॥ ४।१८।८ ॥
तस्येति । धर्मसंतानमिच्छवो वयमन्ये च पार्थिवाः तस्य भरतस्य धर्मकृतादेशाः धर्माय कृतः आदेशः आज्ञा यैस्ते सन्तः कृत्स्नां वसुधां चरामः भरतानुकूलतयैव सर्वे वर्तन्त इत्यर्थः ॥ ४।१८।९ ॥
तस्मिन्निति । नृपतिशार्दूले नृपतिश्रेष्ठे भरते पृथ्वीं पालयति सति धर्मविप्रियं धर्मविरुद्धं कश्चरेत् ॥ ४।१८।१० ॥
ते इति । परमे उत्कृष्टे स्वधर्मे राजोचितकर्मणि स्थितास्ते धर्मसंतानमिच्छवो वयं भरताज्ञां भरतकर्मकाज्ञापनं पुरस्कृत्य मार्गविभ्रष्टान् यथाविधि चिन्तयामः विचार्य दण्डयाम इत्यर्थः । “धर्मविभ्रष्टान्” इति भूषणपाठः ॥ ४।१८।११ ॥
ननु विचारेण त्वया किं निश्चितमित्यत आह त्वमिति । कामतन्त्रप्रधानः कामतन्त्रेषु कामाधीनेषु प्रधानो मुख्यः अत एव राजवर्त्मनि राजोचितमार्गे न स्थितः अत एव कर्मणा स्वेच्छाचरणेन हेतुना विगर्हितो निन्दितः अत एव संक्लिष्टधर्मा संक्लिष्टः विबाधितः धर्मः सदाचारो येन सः त्वमसीति शेषः ॥ ४।१८।१२ ॥
तदनुष्ठितकर्मणां सदाचारविरुद्धत्वं बोधयितुं धर्मानाह ज्येष्ठ इति द्वाभ्याम् । धर्मे पथि वर्तिनो जनस्य ज्येष्ठो भ्राता पिता च यो विद्यां प्रयच्छति स च ते त्रयः पितर इव ज्ञेयाः पितृवत्पूज्या इत्यर्थः । एकश्चशब्द इवार्थे ॥ ४।१८।१३ ॥
यवीयानिति । यवीयान् कनिष्ठो भ्राता, आत्मनः पुत्रश्च, गुणोदितः शिष्योचितगुणयुक्तः शिष्यश्च, ते त्रयः पुत्रविच्चिन्त्याः मन्तव्या इत्यर्थः । अत्र एवंचिन्तने धर्म एव कारणम् एतेन दृष्टकारणव्यावृत्तिः, एतेन सुग्रीवे ते विद्वेषो ऽधर्म इति सूचितम् ॥ ४।१८।१४ ॥
ननु सर्वैर्धर्मो विज्ञायते त्वया किमर्थं वर्ण्यते इत्यत आह सूक्ष्म इति । प्लवङ्गम हे कपे सतां धर्मः सूक्ष्मः दुर्लक्ष्य इत्यर्थः, अत एव परमदुर्ज्ञेयः ज्ञातुमत्यन्तमशक्यः । ननु त्वया कथं ज्ञात इत्यत आह सर्वभूतानां ह़ृदिस्थः आत्मा नियन्ता सर्वभूतानां शुभाशुभं वेद जानाति । एतेन स्वस्य नियन्तृत्वं सूचितं तेन सर्वज्ञत्वं व्यञ्जितम् । सर्वभूतानामित्युभयान्वयि ॥ ४।१८।१५ ॥
चपल इति । जात्यन्धैर्जन्मान्धैः सार्धं मन्त्रयन् जात्यन्ध इव अकृतात्मभिः अस्वस्थचित्तैः अत एव चपलैः वानरैः सार्धं मन्त्रयन् चपलस्त्वं किं नु प्रेक्षसे विचारयसि धर्ममिति शेषः ॥ ४।१८।१६ ॥
नन्वस्माकं चपलत्वादिवैशिष्ट्यं नास्तीति किमर्थमेवमुच्यते इत्यत आह अहमिति । अस्य स्वोक्तस्य वचनस्य चापल्यादिबोधकवाक्यस्य व्यक्ततामभिप्रायप्राकट्यं ते ब्रवीमि अतः रोषात् मां केवलं विगर्हितं त्वं नार्हसि ॥ ४।१८।१७ ॥
तदिति । यदर्थं मया त्वं हतस्तदेतत्कारणं पश्य जानीहि शृण्वित्यर्थः । तत् कारणमाह सनातनं धर्मं त्यक्त्वा भ्रातुः कनिष्ठबन्धोर्भार्यायां वर्तसि वर्तसे ॥ ४।१८।१८ ॥
ननु पितृसदृशज्येष्ठभ्रातृभार्यावमर्शात् सुग्रीवस्यापि तथात्वमित्यत आह– अस्येति । धरमाणस्य धारयतः प्राणानिति शेषः, जीवत इत्यर्थः, महात्मनः सुग्रीवस्य स्नुषायां पुत्रवधूसदृश्यां रुमायां तदभिधभार्यायां कामात् पापकर्मकृत् स्ववशीभूतकनिष्ठभ्रातृत्यागरूपपापकर्मकर्ता त्वं वर्तसे । एतेन सुग्रीवस्य त्वज्जीवनाभावनिश्चयात् त्वद्भार्यावमर्शे ऽपि न दोष इति, तव तु कनिष्ठजीवननिश्चये ऽपि तद्भार्यावमर्शात् शरणागतभ्रातृत्यागात् दोषसमूह इति च सूचितम् । मृतज्येष्ठभ्रातृभार्यापरिग्रहे न दोष इति धर्मशास्त्रे प्रसिद्धम् । अत एव “भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः” इति वक्ष्यमाणप्रायोपवेशसमये अङ्गदोक्तौ जीवत इति विशेषणं संगच्छते । अत एव “देवराच्च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत्” इत्यादि संगच्छते । नच हृद्यपेक्षया मनुष्याधिकारत्वादिति सूत्रभाष्यादौ मनुष्यमात्रस्यैव शास्त्रनियम्यत्वमिति सिद्धान्तितत्वात् वालिविषये धर्माधर्मविचारः सर्वज्ञेन परमात्मना रामेण कथं कृत इति वाच्यम् “तदुपर्यपि बादरायणः” इति तदुत्तरसूत्रभाष्यादौ गन्धर्वादीनामपि शास्त्रनियम्यत्वस्य सिद्धान्तितत्वेन वालिनो देवपुत्रत्वाद्देवत्वेनादोषात् । अत एव भगवत्पार्श्ववर्तिनां नन्दीश्वरगरुडकाकशुण्डादीनां वेदाधिकारो न विरुध्यते । अत एव सर्वज्ञपरमात्मरामकृता जटायुषः प्रमीतक्रिया तद्भ्रात्रा संपातिना करिष्यमाणोदकदानादि च संगच्छते । न च ब्राह्मणाद्युद्देश्येन कर्मबोधकप्रवृत्तेः देवादीनां तदभावात्कथं तद्विषयत्वमिति वाच्यं, तेषामपि कश्यपादिजन्यत्वादिना ब्राह्मणादित्वादिति दिक् ॥ ४।१८।१९ ॥
उपसंहरन्नाह तदिति । तत् मम धर्मपालकत्वाद्धेतोः कामवृत्तस्य स्वेच्छावर्तिनः अत एव अस्मिन् भ्रातृभार्याभिमर्शे धर्माद्व्यतीतस्य परिभ्रष्टस्य ते तव अयं वधरूपो दण्डः मया प्रतिपादितः ॥ ४।१८।२० ॥
दण्डस्यावश्यकत्वं बोधयन्नाह– नहीति । लोकवृत्तात् शिष्टजनव्यवहारात् अपेयुषः बहिर्गतस्य अत एव लोकविरुद्धस्य जन्तोर्दण्डात् अन्यत्र अन्यस्मिन्नुपाये निग्रहं प्रायश्चित्तं न पश्यामि ॥ ४।१८।२१ ॥
ननु जन्मान्तरे भोगेन पापक्षयो भवितेति किं त्वत्कर्तृकवधेनेत्यत आह न चेति । कुलोद्गतः कुलमुद्गतम् उत्कर्षतां प्राप्तं यस्य सः क्षत्रियो ऽहं ते पापं न मर्शये सहे । अर्धं पृथक् । ननु धर्मशास्त्रे बहुविघदण्डानां सत्त्वाद्वध एव किमर्थं कृत इत्यत आह औरसीमिति । औरसीं मुख्यकन्यां भगिनीं वा अनुजस्य भार्या वा यो नरः कामात् भोगेच्छातः प्रचरेत तस्य दण्डः वधः प्राणवियोग एव स्मृतः । अर्धद्वयमेकान्वयि ॥ ४।१८।२२ ॥
ननु इदानीं भरतस्यैव महीपालत्वात् त्यक्तराज्यस्य भवतः शासनमनुचितमित्यत आह भरत इति । यद्यपि महीपालो भरतस्तथापि आदेशवर्तिनः पालनाज्ञाप्रवर्तकाः वयं स्म इति शेषः, अतः धर्मादतिक्रान्तं च्युतं त्वामुपेक्षितुम् अविचारेण त्यक्तुं कथं शक्यमस्माभिरिति शेषः । तुशब्दः यद्यपीत्यर्थे ॥ ४।१८।२३ ॥
गुर्विति । गुरुधर्मव्यतिक्रान्तं गुरुः सर्वोत्कृष्टो यो धर्मस्तस्माद्व्यतिक्रान्तं च्युतं जनं निघ्नन्निति शेषः, धर्मेण पालयन् । किंच गुरुधर्मव्यतिक्रान्तं पालयन् दण्डपूर्वकशुद्ध्या रक्षन्भरतः कामयुक्तानां निग्रहे अन्वेषणे पर्यवस्थितः वयं तु अवधिं कालनियमं कृत्वा भरतादेशाः भरते आदेशः प्रजापालनाज्ञा येषां ते सन्तो वने चराम इति शेषः । देशावधिमित्यत्र “नमुने” इति सूत्रे नेतियोगविभागेन क्वचित् त्रिपाद्या असिद्धत्वभावज्ञापनात् संहिता, भागुरिमते अवाकारलोपेन वधिशब्दो ऽप्यवधिवाचको वा, भरतकर्तृकाज्ञायाः अवधिं कृत्वेत्यर्थो वा । अत्र पक्षे समासप्रयुक्तषष्ठ्याः लुप्तत्वात् न संहितायां संदेहः । भरताज्ञप्ता इत्यर्थस्तु न युक्तः रामकर्मकभरताज्ञाया अप्रसिद्धत्वात् अयोग्यत्वाच्च, क्लिष्टकल्पनायां प्रमाणाभावाच्च । सार्धश्लोक एकान्वयी ॥ ४।१८।२४,२५ ॥
सुग्रीवेणेति । मे सख्यं यथा लक्ष्मणेन तथा दारराज्यनिमित्तं स्वदारराज्ययोः प्राप्त्यर्थं सुग्रीवेणापि मे सख्यमकारीति शेषः, अत एव स सुग्रीवः निश्रेयसकरः सेवातत्परो ऽस्तीति शेषः । अत एव तदा सख्यसमये वानरसंनिधौ प्रतिज्ञा त्वत्कर्मकवधनिश्चयः दत्ता कृता, मद्विधेन सत्यप्रतिज्ञेनेत्यर्थः । प्रतिज्ञा प्रतिज्ञाविषयीभूतार्थः अनवेक्षितुमकर्तुमित्यर्थः, कथं शक्या । श्लोकद्वयमेकान्वयि ॥ ४।१८।२६,२७ ॥
तदिति । धर्मसंश्रितैः धर्मविशिष्टैः अत एव महद्भिः सर्वैरेभिरुक्तैः कारणैर्युक्तम् उचितं यत् तव शासनं तद्भवाननुमन्यतां युक्तत्वेन निश्चिनुताम् ॥ ४।१८।२८ ॥
सर्वथेति । धर्ममनुपश्यता जानता पुरुषेण वयस्यस्य सख्युः उपकर्तव्यं सख्युपकारो धर्म इत्यर्थः । अत एव तव निग्रहः दण्डः सर्वथा सर्वप्रकारेण धर्म एवेत्ययं त्वया द्रष्टव्यः ज्ञातव्यः ॥ ४।१८।२९ ॥
शक्यमिति । धर्ममनुवर्तता त्वया ऽपि कार्यं सर्वैः कर्तव्यं तत् मत्कर्तृकानुशासनं शक्यं कर्तुमिति शेषः । अर्धं पृथिक् । स्वाचरिते शिष्टोक्तिं प्रमाणयितुमाह श्रूयते इति । यथा येन प्रकारेण यदर्थं धर्मकुशलैः गृहीतौ स्वीकृतौ चारित्रवत्सलौ शुभाचरणप्रतिपादकौ मनुना गीतौ श्लोकौ श्रूयेते तथा तेन प्रकारेण तत्तद्गृहीतं मया चरितं कृतम् । अर्धद्वयमेकान्वयि ॥ ४।१८।३० ॥
श्लोकावेवाह– राजभिरिति । पापानि कृत्वा विद्यमाना मानवाः राजभिर्धृतदण्डाः अत एव निर्मलाः सन्तः सुकृतिनः सन्त इव स्वर्गमायान्ति प्राप्नुवन्ति ॥ ४।१८।३१ ॥
शासनादिति । स्तेनस्तदुपलक्षितपापो शासनात् शरीरदण्डात् मोक्षात् ब्राह्मणादीनां पापित्वे मोक्षणात् ग्रामादिभ्यो निःसारणादित्यर्थः, पापात्प्रमुच्यत एव, पापस्य पापिनो अशासन् दण्डमकुर्वन् राजा तु तदा शासनाभावसमये किल्बिषं पापमवाप्नोत्येव ॥ ४।१८।३२ ॥
स्वकृते शिष्टाचारं प्रमाणयति– आर्येणेति । यथा येन प्रकारेण त्वया पापं कृतं तथा तेन प्रकारेण श्रमणेन केनचिदार्हतेन पापे कृते सति ईप्सितं शास्त्रानुसारि घोरं हिंसारूपं व्यसनं दुःखं दत्तमिति शेषः ॥ ४।१८।३३ ॥
अन्यैरिति । अन्यैरपि वसुधाधिपैः राजभिः प्रमत्तैर्जनैः कृतं पापं दण्डेन निवर्तितमिति शेषः । ननु गुर्वादीनां दण्डने राज्ञामनधिकारात्कथं तच्छुद्धिरित्यत आह– प्रायश्चित्तं पापनिवर्तकगायत्रीजपादि कुर्वन्ति पापे सति गुर्वादय इति शेषः । तेन प्रायश्चित्तेन तत् गुर्वादिकृतं राजपापं शाम्यते निवर्त्यते इत्यर्थः ॥ ४।१८।३४ ॥
तदिति । हे वानरशार्दूल यतो वयं स्ववशे न स्थिताः शास्त्रानुसारवर्तिन इत्यर्थः, अत एव धर्मतः धर्मपालनाय वधः परिकल्पितः तत्तस्माद्धेतोः परितापेन तव शोकेनालं, शोको न कर्तव्य इत्यर्थः ॥ ४।१८।३५ ॥
ननु ममेन्द्रपुत्रत्वे ऽपि वानरत्वेनैव व्यवहाराच्छास्त्रस्यास्मद्विषयत्वाभावात् मदनुशासनमनुचितमेवेति तदापाततः शङ्कां जिहार्षुस्तुष्यति दुर्जनन्यायेनाह– शृण्विति । हरिपुङ्गव हे वानरराज अपरं लघुकारणं वधे निमित्तं भूयः शृणु । तत् कारणं श्रुत्वा महत् मन्युं कर्तुं नार्हसि सामान्ये नपुंसकम् । किंच महत् त्वया प्रशंसनीयं कारणमित्यन्वयः ॥ ४।१८।३६ ॥
नेति । तत्र देवत्वाभाववत्वद्वधे मन्युः क्रोधः न अपेक्षित इति शेषः, अत एव मनस्तापो न । तत्र कारणमाह वागुराभिः लोहनिर्मितमृगग्राहिकाभिः पाशैश्च विविधैः अनेकप्रकारैः कूटैः कापट्ययुक्तव्यापारैश्च प्रतिच्छन्ना दृश्या वानराः राजप्रभृतयः वित्रस्तान् भीतान् अत एव प्रधावितान् पलायितान् विस्रब्धान् मद्विघातको ऽत्र नास्तीति विश्वासयुक्तान् अत एव अतिविष्ठितान् संस्थितान् वा सुबहून् अतिविपुलान् मृगान् गृह्णन्ति । एतेन ग्रहणे दोषाभावः सूचितः । श्लोकद्वयमेकान्वयि ॥ ४।१८।३७,३८ ॥
ननु शिष्टाचारेण ग्रहणे दोषाभावः प्रतीयते, न तु वधे । अत्र तु वध इत्यत आह प्रमत्तानिति । मांसार्थिनाः अनरा नरसदृशा राजानस्तु प्रमत्तानप्रमत्तान्वा विमुखान् पलायितान्वा मृगान् विध्यन्ति घ्रन्ति । अत्र वधे दोषः मनुष्यवधवत्पापं न विद्यते । एतेन मृगवधजनितपापस्याल्पत्वात् प्रायश्चित्तस्य सुकरत्वान्न तद्वधे भीतिरिति सूचितम् । यदि च मांसार्थित्वं यागार्थमित्युच्यते तदा न दोष इत्यस्य दोषसंसर्गाभावो बोध्य इति दिक् ॥ ४।१८।३९ ॥
ननु भवतामिदानीं न मांसार्थित्वमित्यत आह यान्तीति । अत्र अस्मिन्वने धर्मकोविदाः अपि राजर्षयः मृगयां यान्ति तस्माद्धेतोः यस्मात्त्वं शाखामृगो ऽसि अतः अयुध्यन् साक्षाद्युद्धमकुर्वन् प्रति युध्यन् सुग्रीवद्वारा युद्धं कुर्वश्च त्वं युद्धे मया निहतः । धर्मकोविदा इत्यनेन तेषां मृगयाप्रवृत्तिः दुष्टनिग्रहायैवेति व्यञ्जितं, तेन मत्कर्तृकवधो ऽपि त्वद्दुष्टत्वविनिवृत्तये इति ध्वनितं, तेन मृगयायामपि सप्रयोजनमेव हननमहं तु निष्प्रयोजनं हतः इति भ्रमो न कार्य इति बोधितम् । सार्धश्लोक एकान्वयी ॥ ४।१८।४० ॥
आपाततः स्वविषयकाधिक्षेपं निवर्तयितुमाह दुर्लभस्येत्यादिभिः । दुर्लभस्य अन्यैर्दुष्प्रापस्य धर्मस्य शुभस्य मङ्गलहेतुकस्य जीवितस्य च प्रदातारः राजानो भवन्तीति शेषः । अर्धद्वयमेकान्वयि । जीवितस्य प्रदातार इत्यनेन यदि त्वयि जीवितेच्छा तर्हि त्वां जीवयिष्यामीति सूचितम् ॥ ४।१८।४१ ॥
राजगुणवर्णनस्य फलमाह तानिति । देवा एव एते राजानः मानुषरूपेण महीतले चरन्ति । तस्मात् तान् राज्ञः न हिंस्यान् न वा आक्रोशेत् निन्देत्, न वा क्षिपेत् कूटं वदेत् न वा अप्रियं वदेत् ॥ ४।१८।४२ ॥
त्वमिति । केवलं रोषमास्थितस्त्वं तु धर्ममविज्ञाय पितृपैतामहे धर्मे स्थितं मां विदूषयसि । एतेन दुर्वचनं हेयमिति व्यञ्जितम् ॥ ४।१८।४३ ॥
एवमिति । रामेण एवमुक्तः अत एव धर्मे धर्मपूर्वकरामकर्तृकस्ववधे अधिगतनिश्चयः अत एव भृशं प्रमथितः दुरुक्त्याभासहेतुकव्यथां प्राप्तो वाली राघवे दोषं न दध्यौ । एतेन क्वचिन्निलीय रामो बाणं चिक्षेपेत्युक्तिरापततो रमणीया अत एवापाततः स्वबुद्ध्या रूढरामविपरीतकर्मवर्णनावसरे तन्नोक्तम् । वृक्षैरात्मानमाच्छाद्य विद्यमानां किष्किन्धामित्यर्थो वा । अत एव किष्किन्धातो निःसरणसमये रामसमीपस्थमेव सुग्रीवं वाली ददर्शेत्युक्तिः संगच्छते ॥ ४।१८।४४ ॥
प्रतीति । ततः धर्मेणैव रामेणाहं हत इति निश्चयात् हेतोः प्राञ्जलिर्वानरेश्वरः रामं प्रत्युवाच ॥ ४।१८।४५ ॥
तत्प्रतिवचनाकारमाह यदिति । हे नरश्रेष्ठ यत् त्वमात्थ कथयसि तत् तथैव सत्यमेवेत्यर्थः, इदानीं दुरुक्तिजनितस्वापराधक्षमापणाय स्तोतुमप्यहं न समर्थ इति बोधयन्नाह प्रतीति । प्रकृष्टे उत्कृष्टजनसंनिधौ अपकृष्टः नीचो जनः प्रतिवक्तुं न शक्नुयात् । एतेन यदि प्रतिवक्तुमेव न शक्नुयात्तर्हि स्तोतुं न शक्नुयादिति किं वक्तव्यमिति काव्यार्थापत्तिरलंकारो ध्वनितः ॥ ४।१८।४६ ॥
यदिति । प्रमादात् अनवधानात् अप्रियम् अत एव अयुक्तं वाक्यं यन्मया पूर्वमुक्तं तत्र मदुक्तौ मे दोषं दोषबुद्धिं कर्तुं नार्हसि ॥ ४।१८।४७ ॥
त्वमिति । हि यतः दृष्टार्थतत्त्वज्ञः अस्मदादिज्ञानविषयीभूतार्थयाथार्थ्यविज्ञाता प्रजानां हिते रतश्च त्वमसीति शेषः । अतः कार्यकारणसिद्धौ कार्यं कर्तव्यं दण्डनमित्यर्थः, कारणं तद्धेतुभूतपापं तयोः सिद्धौ निश्चये इत्यर्थः, अव्यया परिणामादिरहिता बुद्धिस्त्वदन्तःकरणधर्मविशेषः प्रसन्ना संशयरहितेत्यर्थः ॥ ४।१८।४८ ॥
मामिति । धर्मात् व्यतिक्रान्तपुरस्कृतं व्यतिक्रान्तेषु च्युतेषु पुरस्कृतम् अग्रे गणनमपि अवगतं त्वां प्राप्तं मां धर्मसंहितया धर्मवन्निष्ठया शरणागतं पालयामीत्याकारिकया वाचा परिपालय दोषान्निवर्तयेत्यर्थः । “अगतधर्माणं व्यतिक्रान्तपुरस्कृतम्” इति तीर्थपाठः ॥ ४।१८।४९ ॥
वालिनो वचनानन्तरं वर्णयितुमाह बाष्पेति । बाष्पसंरुद्धकण्ठः अत एव पङ्कलग्नः कर्दमे निमग्नः द्विपो हस्तीव सार्तः आर्तत्वसहितः रवः स्वरो यस्य स वाली रामं संप्रेक्ष्य शनैरुवाच ॥ ४।१८।५० ॥
तद्वचनाकारमाह नेति । कनकाङ्गदं सुवर्णाङ्गदविशिष्टं गुणज्येष्ठं पित्रानुकूल्यादिवर्तनरूपश्रेष्ठगुणवन्तम् अङ्गदं यथा शोचे तथा आत्मादीन् न शोचे । एतेन रामहतत्वात्प्राप्तपरमकल्याणत्वेनात्मनः शोकानर्हत्वं, तारायां बान्धवेषु च रामानुगृहीतसुग्रीवस्यापि प्रेमाधिक्यात् तयोरपि शोकानर्हत्वं व्यञ्जितम् ॥ ४।१८।५१ ॥
नन्वङ्गदे सुग्रीवद्वेषस्य त्वया अदृष्टत्वात्तद्विषयको ऽपि शोकः किमथ क्रियते इत्यत आह स इति । बाल्यात्प्रभृति बाल्यादारभ्य लालितः अत एव ममादर्शनाद्दीनः सो ऽङ्गदः पीताम्बुः सूर्यकिरणशोषितजलस्तटाक इवोपशोषं कृशत्वमित्यर्थः, गमिष्यति प्राप्स्यति ॥ ४।१८।५२ ॥
वाल इति । वालः अल्पवयस्कः अत एव अकृतबुद्धिः न कृता संपन्ना बुद्धिर्यस्मिन्सः तारेयः तारापत्यं मे प्रियः मत्प्रीतिविषयीभूतः महाबलः मे एकपुत्रः भवता रक्षणीयः । मे इत्युभयान्वयि ॥ ४।१८।५३ ॥
सुग्रीवे स्वद्वेषाभावं द्योतयन्नाह सुग्रीव इति । हि यतः कार्याकार्यविधौ विहिताविहिताचरणे यथाक्रमं गोप्ता रक्षकः शास्ता शासनकर्ता च सन् त्वं स्थितः अतः सुग्रीवे अङ्गदे च उत्तमां मद्वैरनिमित्तकपरस्परवैराजननेन उत्कृष्टां मतिं विधत्स्व संपादय ॥ ४।१८।५४ ॥
अङ्गदे ऽपि रामप्रीतिमुत्पादयितुमाह येति । हे नरपते हे राजन् अस्मद्विषयकानुरागविशिष्टभरते लक्ष्मणे च या ते वृत्तिस्त्वत्कर्मकसेवा तां सेवामेव सुग्रीवे अङ्गदे च चिन्तयितुं बोधयितुं कारयितुमित्यर्थः, अर्हसि । यदि च वृत्तिशब्देन वात्सल्यद्वारा स्थितिरुच्यते तदा ते इति कर्तरि षष्ठी ॥ ४।१८।५५ ॥
मद्दोषेति । तपस्विनीमतिविचारशीलामत एव मद्दोषकृत एव दोषो यस्यां तां स्वयं सुग्रीववधमकुर्वाणामित्यर्थः, तारां सुग्रीवो यथा नावमन्येत तथा अवस्थातुम् अवस्थापयितुं शिक्षयितुमित्यर्थः, त्वमर्हसि ॥ ४।१८।५६ ॥
सेवाप्रार्थनायां फलमाह त्वयेति । त्वद्वशे वर्तमानेन अत एव चित्तानुवर्तिना प्रीत्या त्वच्चित्तविषयीभूतेन त्वदीप्सितकारिणा वा अत एव त्वया अनुगृहीतेन जनेन राज्यं वसुधाधिपत्यमुपासितुं कर्तुं शक्यं, दिवं वसुधां च अर्जयितुम् एककालावच्छेदेन गृहीतुं शासितुं पालयितुं च शक्यम् । सार्धश्लोक एकान्वयी ॥ ४।१८।५७ ॥
ननु तवेच्छा चेत् त्वां जीवयामि राज्यं कुर्वित्यत आह त्वत्त इति । तारया वार्यमाणो ऽप्यहं त्वत्तो वधमाकाङ्क्षन् सन् सुग्रीवेण सह द्वन्द्वयुद्धमुपागतः प्राप्तः । एतेन वालिनो जीवनेच्छाभावः सूचितः । अर्धद्वयमेकान्वयि ॥ ४।१८।५८ ॥
इतीति । वानरो वाली राममित्युक्त्वा विरराम । अर्धं पृथक् ॥ ४।१८।५९ ॥
स इति । स वालिना प्रार्थितो रामः व्यक्तदर्शनमाविर्भूतज्ञानवन्तं वालिनं धर्मतत्त्वार्थयुक्तया धर्मयाथार्थ्यरूपार्थविशिष्टया अत एव साधुसंमतया वाचा आश्वासयत् ॥ ४।१८।६० ॥
तदाश्वासनप्रकारमाह नेति । हे हरिसत्तम वयं सुग्रीवप्रभृतयः आत्मा स्वस्वरूपं च न चिन्त्याः शङ्कनीयाः । तत्र हेतुः भवद्विशेषेण भवद्विषयकप्रीत्यतिशयेन युक्ताः वयं धर्मतः धर्मशास्त्रानुसारेण कृतनिश्चयास्त्वदुक्तादिसर्वकार्यविषयकनिश्चयवन्तः स्म इति शेषः ॥ ४।१८।६१ ॥
शास्त्ररीतिमेवाह दण्ड्य इति । यो राजादिः दण्ड्ये दण्डनीये दण्डं पातयेत् प्रापयेत् यश्च दण्ड्यः दण्ड्यते दण्डं प्राप्नोति तौ कार्यकारणसिद्धार्थौ कार्यकारणाभ्यां दड्यत्वदण्डकत्वाभ्यां सिद्धाः अर्थाः ययोस्तौ उभौ नावसीदतः क्लेशं प्राप्नुतः ॥ ४।१८।६२ ॥
तदिति । तत् मम शास्त्रानुसारित्वाद्धेतोः दण्डदिष्टेन दण्डविषयकशास्त्रोक्तेन वर्त्मना मार्गेण दण्डसंयोगात् मत्कर्तृकदण्डसंबन्धात् विगतकल्मषः निवृत्तपापः अत एव धर्म्यां धर्मादनपेतां स्वां प्रकृतिं गतः प्राप्तो भवानस्तीति शेषः ॥ ४।१८।६३ ॥
त्यजेति । हृदये स्वान्तःकरणे स्थितं शोकं पुत्रादिवृत्तविषयकचिन्तां मोहं तद्विषयकस्नेहजनितवैचित्यं च भयं स्वकृतपापजनितभीतिं च त्यज । तत्र हेतुः हे हर्यग्र्य त्वया विधानं त्वत्कर्तृकविचारविषयीभूतमित्यर्थः, अतिवर्तितुमन्यथा कर्तुं न शक्यं, केनचिदिति शेषः ॥ ४।१८।६४ ॥
यथेति । अङ्गदः यथा त्वयि नित्यं वर्तते अवर्तत तथा मयि सुग्रीवे च वर्तेत संशयः अस्मिन्विषये संदेहः न कार्य इति शेषः ॥ ४।१८।६५ ॥
स इति । धर्मपथानुवर्तिनः धर्मरूपमार्गमात्रवर्तनशीलस्य रणावमर्दिनः रणप्राप्तरिपुमर्दनकर्तुः महात्मनस्तस्य स्वसंमुखं प्राप्तस्य रामस्य सुयुक्तं शोभनयुक्तिसहितं समाहितं समाधानकारकं मधुरं वाक्यं निशम्य श्रुत्वा वानरो वाली निजगाद पुनरुवाच ॥ ४।१८।६६ ॥
तदाकारमाह शरेति । हे विभो हे महेन्द्रोपम हे भीमविक्रम शराभितप्तेन बाणवेगपीडितेन अत एव विचेतसा अत एव अजानता विशेषज्ञानाभाववता मया यत्त्वं प्रभाषितः दोषाभासवत्त्वेनोक्तस्तत् मे प्रसादितः मया प्रार्थितस्त्वं क्षम क्षमस्व ॥ ४।१८।६७ ॥
श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टादशः सर्गः ॥ ४।१८ ॥