वालिवृत्तान्तमेव वर्णयन्नाह तत इत्यादिभिः । ततः शरप्रक्षेपानन्तरं रामेण कर्त्रा शरेण करणेन अभिहतः रणकर्कशो वाली निकृत्तः छिन्नः पादप इव सहसा पपात ॥ ४।१७।१ ॥
स इति । तप्तकाञ्चनभूषणः स वाली मुक्तरश्मिः त्यक्तबन्धनरज्जुः अत एव भूमौ न्यस्तसर्वाङ्गः देवराजस्य ध्वज इव अपतत् ॥ ४।१७।२ ॥
तस्मिन्निति । हर्यृक्षाणां हरीणाम् ऋक्षाणां च गणेश्वरे तस्मिन् वालिनि भूमौ निपतिते सति मेदिनी पृथिवी नष्टचन्द्रं व्योमाकाशमिव न व्यराजत ॥ ४।१७।३ ॥
भूमाविति । भूमौ निपतितस्यापि महात्मनस्तस्य वालिनो देहं श्रीप्रभृतिर्न जहाति ॥ ४।१७।४ ॥
तत्र कारणमाह शक्रेति । रत्नभूषिता काञ्चनी स्वर्णमयी अत एव वरा शक्रदत्ता सा प्रसिद्धा माला हरिमुख्यस्य वालिनः प्राणादीन् दधार धारयामास । एतेन मालायाः प्रभावातिशयः सूचितः ॥ ४।१७।५ ॥
स इति । हरियूथपः स वाली तया इन्द्रदत्तया हैमया हैम्या मालया सन्ध्यानुगतपर्यन्तः सन्ध्यारागव्याप्तः पयोधरो मेघ इव अभवत् ॥ ४।१७।६ ॥
तस्येति । पतितस्यापि तस्य वालिनो यो मालाप्रभृतिः शोभते स मालाप्रभृतित्रिधा रचिता विधात्रा निर्मिता लक्ष्मीः शरीरशोभेव ॥ ४।१७।७ ॥
तदिति । स्वर्गमार्गप्रभावनं स्वर्गमार्गस्य साकेताध्वनः रामतत्त्वज्ञानस्येत्यर्थः, प्रभावनं स्वस्पर्शमात्रेण प्रापकं रामबाणासनक्षिप्तं रामबाणासनेन रामसंबन्धिधनुषा क्षिप्तं प्रक्षिप्तं वीरस्य तस्य रामस्य तत्प्रसिद्धमस्त्रं बाणः परमात्युत्कृष्टां गतिं साकेतलोकमावहत् प्रापयितुमैच्छत् ॥ ४।१७।८ ॥
तमिति । गतार्चिषं निवृत्तज्वालं पतितमनलमिव देवलोकात् इह पृथिव्यां च्युतं ययातिमिव युगान्ते कालेन भुवि पातितमादित्यमिव महेन्द्रमिव दुर्धर्षम् उपेन्द्रं वामनमिव दुःसहं व्यूढोरस्कं व्यूढं विशालसुरो यस्य स तं महाबाहुमाजानुबाहुविशिष्टं दीप्तास्यं प्रकाशितमुखविशिष्टं हरिलोचनं पीतवर्णविशिष्टलोचनविशिष्टं संख्ये संग्रामे पतितं महेन्द्रपुत्रं वालिनं लक्ष्मणो ऽनुचरो यस्य स रामो ददर्श उपससर्प तत्समीपदेशसंयोगानुकूलव्यापारं चकार । हरितशब्दः पीतवचनः । “पालाशो हरितो हरित्” इति क्रोशः । तकारलोप आर्षः इति भट्टाः । वस्तुतस्तु हरिशब्दस्यापि पीतवाचकत्वम् “स्वर्णवर्णो हरिः स्मृतः” इत्यनेकार्थः । सार्धश्लोकत्रयमेकान्वयि ॥ ४।१७।९११ ॥
तमिति । गतार्चिषमनलमिव संख्ये तथा पतितं वीरपरिपाट्या संग्रामभुवि लुण्ठितम् अत एव बहुमान्यमधिकं सत्करणीयं वीक्ष्यमाणं दृष्टिपथं प्राप्तं वीरं तं प्राप्तमोक्षं तं वालिनं भ्रातरौ रामलक्ष्मणौ शनैरुपयातौ “तश्चौरामृतपुच्छेषु” इति कोशः । सार्धश्लोक एकान्वयी ॥ ४।१७।१२,१३ ॥
तमिति । तं स्वसमीपं प्राप्तं रणगर्वितं रणगर्वित्वं तनोति स्वाश्रितेषु विस्तारयति
यदाश्रयात्कातरा अपि शूरा भवन्तीत्यर्थः, तं राघवं लक्ष्मणं च दृष्ट्वा परुषं परुषत्वेन प्रतीयमानं प्रश्रितं नम्रतासूचकं धर्मसंहितं धर्मसंयुक्तं गर्वितं स्वगर्वसूचकं वाक्यमर्थसंहितया स्वार्थयुक्तया वाचा नित्यं युक्त इति शेषः, स्वार्थसाधकवचनपरायण इत्यर्थः, निहतः रामबाणेन विद्धः अत एव भूमौ पतित इति शेषः, अत एव अल्पतेजोसुः अल्पतेजो ऽल्पप्राणविशिष्टः अत एव नष्टचेतनः विनष्टबुद्धिः स वाली अब्रवीत् । किंच अगर्वितमिति छेदः । तद्रामविशेषणं रणगर्वितमिति वाक्यविशेषणम् । श्लोकद्वयमेकान्वयि ॥ ४।१७।१४,१५ ॥
तद्वचनाकारमाह पराङ्मुखेति । पराङ्मुखवधं युद्धोन्मुखरहितजनहिंसां कृत्वा कः गुणः प्राप्तः, केन पुरुषेणेति शेषः । यत् यस्मात् गुणात् अत्र समये युद्धसंरब्धः अन्येन योद्धुमाश्रितकोपो ऽहं त्वत्कृते त्वद्व्यापारे जाते निधनं मृत्युं गतः । “शरेणोरसि ताडितः” इति तीर्थपुस्तकपाठः । अन्येन योद्धुमाश्रितकोपो ऽहमित्युक्त्या रामसुग्रीवयोर्मैत्री जातेति तयोश्चैक्यमेवेत्यंशे वालिनः परमज्ञानं सूचितम् ॥ ४।१७।१६ ॥
कुलीन इति । कुलीनः शोभनकुले प्रादुर्भूतः सत्त्वसंपन्नः प्राकृतविलक्षणसत्त्वगुणयुक्तस्तेजस्वी अतिशयतेजोविशिष्टः चरितव्रतः चरितानि कृतानि व्रतानि वेदोक्तकर्माणि येन सः करुणवेदी करुणं दयावन्तं वेत्ति स्वकीयत्वेन जानाति तच्छीलः प्रजानां हिते इष्टसाधने रतः सानुक्रोशः दयासहितः महोत्साहः महान् ध्वंसाप्रतियोगित्वेन अतिप्रशंसनीयः उत्साहो यस्य सः, समयज्ञः समयं कार्योचितकालं जानाति सः दृढव्रतः अप्रच्युतसंकल्पः रामो ऽस्ति इत्येतत् तव यशः भुवि सर्वभूमौ सर्वभूतानि सर्वे प्राणिनः कथयन्ति अत एव हे राजन् पार्थिवानां ये दमादयो गुणास्तान् गुणान् संप्रधार्य त्वयि निश्चित्य अग्र्यं सर्वोत्कृष्टं तवाभिजनं महाकुलोद्भवत्वं च संप्रधार्य तारया प्रतिषिद्धः सन्नप्यहं सुग्रीवेण समागतः योद्धुं प्राप्तः । श्लोकचतुष्टयमेकान्वयि ॥ ४।१७।१७२० ॥
ननु किमेतत् निश्चयेनेत्यत आह नेति । अन्येन संरब्धं योद्धुं जातकोपम् अत एव प्रमत्तं त्वत्तो ऽनवधानं मां वेद्धुं बाणेन ताडयितुं नार्हति राम इति शेषः, इति मे बुद्धिः तवादर्शने त्वत्कर्मकदर्शनाभावे उत्पन्ना बभूव ॥ ४।१७।२१ ॥
ननु ममैतेनाभेद एवेत्यत आह नेति । पापसमाचारं पापाचरणशीलम् अत एव अधार्मिकं धार्मिकप्रतियोगिकभेदविशिष्टम् अत एव विनिहतात्मानं विनिहतस्त्वया घातितः आत्मा मम देहो येन तं तृणैरावृतं कूपमिव तृणाच्छन्नकूपसदृशं सुग्रीवं धर्मध्वजं परमधर्मप्रकाशकं त्वामहं न जाने युवयोर्भेदाभावो न संभवतीत्यर्थः ॥ ४।१७।२२ ॥
असंभवे हेतुमाह सतामिति । सतां सज्जनानां वेषधरं व्याप्तिधारकं सर्वज्ञतासंपादकमित्यर्थः, प्रच्छन्नं भस्मादिभिरावृतं पावकमिव तिरोहितस्वप्रकाशब्रह्मकमित्यर्थः, त्वां धर्मच्छद्माभिसंवृतं धर्मव्याजेन युक्तं पापं पापसंबन्धिनं सुग्रीवं नाभिजानामि केनचित्प्रमाणेनाभेदं न निश्चिनोमीत्यर्थः ॥ ४।१७।२३ ॥
नन्वभेदो मास्त्वित्यत आह विषय इति । ते तव विषये त्वद्भोग्यदेशे पुरे वा यदा पापमपराधमहं न करोमि तदा अकिल्बिषम् अपराधरहितं नित्यं फलमूलाशनं वनगोचरं वनमात्रनिवासिनमप्रतियुध्यन्तं त्वया सह युद्धमकुर्वन्तमन्येन सुग्रीवेण समागतं युध्यन्तं मां त्वं कस्माद्धंसि । एतेन परमधर्मज्ञत्वत्कर्तृकानपराधिमत्कर्मकहननमेवाभेदं बोधयतीति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ४।१७।२४,२५ ॥
स्ववधायोग्यत्वमेव बोधयन्नाह त्वमिति । नराधिपतेः दशरथस्य पुत्रः अत एव प्रतीतः विश्वसनीयः प्रियदर्शनस्त्वमसीति शेषः । हे राजन् लिङ्गं धर्मबोधकचिह्नं ते अस्ति अत एव ते धर्मसहितं नित्यं धर्माचरणं दृश्यते प्रतीयते । एतेनायुक्तैतद्धननहेतुं त्वं ब्रूहीति सूचितम्, लिङ्गमप्यस्तीत्यनेन वालिनः सूक्ष्मदर्शित्वं व्यक्तम् ॥ ४।१७।२६ ॥
प्राकृतो ऽपि जनो ऽनपराधिनं न हन्तति बोधयन्नाह क इति । श्रुतवान् शास्त्रश्रवणसंपन्नः अत एव नष्टसंशयः धर्माधर्मविषयकसंशयरहितः अत एव धर्मलिङ्गप्रतिच्छन्नः धर्मबोधकवाक्याधीनः क्षत्रियकुले जातः कः क्रूरं शास्त्रविरुद्धहिंसादिरूपं कर्म समाचरेत्, न को ऽपीत्यर्थः ॥ ४।१७।२७ ॥
रामेति । हे राम धर्मवानिति विश्रुतः प्रख्यातः भव्यरूपेण सकलसज्जनमङ्गलकारकत्वरूपेण राजकुले जातः प्रादुर्भूतः अभव्यः अचिन्तनीयप्रभावस्त्वं किमर्थं परिधावसि सुग्रीवेण सह परिभ्रमसि ॥ ४।१७।२८ ॥
स्ववधस्यायोग्यत्वं बोधयितुं राजधर्मानाह सामेति । हे राजन् सामादयो ऽष्टौ पार्थिवानां गुणाः, सन्तीति शेषः । एतेना ऽनपकारिमद्वधे तव धर्मच्युतिः स्यादिति सूचितम् ॥ ४।१७।२९ ॥
ननु तवाज्ञातः कश्चिदपराधो भवेदित्यत आह वयमिति । हे राम वयं मृगाः अत एव वनचराः वनमात्रनिवासिनः अत एव मूलफलाशिनः स्म इति शेषः । ननु त्वत्कर्तृकपुरवासादौ को बोधक इत्यत आह एषा वनचरत्वादिरूपा ऽस्माकं प्रकृतिः स्वभावसिद्धां त्वं तु नरेश्वरः मनुष्यादिनियन्ता पुरुषो ऽसीति शेषः । एतेन त्वन्निरूपितनियम्यत्वमपि मयि नास्तीति सूचितं तेन मयि तवापराधकर्तृत्वयोग्यता नास्तीति ध्वनिनम् ॥ ४।१७।३० ॥
ननु ममाखण्डमण्डलेश्वरत्वात् सर्वनियामकत्वे मन्निरूपितनियम्यत्वं त्वयि सिद्धमेवेत्यत आह भूमिरिति । निग्रहे दण्डे नियमने कारणानि भूम्यादित्रीणि तत्र तेषु तवानुपयुक्तेषु अत एव मदीयेषु वनचरमात्रोपयोगिषु वने विद्यमानेषु फलेषु ते तव को लोभः लोभकारणं नास्तीत्यर्थः । एतेन अकारणकं नियमनं लोके न दृष्टमिति सूचितम् ॥ ४।१७।३१ ॥
ननु स्वतन्त्रत्वात् यथेच्छं मम क्रियेत्यत आह नय इति । नयो यथोचिताज्ञाप्रापणं, विनयः विनम्रता उभौ इमौ द्वौ निग्रहानुग्रहावप्युभौ असंकीर्णा वैपरीत्यरहिता राज्यवृत्तिरस्तीति शेषः, अतः नृपाः कामवृत्तयः अविहितस्वच्छन्दवर्तिनो न भवन्तीति शेषः ॥ ४।१७।३२ ॥
त्वमिति । त्वं तु कामप्रधानं कामः कामी सुग्रीवः प्रधानो यस्य सः तत्प्रार्थितकारीत्यर्थः, अत एव कोपनः कोपाविषयेष्वपि कोपवान् अत एवानवस्थितः चञ्चलचित्तः अत एव राजवृत्तेषु संकीर्णः विपरीतवृत्तिः अत एव शरासनपरायणः वधायोग्येष्वपि बाणप्रक्षेपणनिरतो ऽसीति शेषः । एतेन सुग्रीवसंसर्गस्त्वया न कार्य इति सूचितम् ॥ ४।१७।३३ ॥
ननु मय्येव दोषाः सन्ति सुग्रीवसंसर्गस्य न दोष इत्यत आह नेति । यतस्ते तव धर्मे अपचितिः प्रशंसा अस्तीति शेषः, अतः अर्थे अन्यदीयधने तव बुद्धिर्नैवावस्थिता अत एव कामवृत्तः सन् इन्द्रियैस्त्वं न कृष्यसे । यद्वा धर्मे अर्थे च ते बुद्धिरवस्थिता अनवस्थिता नास्ति अत एव ते अपचितिर्हानिर्नास्ति अत एव कामवृत्तः सन् त्वमिन्द्रियैर्न कृष्यसे । एतेन त्वयि दोषस्थितेर्न संभव इति ध्वनितम् । वाश्चार्थे “भवेदपचितिः पूजाव्ययनिष्कृतिहानिषु” इति मेदिनी । भागुरिमतेनाकारलोपे नञसमासे अनवस्थितेत्यर्थलाभः ॥ ४।१७।३४ ॥
सुग्रीवसंसर्गस्तव हानिकर इति बोधयन्नाह– हत्वेति । जुगुप्सितं निन्दितं पापिसख्यरूपं कर्म कृत्वा अत एव अनपराधिनं मां हत्वा सतां मध्ये किं वक्ष्यसि ॥ ४।१७।३५ ॥
सुग्रीवपापित्वमेव प्रकाशयन्नाह राजेति द्वाभ्याम् । राजहादयः निरयगामिनः नरकगमनशीलाः एते सर्वे पापात्मनां लोके गच्छन्ते गच्छन्ति अत्र संशयो न । तत्र परिवेत्ता ज्येष्ठे अकृतोद्वाहे अकृताग्न्याधाने च कृतोद्वाहः कृताग्न्याधानः कनिष्ठः । एतेन मद्वधः सुग्रीववशेनेति सूचितं तेन सुग्रीव एव महापापीति व्यञ्जितम् ॥ ४।१७।३६,३७ ॥
ननु मृगयायां वन्यवधो राज्ञां धर्म एवेत्यत आह– अधार्यमिति । त्वद्विधैः धर्मचारिभिः धर्मप्रवर्तकैः सद्भिः मे चर्म अधार्यं रोमाणि अस्थि च वर्जितम् अस्पृश्यमित्यर्थः, मांसानि अभक्ष्याणि । एतेन मृगयायामपि अकारणिका हिंसा न कर्तव्येति सूचितम् ॥ ४।१७।३८ ॥
अभक्ष्यत्वे प्रमाणमाह– पञ्चेति । हे राघव ब्रह्मक्षत्रेण ब्राह्मणेन क्षत्रियेण च पञ्चनखाः शल्यकादयः पञ्चैव भक्ष्याः । परिसङ्ख्याविधिरयं रागादन्यत्रापि भक्षणस्य प्राप्तत्वात्, अत एव एवकारलाभः । तथाच मीमांसा– “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते” इति । तत्र शल्यकः शुक्तिकाकारशल्यावृतनिखिलशरीरः जन्तुविशेषः, स एव खङ्गीत्युच्यते । श्वाविधः कण्टकाकारस्वदीर्घरोमभिः श्वानं विध्यते सः ॥ ४।१७।३९ ॥
मद्धननं निरर्थकमेवेत्याह– चर्मेति । हेराम मनीषिणः यस्य मे चर्मादि न स्पृशन्ति, मांसानि चाभक्ष्यणि स पञ्चनखो ऽहं हतस्त्वयेति शेषः ॥ ४।१७।४० ॥
इदानीं मदीया युद्धप्रवृत्तिरेव नोचितेति बोधयन्नाह तारयेति । सर्वज्ञया तारया हितं सत्यं वाक्यमहमुक्तः, मोहेन स्वज्ञानेन तद्वाक्यमतिक्रम्य कालस्य मृत्योर्वशमागतः प्राप्तः ॥ ४।१७।४१ ॥
त्वयेति । विधर्मणा सुग्रीवप्रार्थितविरुद्धधर्माचरणेन त्वया नाथेन वसुन्धरा पृथ्वी विधर्मणा किंचित्संसर्गवशेन विरुद्धधर्माचरणेन पत्त्या शीलसंपूर्णा प्रमदेव सनाथ न प्रतीयते इति शेषः ॥ ४।१७।४२ ॥
शठ इति । महात्मना पा पृथिवीपालकेन दशरथेन जातस्त्वं शठः क्रूरचित्तः अत एव नैकृतिकः निकृतिमपकारं रचयति सः अत एव क्षुद्रः नीचकर्मा अत एव मिथ्याप्रश्रितमानसः कापट्येन नम्रचित्त इव प्रतीत इत्यर्थः । सुग्रीवः कथमापः प्रापः, वाक्यस्य कर्मतया ऽन्वयान्न द्वितीया ॥ ४।१७।४३ ॥
छिन्नेति । छिन्नचारित्रकक्ष्येण छिन्ना चारित्रकक्ष्या सदाचारमर्यादा येन स तेन अत एव सतां धर्मातिवर्तिना सज्जनधर्मोल्लङ्घनशीलेन अत एव त्यक्तधर्माङ्कुशेन त्यक्तः अतिप्रार्थनया त्याजितः धर्माङ्कुशो येन तेन सुग्रीवेण कर्त्रा रामहस्तिना रामहस्तसंबन्धिना बाणेन करणेन अहं निहतस्ताडितः ॥ ४।१७।४४ ॥
अशुभमिति । अशुभम् अविहितहिंसामयत्वेनामङ्गलम् अत एव अयुक्तम् अयोग्यम् अत एव सतां विगर्हितम् ईदृशम् अन्यप्रार्थनया संपादितं कर्म कृत्वा सद्भिः सह समागतस्त्वं किं वक्ष्यसे । एकश्चकारः किमर्थे ॥ ४।१७।४५ ॥
ननु स्वप्रयोजनसाधनार्थमेवेदं मया कृतमित्यत आह उदासीनेष्विति । हे राम उदासीनेषु उपकारानपकाररहितेषु अस्मासु यो ऽयमुत्कटः विक्रमः प्रकाशितः सुग्रीवेण कारित इत्यर्थः, एवमनेन प्रकारेण ते अपकारिषु विक्रमं सुग्रीवपराक्रमं न पश्यामि सुग्रीवो न करिष्यतीत्यर्थः ॥ ४।१७।४६ ॥
दृशीति । हे नृपात्मज दृशी सर्वद्रष्टा अत एव अमानः सर्वद्रष्टृत्वादिगर्वरहितः किंच न मानः पूजावान् यस्मात् सः सर्वपूज्य इत्यर्थः, त्वं यदि मया सह युधि युध्येयास्तदा अद्यैव मया निहतस्ताडित एव त्वं स्वतम् अतिविस्तृतं देवं मद्युद्धोत्साहजनितकान्तिं त्वं पश्येः । एतेन सुग्रीवस्याल्पबलत्वान्ममातीवयुद्धोत्साहो न जात इति ध्यनितम् । तुशब्दो यद्यर्थे । इववैशब्दावेवार्थे ॥ ४।१७।४७ ॥
त्वयेति । दृश्येन मद्दृष्टिपथं गतेनापि त्वया दुरासदः अन्यैर्धर्षयितुमशक्यो ऽहं पानवशं गतः मद्यादिपानवशं प्राप्तः अत एव प्रसुप्तः प्रसुप्तसदृशो नरः पन्नगेनेव निहतः । एतेन सुग्रीवं त्यक्त्वा रामेणैव सह मया युद्धं न कृतमिति वालिपश्चात्तापः सूचितः ॥ ४।१७।४८ ॥
सुग्रीवेति । यत् यदर्थं सुग्रीवप्रियकामेन त्वया अहं निहतः एतदर्थं यदि मां पूर्वं त्वमचोदयस्तर्हि रणे अनिहतमेव तव भार्यापहारिणमत एव दुरात्मानं रावणं राक्षसं कण्ठे बद्धा ते तुभ्यमहं प्रदद्याम् । श्लोकद्वयमेकान्वयि । एतेन दीनदयालुत्वादयो रामगुणाः वालिना न ज्ञाता इति सूचितम् ॥ ४।१७।४९,५० ॥
न्यस्तामिति । सागरतोये वा पाताले वा न्यस्तां केनचित्संस्थापितामेतां त्वदीप्सितां मैथिलीं तवादेशात् त्वदाज्ञात अश्वतरीम् अश्वेन हयग्रीवेण तरति स्वस्थानं प्राप्नोति तां वेदश्रुतिमिव शु आशु आनयेयम् । अश्वतरीशब्दः गौरादिङीषन्तः अणन्तप्रकृतिको वा, वृद्ध्यभावस्तु संज्ञापूर्वकविधेरनित्यत्वात् । किंच श्वेतां शुक्लामश्वतरीं तद्रूपां श्रुतिमिव उक्तस्वरूपां श्रुतिं मधुकैटभौ जहृतुस्तां हयग्रीवो ऽनयदिति प्रसिद्धम् ॥ ४।१७।५१ ॥
युक्तमिति । अधर्मेणोपलक्षितो ऽपि सुग्रीवः मयि स्वर्गते सति यद्राज्यं प्राप्नुयात् तद्युक्तं, यत् अहं त्वया रणे निहतस्तत्तु अयुक्तम् । किंच यत् त्वया रणे ऽहं निहतस्तद्युक्तम् अत एव मयि स्वर्गते सति अधर्मेण अयुक्तं धर्मेण पालितमित्यर्थः, यत् राज्यं तत् सुग्रीवः प्राप्नुयात् । सुबुद्धं राजानमन्तरा धर्मो नङ्क्ष्यतीति तात्पर्यम् ॥ ४।१७।५२ ॥
काममिति । एवंविधः मत्सदृशः लोकः सर्वजनः कालेन कामं यथेच्छं विनियुज्यते शरीरेभ्य इति शेषः, अतो मयि न विषाद इति तात्पर्यम् । ननु विषादाभावे कथमेवं बहु वदसीत्यत आह क्षमं युक्तं प्राप्तं लोकम् अनुभूतमुत्तरं किमर्थं वाली त्वया निहतः इति जनप्रश्नप्रत्युत्तरं साधु चिन्यताम् ॥ ४।१७।५३ ॥
इतीति । शराभिघाताद्व्यथितः अत एव परिशुष्कवक्रः महात्मा अमरराजसूनुः वाली इत्येवमुक्त्वा रविसंनिकाशं रवेरपि प्रकाशकं रामं समीक्ष्य तूष्णीं बभूव ॥ ४।१७।५४ ॥
इति श्रीमद्वाल्मीकीयरामयणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ ४।१७ ॥