तारावचनश्रवणानन्तरकालिकं वालिवृत्तान्तमाह तामित्यादिभिः । ताराधिपनिभाननां चन्द्रमुखीम् एवं ब्रुवतीं तारां वाली निर्भर्त्सयामास इदं वचनमब्रवीच्च ॥ ४।१६।१ ॥
तद्वचनाकारमाह गर्जत इति । गर्जतो विविशेषतः शत्रोर्भ्रातुरस्य सुग्रीवस्य सुसंरब्धं गर्वं केन कारणेन मर्ययिष्यामि मर्षणकारणं नास्तीति तात्पर्यम् । विशेषत इत्यस्य गर्जत इत्यत्रान्वयो वा ॥ ४।१६।२ ॥
सहने दोषमाह अधर्षितानामिति । अधर्षितानां पराभूतिरहितानां समरेषु अनिवर्तिनां शूराणां धर्षणामर्षणं धर्षणायाः सहनं मरणात् अतिरिच्यते अधिकं भवति । ननु किमेतेनेत्यत आह सोढुमिति । इनग्रीवस्य इना श्रेष्ठा विपुलेत्यर्थः, ग्रीवा यस्य तस्य संयुगे युद्धकामस्य सुग्रीवस्य संरम्भं गर्वं गर्जितं च सोढुं नैव समर्थः । हिशब्द एवार्थ । अत एव विपुलग्रीव इत्यनेन न विरुध्यते ॥ ४।१६।३,४ ॥
न च सुग्रीवस्यातिप्रबलराघवसंसर्गित्वाद्विषाद इत्यत आह नेति । धर्मज्ञः कृतज्ञो रामः मत्कृते अस्मदर्थं पापमनुचितं कथं करिष्यति उचितमेव करिष्यतीत्यर्थः, अतः राघवं प्रति त्वया विषादो न कार्यः । एतेन वालिनो रघुनाथानुकूलवर्तित्वं सूचितम् ॥ ४।१६।५ ॥
निवर्तस्वेति । स्त्रीभिः सह कथं किमर्थमनुगच्छसि अनुगमनस्य न प्रयोजनमित्यर्थः, अतः निवर्तस्व । मयि सौहृदं मैत्री भूयो ऽधिकं त्वया दर्शितम्, भक्तिः सेवा च कृता ॥ ४।१६।६ ॥
न च भ्रातृवधे दोषः स्यादित्यत आह प्रतीति । अहं सुग्रीवं गत्वा प्राप्य प्रतियोत्स्यामि अत एवास्य सुग्रीवस्य दर्पं गर्वं विनेष्यामि दूरीकरिष्यामि प्राणैस्तु न मोक्ष्यते । अतः संभ्रमं भ्रातवधजनितदोषहेतुकभीतिं जहि त्यज ॥ ४।१६।७ ॥
अहमिति । आजिस्थितस्य संग्रामस्थस्य अस्य सुग्रीवस्य यत्त्वया ईप्सितम् अस्य वधो न भवेदिति वाञ्छितं तदहं करिष्यामि अतः वृक्षैः वृक्षप्रहारैः मुष्टिप्रहारैश्च पीडितः सन् प्रतियास्यति स्वगुहां प्राप्स्यति ॥ ४।१६।८ ॥
यदुक्तं दानमानादिसत्कारैरिति तस्य प्रत्युत्तरमाह नेति । गर्वितं सामानाधिकरण्यसंबन्धेन स्वबलवत्त्वादिजनितगर्वविशिष्टं मे आयस्तं प्रवृत्तिं न सहिष्यति । एतेन तस्य मद्वशवर्तित्वं न भविष्यतीति सूचितम् । “नाहं गर्वितमायस्तं सहिष्यामि दुरात्मनः” इति तीर्थाङ्कितपुस्तकपाठः । कृतमिति । हे तारे सहायत्वमुचितवाक्यसहायता त्वया कृतं मयि सौहृदं च दर्शितम् ॥ ४।१६।९ ॥
शापितेति । मम प्राणैस्त्वं शापिता शपथं प्रापिता अतः जनेन स्वपरिकरेण सह निवर्तस्व अहं तु रणे भ्रातरमलं जित्वा निवर्तिष्यते ॥ ४।१६।१० ॥
तमिति । तं स्वोक्तस्वीकाराभाववन्तं वालिनं परिष्वज्य दक्षिणा अतिकुशला तारा मन्दं रुदती सती प्रदक्षिणं चकार ॥ ४।१६।११ ॥
तत इति । ततः प्रदक्षिणकरुणानन्तरं मन्त्रवित् स्वस्त्ययनादिमन्त्रवेदित्री विजयैषिणी तारा स्वस्त्ययनं कृत्वा शोकमोहिता सती स्त्रीभिः सह अन्तःपुरं प्रविष्टा ॥ ४।१६।१२ ॥
प्रविष्टायामिति । तारायां स्वमालयं प्रविष्ठायां सत्यां क्रुद्धो महासर्प इव श्वसन् वाली नगर्याः किष्किन्धायाः निर्ययौ ॥ ४।१६।१३ ॥
स इति । महारोषः स वाली शत्रुदर्शनकाङ्क्षया सर्वतो दृष्टिं चारयन्सन् सुसंवीतं बद्धकवचादिम् अवष्टब्धं दृढं स्थितमनलमिव दीप्यमानं सुग्रीवं ददर्श, श्रीमान्स सुग्रीवो ऽपि ततस्तं वालिनं ददर्श । श्लोकद्वयमेकान्वयि ॥ ४।१६।१४,१५ ॥
तमिति । महाबाहुर्वाली सुग्रीवं पर्यवस्थितं दृष्ट्वा वासः वस्त्रं गाढं परिदधे ॥ ४।१६।१६ ॥
स इति । गाढसंवीतः दृढं बद्धकटिः कृतक्षणः प्रकटितयुद्धोत्सवः अभिमुखः सुग्रीवसंमुखे स्थितः स वाली योद्धुं सुग्रीवं ययौ ॥ ४।१६।१७ ॥
श्लिष्टमिति । सुग्रीवो ऽपि संरब्धतरमतिक्रुद्धं वालिनं समुद्दिश्य श्लिष्टं दृढं बद्धं मुष्टिं समुद्यम्य उत्थाप्य आगतः वालिसमीपं प्राप्तः ॥ ४।१६।१८ ॥
तमिति । रणकोविदं रणे चतुरं क्रोधताम्राक्षं महावेगमापतन्तं सुग्रीवमिदं वचनमब्रवीत् ॥ ४।१६।१९ ॥
तद्वचनाकारः एष इति । गाढः दृढः मया बद्धः सुनियताङ्गुलिः सुनियता यथोचितसंनिवेशिता अङ्गुलयो यस्मिन् स एष महान्मुष्टिः मया वेगविमुक्तः सन् ते प्राणान् आदाय यास्यति ॥ ४।१६।२० ॥
एवमिति । एवमुक्तः अत एव क्रुद्धः सुग्रीवस्तव प्राणान् हरन् सन् एषः मया बद्धो मुष्टिस्तव मूर्धनि पततु इति वालिनमब्रवीत् ॥ ४।१६।२१ ॥
ताडित इति । समभिक्रम्य द्रुतं सुग्रीवसमीपं संप्राप्य तेन वालिना वेगतस्ताडितः अत एव संक्रुद्धः सुग्रीवः सापीडः निर्झरसहितः पर्वत इव शोणितोद्गारी शोणितप्रवाहवान् अभवत् ॥ ४।१६।२२ ॥
सुग्रीवेणेति । तेजसा अतिप्रभावेण उपलक्षितेन सुग्रीवेण सालमुत्पाट्य निःशङ्कं यथा भवति तथा वज्रेण महागिरिरिव वाली गात्रेषु अभिहतः ॥ ४।१६।२३ ॥
स इति । वृक्षेण निर्भग्नः अत एव सालताडनविह्वलः सालेन प्राप्तेन ताडनेन विह्वलः वाली ससार्था सार्थैः सहिता अत एव गुरुभारभराक्रान्ता सागरे नौरिव अभवदिति शेषः ॥ ४।१६।२४ ॥
ताविति । भीमबलविक्रान्तौ बलेन विक्रान्तौ कृतपादन्यासौ अत एव भीमौ भयंकरौ भीमावेव बलविक्रान्ताविति कर्मधारयः भयंकरबलेन कृतपादन्यासावित्यर्थो वा । सुपर्णसमवेगितौ गरुडसमवेगं प्राप्तौ प्रयुद्धौ प्रवृद्धयुद्धविशिष्टौ घोरवपुषौ अमित्रघ्नौ शत्रुसूदनौ तौ वालिसुग्रीवौ अम्बरे चन्द्रसूर्याविव दृश्येते इति शेषः । सार्धश्लोक एकान्वयी ॥ ४।१६।२५ ॥
तत इति । ततः युद्धप्रवृद्ध्यनन्तरं बलवीर्यसमन्वितो वाली अवर्धत, सूर्यपुत्रः सुग्रीवस्तु परिहीयत । आगमशास्त्रस्यानित्यवात् अडभावः ॥ ४।१६।२६ ॥
वालिनेति । वालिना भग्नदर्पः अत एव मन्दविक्रमः अत एव वालिनं प्रति सामर्षः अमर्षसहितः सुग्रीवः राघवं दर्शयामास बोधयामास । स्वहानिं वालिनो वृद्धिं चेति शेषः ॥ ४।१६।२७ ॥
सिंहावलोकनन्यायेन तयोर्युद्धमेव वर्णयति वृक्षैरित्यादिभिः । वृक्षादिभिस्तयोर्वालिसुग्रीवयोः वृत्रवासवयोरिव घोरं युद्धमभूत् । सार्धश्लोक एकान्वयी ॥ ४।१६।२८,२९ ॥
ताविति । शोणिताक्तौ रुधिरलिप्तौ महाशब्दैर्मेघाविव तर्जमानौ वानरौ तौ वालिसुग्रीवौ परस्परं युध्येताम् ॥ ४।१६।३० ॥
हीयमानमिति । अथ सुग्रीवबोधनानन्तरं राघवः हीयमानं क्षीणतां प्राप्नुवन्तमत एव मुहुर्मुहुः दिशः प्रेक्षमाणं सुग्रीवमपश्यत् ॥ ४।१६।३१ ॥
तत इति । महातेजाः स रामः हरीश्वरं सुग्रीवमार्तं दृष्ट्वा वालिनो वधकाङ्क्षया शरं बाणं वीक्षते व्यैक्षत ॥ ४।१६।३२ ॥
तत इति । ततः धनुःकर्मकवीक्षणानन्तरमाशीविषोपमं शरं धनुषि संधाय तत् शरसहितं चापं कालचक्रमन्तक इव पूरयामास आकर्णान्तमाकृष्टवानित्यर्थः ॥ ४।१६।३३ ॥
तस्येति । तस्य चापस्य ज्यातलघोषेण त्रस्ताः उद्विग्ना पत्ररथेश्वराः पक्षिराजाः मृगाश्च युगान्ते प्रलयसमये मोहिता जना इव प्रदुद्रुवुः ॥ ४।१६।३४ ॥
मुक्त इति । मुक्तः ज्यायाः प्रच्युतः वज्रनिर्घोषः वज्रनिर्घोषसदृशनिर्घोषविशिष्टः प्रदीप्ताशनिसंनिभः प्रदीप्तवज्रसदृशप्रदीप्तिविशिष्टः महाबाणः राघवेण वालिवक्षसि पातितः ॥ ४।१६।३५ ॥
तत इति । तेन महाबाणेन वेगेन अभिहतः कपीश्वरो वाली ततस्तस्मिन्महीतले निपपात ॥ ४।१६।३६ ॥
इन्द्रेति । आश्वयुक्समये आश्वयुजी पौर्णमासी अस्ति अस्मिन् स एव समयस्तस्मिन्मासि । किंच आश्वयुजः अश्विनीयुक्तपौर्णमास्याः सम्यक् अयः प्राप्तिर्यस्मिन् तस्मिन् आश्विने इत्यर्थः, पौर्णमास्यामुद्धूतः प्रक्षिप्तः इन्द्रध्वज इव उद्धूतः अत एव गतसत्त्वो ऽत एव विचेतनः अत एव बाष्पसंरुद्धकण्ठः अत एव शनैः आर्तस्वरः वाली आसीदिति शेषः । गौडदेशे कस्मिंश्चिदुत्सवे आश्विनपूर्णिमायामिन्द्रमुद्दिश्य ध्वजं संस्थाप्योत्सवोत्तरं प्रक्षिपन्तीति प्रसिद्धम् । सार्धश्लोक एकान्वयी ॥ ४।१६।३७ ॥
उपसंहरन्नाह नरोत्तम इति द्वाभ्याम् । नरोत्तमः रामः कालयुगान्तकोपमं युगान्तकालसदृशं काञ्चनरूपभूषितं यथोचितं स्वर्णरजताभ्यामलंकृतम् अमित्रमर्दनं शत्रुसूदनं शरोत्तमं ससर्ज । तत्र दृष्टान्तः सधूमं धूमसहितं दीप्तमग्निं मुखतः मुखात् हरो यथा ॥ ४।१६।३८ ॥
अथेति । शोणिततोयविस्रवैः शोणितप्रस्वेदयोः च्युतिभिः उक्षितः सिक्तः विचेतनः वासवसूनुर्वाली अनिलोद्धतः वायुना पातितः प्रपुष्पिताशोक इव प्रभ्रंशितेन्द्रध्वज इव च क्षितिं गतः ॥ ४।१६।३९ ॥
इति श्रीमद्वाल्मीकीयरामयणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षोडशः सर्गः ॥ ४।१६ ॥