०१५ तारोपदेशः

सुग्रीवकृतनिनादश्रवणानन्तरकालिकं वालिवृत्तान्तमाह अथेत्यादिभिः । अन्तःपुरगतः अन्तःपुरे स्थितः वाली भ्रातुः सुग्रीवस्य निनादं शुश्राव ॥ ४।१५।१ ॥

श्रुत्वेति । सर्वभूतप्रकम्पनं तस्य सुग्रीवस्य निनादं श्रुत्वा विद्यमानस्य वालिनः एकपदे तस्मिन् क्षणे मदः मत्तः सर्वे बिभ्यतीति गर्वः नष्टः क्रोधः आपादितः संप्राप्तः ॥ ४।१५।२ ॥

तत इति । रोषपरीताङ्गः कोपाविष्टः वाली उपरक्तः राहुग्रस्तः आदित्य इव सद्यो निष्प्रभतां गतः ॥ ४।१५।३ ॥

वालीति । द्रंष्ट्राकरालः द्रंष्ट्राहेतुकभयङ्करत्वविशिष्टः वाली उत्पतितपद्माभः उत्पतिता विनष्टा पद्माभा पद्मविनाशेन पद्महेतुका दीप्तिर्यस्य सः समृडालः पद्मनालमात्रविशिष्टहृद इव भाति वर्तते । एतेन वालिनः पराभवो ऽवश्यं भविष्यतीति सूचितम् ॥ ४।१५।४ ॥

शब्दमिति । दुर्मर्षणं दुःसहं शब्दं श्रुत्वा हरिर्वाली वेगेन पदन्यासैः मेदिनीं पृथिवीं दारयन्निव ततः किष्किन्धायाः निष्पपात ॥ ४।१५।५ ॥

तमिति । तमन्तःपुरान्निष्क्रामन्तं वालिनं दर्शितसौहृदा तारा स्नेहात् परिष्वज्य आलिङ्ग्य त्रस्तसंभ्रान्ता त्रस्ता उद्विग्नचित्ता संभ्रान्ता भीता च सती किंच त्रस्तेन वाल्युद्विग्नचित्तत्वेन संभ्रान्ता जातभया सती हितोदकं हितरूपौत्तरकालिकफलकं वचः उवाच ॥ ४।१५।६ ॥

तद्वचनाकारमाह– साध्विति । हे वीर आगतं सुग्रीवस्वनश्रवणेन संजातमिमं क्रोधं नदीवेगमिव काल्यं प्रातःकाले शयनादुत्थितो जनः भुक्तां स्रजं मालामिव त्यज ॥ ४।१५।७ ॥

कल्यमिति । हे वानर यतः ते तव शत्रुबाहुल्यं न अत एव ते फल्गुता लघुतापि न विद्यते अतः कल्यं प्रातःकाले एतेन सुग्रीवेण सह संग्रामं त्वं करिष्यसि ॥ ४।१५।८ ॥

सहसेति । सहसा अविचारेण तव निष्कामस्त्वत्कर्तृकनिष्क्रमणं मम न रोचते । ननु संग्रामार्थं पूर्वनिष्क्रमणे न निवारितवतीदानीं किमर्थं निवारयसीत्यत आह श्रूयतामिति । यन्निमित्तं यदर्थं मया निवार्यसे तदभिधास्यामि त्वया श्रूयताम् ॥ ४।१५।९ ॥

तदभिधानमेवाह पूर्वमिति । आपतितः प्राप्तः स सुग्रीवः युधि युद्धार्थं क्रोधात् त्वामाह्वयते आह्वयत निष्पत्य निर्गत्य ते त्वया हन्यमानः अत एव निरस्तः पराभूतः सन् दिशो गतः अपलायतेत्यर्थः ॥ ४।१५।१० ॥

त्वयेति । त्वया निरस्तस्य अत एव विशेषतः पीडितस्य दुःखितस्य तस्य सुग्रीवस्य पुनरिहैत्याह्वानं मे शङ्कां जनयत्येव । इवशब्द एवार्थे ॥ ४।१५।११ ॥

दर्प इति । नर्दतस्तस्य सुग्रीवस्य यादृशो दर्पः गर्वः व्यवसायो निश्चयश्च निनादस्य संरम्भो वृद्धिश्च एतत् एतस्य कारणमल्पं न महाकारणका इमे इत्यर्थः ॥ ४।१५।१२ ॥

कारणमेवाह नेति । तं पूर्वं पराभूतमिह इदानीमागतं सुग्रीवमसहायं सहायरहितमहं न मन्ये । नु ममातीव प्रबलत्वात्ससहायेनापि तेन किमित्यत आह यमाश्रित्य एषः गर्जति स अवष्टब्धसहायः प्रबलसहाय इत्यर्थः । एतेन स त्वया निवर्तयितुं न शक्य इति सूचितम् ॥ ४।१५।१३ ॥

सहायस्य प्रबलत्वे हेतुं वदन्ती आह प्रकृत्येति । प्रकृत्या स्वभावेन निपुणः सकलकर्मकुशलः बुद्धिमान् वानरः सुग्रीवः अपरीक्षितवीर्येण पुरुषेण सह सख्यं न एष्यति करिष्यतीत्यर्थः ॥ ४।१५।१४ ॥

तत्रैव निश्चयमाह पूर्वमिति । हे वीर हितं सुग्रीवस्य सखायं कथयतः कुमारस्य अङ्गदस्य वचः मया श्रुतम् अद्य वक्ष्यामि तद्वच इति शेषः ॥ ४।१५।१५ ॥

तद्वचनाकारमाह अङ्गद इति । अयं कुमारः अङ्गदः वनान्तं वनसमीपं गत्वेति शेषः, उपनिर्गतः पुनः मत्समीपं प्राप्त आसीत् तेन कुमारेण चारैर्निवेदिता प्रवृत्तिः सुग्रीववृत्तं कथिता ॥ ४।१५।१६ ॥

अङ्गदोक्तिमेवाह अयोध्येति । इक्ष्वाकूणां कुले जातौ अयोध्याधिपतेः दशरथस्य पुत्रौ नित्यपुत्रत्वविशिष्टौ रामलक्ष्मणौ प्रस्थितौ केनचिन्निमित्तेन वनं प्राप्तौ ॥ ४।१५।१७ ॥

सुग्रीवेति । दुरासदौ धर्षयितुमशक्यौ रामलक्ष्मणौ तत्र सुग्रीपसमीपे प्राप्तौ रणकर्मणि विख्यातः सः लक्ष्मणसहितरामस्ते भ्रातुः सुग्रीवस्य सहायः सखा, अभवदिति शेषः ॥ ४।१५।१८ ॥

रामो जेतुमशक्य इति बोधयितुमाह राम इति । उत्थितः प्रवृद्धः युगान्ताग्निरिव परबलामर्दी शत्रुसेनानां विघातकः साधूनां परोपकारनिरतानां निवासवृक्ष आश्रय इत्यर्थः, आपन्नानां प्राप्तापत्तीनां परा उत्कृष्टा गतिः रक्षकः आर्तानां दुःखितानां संश्रयः दुःखविध्वंसक इत्यर्थः, यशसः कीर्तेः एकभाजनं महायशस्वीत्यर्थः, ज्ञानविज्ञानसंपन्नः ज्ञानेन सकलशास्त्रविषयकबोधेन विज्ञानेन वेदवर्णितसकलवस्तूनां साक्षादनुभवेन च संपन्नः युक्तः अत एव पितुर्निदेशे आज्ञायां निरतः रामः धातूनामाकरः शैलेन्द्र इव गुणानां वात्सल्यादीनां महानाकरो ऽस्तीति शेषः । सार्धश्लोकद्वयमेकान्वयि ॥ ४।१५।१९,२० ॥

ननु किमेतद्वर्णनेनेत्यत आह तदिति । तत् रामस्य सकलगुणनिधित्वाद्धेतोः अप्रमेयेण बलादिषु इयत्तारहितेन अत एव रणकर्मसु दुर्जयेन महात्मना तेन रामेण सह ते तव विरोधः न क्षमः युक्तः । एतेन राम एव त्वया ऽप्याश्रयितव्य इति सूचितम् । अर्धद्वयमेकान्वयि ॥ ४।१५।२१ ॥

रामाश्रयणोपायं वक्तुमाह शूरेति । हे शूर यतः अभ्यसूयितुं तवासूयां प्रकटयितुं नेच्छामि अतः किंचिद्वक्ष्यामि अतः यत्तव हितं वक्ष्यामि तत् श्रूयताम् ॥ ४।१५।२२ ॥

तद्वचनाकारमाह यौवराज्येनेति । हे वीर हे राजन् तूर्णं शीघ्रं यौवराज्येन सुग्रीवं साध्वभिषेचय भ्रात्रा सह विग्रहं मा कृथाः हि यतः रामेण सौहृदं सुग्रीवेण संप्रीतिं च ते क्षमं योग्यं मन्ये अतः वैरमुत्सृज्य यवीयान् कनिष्ठस्ते भ्राता सुग्रीवस्ते लालनीयः । सार्धश्लोकद्वयमेकान्वयि ॥ ४।१५।२३२५ ॥

तत्रेति । तत्र ऋष्यमूके सन् स्थितो वा इहस्थः किष्किन्धायां स्थितो वा तव बन्धुरेव, तेन सुग्रीवेण समं सदृशं बन्धुं भुवि कंचन न पश्यामि ॥ ४।१५।२६ ॥

दानेति । एतत् किंचित्प्रसङ्गेन जातं वैरं समुत्सृज्य त्यक्त्वा सुग्रीवं दानादिभिः प्रत्यनन्तरं प्राप्तान्तररहितम् अन्तरङ्गमित्यर्थः, कुरुष्व अत एव स सुग्रीवः पार्श्वे तिष्ठतु ॥ ४।१५।२७ ॥

तदेव भङ्ग्यन्तरेणाह सुग्रीव इति । भ्रातृसौहृदमालम्ब्य विद्यमानस्य तव सुग्रीवो महाबन्धुर्मतः अतः अन्या सुग्रीवभिन्ना व्यक्तिः ते गतिः रक्षिका न ॥ ४।१५।२८ ॥

यदीति । ते तव यदि मत्प्रियं कार्यं यदि च मां हितामवैषि जानासि तर्हि प्रियत्वेन याच्यमानस्त्वं मे वाक्यं साधु कुरुष्व ॥ ४।१५।२९ ॥

प्रसीदेति । पथ्यं हितं मे जल्पितं कथितं त्वं शृणु अत एव प्रसीद अत एव रोषं कोपमनुविधातुं नार्हसि । तद्वचनाकारमाह शक्रसमानतेजसा कोशलराजसूनुना समं विग्रहः कलहो न क्षमः ॥ ४।१५।३० ॥

तदेति । इदं हितं पथ्यं वाक्यं तदा तस्मिन् वालिविनाशकाले तारा वालिनं बभाषे तत् ताराभाषितं वचनं कालाभिपन्नस्य विनाशकालं प्राप्तस्य तस्य वालिनः न रोचते ॥ ४।१५।३१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ ४।१५ ॥