किष्किन्धासमीपप्रस्थानानन्तरकालिकं वृत्तान्तमाह सर्व इति । सर्वे रामादयः किष्किन्धां गत्वा वृक्षैरात्मानमाच्छाद्य धर्मनिवारणार्थं वृक्षाधः स्थित्वेत्यर्थः, गहने वने व्यतिष्ठन् ॥ ४।१४।१ ॥
विसार्येति । काननप्रियः सुग्रीवः सर्वतो दृष्टिं विसार्य क्रोधं भृशमत्यन्तमाहारयत् प्राप्नोत् ॥ ४।१४।२ ॥
तत इति । ततः क्रोधप्राप्त्यनन्तरं परिवारैः स्वपरिकरैः परिवृतः सुग्रीवः युद्धाय युद्धं कर्तुमम्बरमाकाशं भिन्दन्निव घोरं निनदं शब्दं कृत्वा आह्वयत् ॥ ४।१४।३ ॥
गर्जन्निति । वायुवेगपुरःसरः वायुवेगेन वेगितः मेघ इव गर्जन् बालार्कसदृशः आरुण्येन औदयकालिकसूर्यसदृशः दृप्तसिंहगतिः दृप्तसिंहगमनसदृशगमनवान् सुग्रीवः क्रियादक्षं रामं दृष्ट्वा अब्रवीत् । किं च वायुवेग एव पुरःसरः अधिक इत्यर्थः, यद्वेगात् सः अतिवेगवानित्यर्थः, सुग्रीवविशेषणम् । सार्धश्लोक एकान्वयी ॥ ४।१४।४ ॥
तद्वचनाकारमाह– हरीति । हरिवागुरया वानररूपमृगबन्धकपाशेन व्याप्तां ध्वजयन्त्राढ्यां ध्वजैः यन्त्रैः शतध्न्यादिभिराढ्यां किष्किन्धां पुरीं वयं प्राप्ताः स्म अतः हे वीर वालिवधे वालिवधार्थं या प्रतिज्ञा त्वया कृता तां प्रतिज्ञां लतां पुष्पितवल्लरीम् आनतः प्राप्तः कालः फलप्रापकसमय इव त्वं सफलां कुरु वालिनं जहीत्यर्थः । अर्धचतुष्टयमेकान्वयि ॥ ४।१४।५,६ ॥
एवमिति । सुग्रीवेण एवमुक्तः धर्मात्मा राघवः सुग्रीवमुवाच ॥ ४।१४।७ ॥
तद्वचनाकारमाह कृतेति । यतः एषा लता लक्ष्मणेन समुत्पाट्य तव कण्ठे कृता अतः अनया गजसाह्वया गजः गजशब्दः साह्वयः आह्वयत्वं प्राप्तः संज्ञेत्यर्थः, यस्यास्तया कण्ठसक्तया अनया लतया कृताभिज्ञानचिह्नस्त्वं नक्षत्रमालया विपरीतः संयुक्तः आकाशे सूर्य इव शोभसे अभूतोपमैषा । अर्धचतुष्टयमेकान्वयि ॥ ४।१४।८,९ ॥
अद्येति । एकेन बाणमोक्षेण शरप्रक्षेपेण वालीसमुत्थं ते भयं वैरं च प्रमोक्ष्यामि निवर्तयिष्यामि ॥ ४।१४।१० ॥
ममेति । भ्रातृरूपिणं वैरिणं त्वं दर्शय । तत्प्रयोजनमाह यावत्साकल्येन विनिहतः मद्बाणैर्हिंसितः वाली पांसुषु धूलिषु चेष्टते चेष्टेत ॥ ४।१४।११ ॥
यदीति । दृष्टिपथं प्राप्तः मया दृष्टः स वाली यदि विनिवर्तते तदा दोषेणोपलक्षितं मां भवान् गच्छेत् जानीयात् अत एव गर्हेत् ॥ ४।१४।१२ ॥
वालिवधे संशयस्त्वया न कार्य इत्याह प्रत्यक्षमिति । ते प्रत्यक्षं सप्त सालाः मया बाणेन दारितास्ततो हेतोः रणे मया निहतं वालिनं त्वं वेत्सि अवेदीः । “वर्तमानसामीप्ये” इति भूते लट् । एतेन तन्न विस्मर्तव्यमिति सूचितम् ॥ ४।१४।१३ ॥
ननु तव वालिवधयोग्यसामर्थ्यातिशये न संशयः किं तु तत्कर्तृत्वे संशय इत्यत आह अनृतमिति । हे वीर कृच्छ्रे अत्याज्यपितृगुर्वादिपरस्परविरुद्धोक्तिसंशयजनितकष्टे ऽपि तिष्ठता धर्मलोभपरीतेन धर्मसंरक्षणवाञ्छायुक्तेन मया अनृतं नोक्तपूर्वम् अत एव न च कदाचन वक्ष्ये अतः प्रसूतं शतक्रतुविश्वासेन आरोपितं कलमक्षेत्रं क्षेत्रशालिनं शतक्रतुरिव प्रतिज्ञां स्वोक्तवालिवधनिश्चायकवचनं सफलां वालिवधरूपफलसहितां करिष्यामि अतः संभ्रमं भयं जहि । अर्धचतुष्टयमेकान्वयि ॥ ४।१४।१४,१५ ॥
तदिति । तत् वधस्य निश्चयाद्धेतोः वालिनः आह्वाननिमित्तं शब्दं कुरु येन शब्देन वानरो वाली निष्पतेत् ॥ ४।१४।१६ ॥
सो ऽवश्यं पतिष्यतीत्यत्र हेतुं वदन्नाह जितेति । जयश्लाघी स्वविजयविषयकश्लाघावान् अत एव प्रियसंयुगः अत एव जितकाशी स्वविजयहेतुकगमनशीलः अधर्षितस्त्वया पराभवमप्राप्तः वाली असंगेन कलत्राद्यासक्तिरहितत्वेन पुरान्निष्पतिष्पति । एतेन न निष्पतेच्चेत्किं करिष्यसीति शङ्का न कार्येति ध्वनितम् ॥ ४।१४।१७ ॥
रिपूणामिति । रिपूणां धर्षितं प्रागल्भ्यवचनं श्रुत्वा स्वकं वीर्यं विशेषतो ऽधिकं जानन्तो जनाः स्त्रीसमक्षं स्त्रीणां समीपं ज्ञात्वेति शेषः, विशेषतो न मर्षयान्ति सहन्ते ॥ ४।१४।१८ ॥
स इति । सुग्रीवः रामवचः श्रुत्वा अम्बरमाकाशं निर्भिन्दन्निव क्रूरनादेन ननर्द ॥ ४।१४।१९ ॥
तेनेति । तेन सुग्रीवजनितेन शब्देन वित्रस्ता गावः राजदोषपरामृष्टाः राजदोषेण प्रजारक्षणाभावरूपराजापराधेन परामृष्टाः परैः बिटैः आमृष्टाः स्प्रष्टुं वाञ्छिताः अत एव आकुला कुलस्त्रिय इव हतप्रभाः सत्यः यान्ति इतस्ततो धावन्ति रणे भग्नास्तोत्रादिना ताडिताः हया इव मृगाः द्रवन्ति च क्षीणपुण्याः ग्रहा इव खगाः भूमौ पतन्ति च । अर्धचतुष्टयमेकान्वयि ॥ ४।१४।२०,२१ ॥
तत इति । जीमूतकृतः जीमूतो ऽयमिति भ्रान्तिसंपादकः प्रणादो यस्य सः शौर्येण रामसाहाय्यहेतुकप्रवृद्धपरत्वेन विवृद्धं तेजो यस्य स त्वरया युद्धोत्साहहेतुकवेगेन प्रतीत उपलक्षितः सूर्यात्मजः सुग्रीवः अनिलचञ्चलोर्मिः सरित्पतिः समुद्र इव नादं व्यमुञ्चत् । वाशब्द इवार्थे ॥ ४।१४।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥ ४।१४ ॥