किष्किन्धाप्रस्थानानन्तरकालिकं रामवृत्तान्तमाह ऋष्यमूकादित्यादिभिः । सहसुग्रीवः सुग्रीवसहितः लक्ष्मणाग्रजो रामः वालिविक्रमपालितां किष्किन्धाम् । ऋष्यमूकात् जगाम ॥ ४।१३।१ ॥
समिति । रामः काञ्चनभूषितं महत् चापं समुद्यम्य रणसाधकान् शरान् गृहीत्वा अग्रतः प्रथमं ययौ । तस्य राघवस्य रामस्य पृष्ठतः सुग्रीवप्रभृतिर्ययौ । संहतग्रीव इत्यस्य संहता संबद्धा ग्रीवा यस्य स इत्यर्थः । श्लोकत्रयमेकान्वयि ॥ ४।१३।२४ ॥
ते इति । वृक्षादीन् वीक्ष्यमाणाः तत्र कन्दराणि मन्दिरवत्प्रकाशमानानि गिरिविवराणि निर्झराणि पाषाणविवराणि गुहाः देवनिलयीभूतगिरिविवराणि दर्यः भयंकरगुहाः इति न पौनरुक्त्यं वैदूर्यविमलैः वैदूर्यवत्स्वच्छैः पर्णैः उपलक्षितैः आकोशकुड्मलैः अग्रभागपर्यन्तं कुड्मलविशिष्टैः पद्मैः शोभितान् सजलान् जलसहितान् तटाकान् अवलोकयन् अवलोकयन्तः कारण्डाद्यैः शकुनैः प्रतिनादितान् मृदुशष्पाङ्कुराहारान् कोमलतृणाङ्कुरभक्षणकर्तृ़न् स्थलीषु अकृत्रिमभूमिषु स्थितान् हरिणांश्च पश्यन्पश्यन्तः शुक्लदन्तविभूषितान् घोरान् भयङ्करान् एकचरान् सहायराहित्येन गमनकर्तृ़न् कूलघातिनः अत एव तटाकवैरिणः चरतो गच्छतः द्विरदान् गजान् मत्तान् मदविशिष्टान् गिरितटोत्कृष्टान् गिरितटाः उत्कृष्टाः विदारिताः यैस्ते तान् जङ्गमान् गच्छतः पर्वतानिव महीरेणुसमुत्थितान् महीरणुव्याप्तशरीरान् अत एव द्विरदप्रख्यान् गजसदृशान् अन्यांश्च वनचरान् खेचरान् विहङ्गमांश्च पश्यन्तस्ते रामादयः सुग्रीववशवर्तिनश्च त्वरिताः सन्तः जग्मुः । श्लोकाष्टकमेकान्वयि ॥ ४।१३৷৷५१२ ॥
तेषामिति । गच्छतां तेषां मध्ये रघुनन्दनः द्रुमषण्डवनं द्रुमसमूहनिबिडकाननं दृष्ट्वा सुग्रीवमब्रवीत् “षण्डं पद्मादिसंघाते न स्त्री स्याद्रोपतौ पुमान्” इति मेदिनी ॥ ४।१३।१३ ॥
तद्वचनाकारमाह एष इति । मेघसंघातविपुलं मेघसमूहेन व्याप्तं पर्यन्तकदलीवृतं चतुर्दिक्षु कदलीसंयुक्तम् एष वृक्षषण्डः आकाशे मेघ इव प्रकाशते । सामान्ये नपुंसकम् मेघसंघातेत्याद्युत्तरावन्वयि वा, तत्र वनं विशेष्यं बोध्यम् ॥ ४।१३।१४ ॥
किमिति । एतत् एतादृशं किं कथम् एतज्ज्ञातुमहमिच्छामि । तत्र हेतुः यतो मे कौतूहलम् एतत्कारणश्रवणविषयकोत्कटेच्छा अतस्त्वया कौतूहलापनयनं कर्तुमिच्छामि ॥ ४।१३।१५ ॥
तस्येति । सुग्रीवः गच्छन्नेव राघवस्य वचः श्रुत्वा तद्वनं वनप्रवृद्धिकारणम् आचचक्षे ॥ ४।१३।१६ ॥
तद्वचनकारमाह एतदिति । उद्यानवनसंपन्नमुद्यानवनैर्निबिडं स्वादुमूलफलोदकं स्वादुविशिष्टमूलादियुक्तम् अत एव श्रमनाशनं विस्तीर्णमेतदाश्रममवेहीति शेषः ॥ ४।१३।१७ ॥
अत्रेति । संशितव्रतास्तीक्ष्णव्रतपरायणाः नियतमधःशीर्षाः जलशायिनः विहितजलशयनादिमन्तः सप्त तत्संख्याकाः सप्तजना नाम मुनयः आसन् ॥ ४।१३।१८ ॥
सप्तजननाम्नि निमित्तं बोधयन्नाह सप्तेति । सप्तरात्रे व्यतीते सतीति शेषः, वायुना कृताहाराः अचलवासिनः निश्चलनिवसनशीलाः मुनयः सकलेवराः शरीरसहिताः सप्तमिः वर्षशतैः दिवं याताः ॥ ४।१३।१९ ॥
तेषामिति । तेषां सप्तजनानां प्रभावेण तेजसा द्रमप्राकारसंवृतं द्रुमरूपप्राकारप्रावृतं सेन्द्रैः सुरासुरैरपि सुदुराधर्षं तेषामेतदाश्रमम् अवेहीति शेषः ॥ ४।१३।२० ॥
पक्षिण इति । एतदाश्रमं पक्षिणः अन्ये च वनचारिणः वर्जयन्ति अतितेजोदर्शनजनितभिया न गच्छन्तीत्यर्थः । मोहात् अविवेकात् अत्र अस्मिन् आश्रमे ये विशन्ति ते पुनर्न निवर्तन्ति निवर्तन्ते ॥ ४।१३।२१ ॥
विभूषणेति । सकलाक्षराः मधुराक्षरसहिताः विभूषणरवाः विभूषणस्वनाः तूर्यगीतस्वनाश्च श्रूयन्ते दिव्यो गन्धश्च अनुभूयते इति शेषः । एतेन तत्रत्यानामतिसुखं सूचितम् ॥ ४।१३।२२ ॥
त्रेतेति । त्रेताग्नयः । त्रेतायुगस्थापिता वह्नयः गार्हपत्यादयो वा दीप्यन्ते अत एव कपोताङ्गारुणः कपोताङ्गवद्धूसरवर्णविशिष्ट अत एव घन इव मेघसदृशः एष धूमः वृक्षाग्रान्वेष्टयन्निव प्रदृश्यते ॥ ४।१३।२३ ॥
एते इति । धूमसंसक्तमस्तकाः धूमाविष्टाग्रभागविशिष्टाः एते वृक्षा मेघजालप्रतिच्छन्नाः मेघसमूहैः आच्छादिताः वैदूर्यगिरय इव प्रकाशन्ते ॥ ४।१३।२४ ॥
कुर्विति । हे धर्मात्मन् तेषां सप्तजनानां प्रीतिमिति शेषः, उद्दिश्य लक्ष्मणेन सह संहताञ्जलिः सन् प्रणामं कुरु ॥ ४।१३।२५ ॥
तत्फलमाह प्रणमन्तीति । हे राम भावितात्मनां परिशीलितपरमात्मनामृषीणां ये प्रणमन्ति तेषां शरीरे अशुभं शुभविरोधि शोकादिकमित्यर्थः, न विद्यते भवति । ऋषीणामित्यत्र संबन्धसामान्यविवक्षया षष्ठी ॥ ४।१३।२६ ॥
तत इति । ततः सुग्रीवोक्तिश्रवणानन्तरं महात्मानः महात्मनः ऋषीन्समुद्दिश्य अभ्यवादयत् ॥ ४।१३।२७ ॥
अभिवाद्येति । रामादयः अभिवाद्य प्रणम्य संहृष्टमानसाः सन्तः जग्मुः ॥ ४।१३।२८ ॥
ते इति । ते रामादयः सप्तजनाश्रमात् दूरमध्वानं गत्वा किष्किन्धां ददृशुः ॥ ४।१३।२९ ॥
तदेव भङ्ग्यन्तरेणाह– तत इति । उदितोग्रतेजसः रामानुजादयः शस्त्राणि प्रगृह्य सुरेशात्मजवीर्यपालितां वालिपराक्रमरक्षितां पुरीं किष्किन्धां पुनरागताः ॥ ४।१३।३० ॥
इति श्रीमद्वाल्मीकीयरामयणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ ४।१३ ॥