सुग्रीवप्रार्थितरामकर्तृकसप्ततालभेदनं वर्णयितुमाह एतदिति । सुग्रीवस्य सुभाषितमेतद्वचनं श्रुत्वा महातेजा रामः प्रत्ययार्थं सुग्रीवविश्वासार्थं कार्मुकं धनुर्जग्राह ॥ ४।१२।१ ॥
स इति । स रामः धनुरेकं शरं च गृहीत्वा सरवैः रवत्वविशिष्टैः रवैरित्यर्थः । दिशः पूरयन् सन् सालमुद्दिश्य चिक्षेप ॥ ४।१२।२ ॥
स इति । बलवता रामेण विसृष्टः त्यक्तः स्वर्णपरिष्कृतो बाणः सालान् तदभिधसप्ततरुन् गिरिप्रस्थं तदाश्रयीभूतगिरिखण्डं च सप्तभूमिम् अधस्सप्तलोकावरकांश्च भित्त्वा विवेश उद्देश्यातिरिक्तभेदनस्य सामर्थ्यसूचकत्वान्न प्रयोक्तृनैपुण्यहानिः उपलक्षणतया ऽन्यस्याप्युद्देश्यता वा ॥ ४।१२।३ ॥
सायक इति । महाजवः सायकः सालान् उपलक्षणतया तत्प्रभृतीन् मुहूर्तेन भित्त्वा निष्पत्य बहिरागत्य स्वतूणीमिषुधिं प्रविवेश ॥ ४।१२।४ ॥
तानिति । वानरपुंगवः सुग्रीवः निर्भिन्नान् सप्तसालान् दृष्ट्वा परमं विस्मयं गतः ॥ ४।१२।५ ॥
स इति । परमप्रीतः स सुग्रीवः प्रलम्बीकृतभूषणः दण्डायमानप्रणामहेतुकप्रलम्बीभूतवनमालादिभूषणविशिष्टः सन् भूमौ मूर्ध्रा राघवाय न्यपतत् ॥ ४।१२।६ ॥
इदमिति । तेन तालादिभेदनरूपेण कर्मणा हर्षितः सुग्रीवः धर्मज्ञं राममिदमुवाच ॥ ४।१२।७ ॥
तद्वचनाकारमाह– सेन्द्रानिति । सेन्द्रान् सर्वान् सुरानपि समरे बाणैर्हन्तुं त्वं समर्थः तर्हि वालिनं हन्तुं समर्थ इति किम् ॥ ४।१२।८ ॥
येनेति । येन भवता सप्तमहासाला गिरिः भूमिः सप्ताधोलोकावरणानि दारिताः तस्य ते रणाग्रतः कः स्थाता ॥ ४।१२।९ ॥
अद्येति । सुहृदं त्वां समासाद्य प्राप्य अद्य भवदतिपराक्रमदर्शनसमये मे शोको विगतः अत एव अद्य मम परा प्रीतिर्भवतीति शेषः ॥ ४।१२।१० ॥
तमिति । हे काकुत्स्थे मे प्रियार्थं भातृरूपं मे वैरिणं वालिनं जहि अत एवायमञ्जलिर्मया बद्धः ॥ ४।१२।११ ॥
तत इति । ततः सुग्रीवप्रार्थनाश्रवणानन्तरं महाप्राज्ञो रामः लक्ष्मणानुगतं मैत्र्या लक्ष्मणतुल्यत्वं प्राप्तं सुग्रीवं प्रत्युवाच ॥ ४।१२।१२ ॥
तदाकारमाह– अस्मादिति । अस्मात् पर्वतात् किष्किन्धां गच्छाम अतस्त्वं ममाग्रतः क्षिप्रं गच्छ गत्वा च भ्रातृगन्धिनं भ्रातृशब्दबोध्यं वालिनमाह्वय ॥ ४।१२।१३ ॥
सर्वे इति । ते रामाज्ञप्ताः सर्वे सुग्रीवभृतयः वालिनः पुरीं किष्किन्धां गत्वा तन्निष्ठसंयोगानुकूलव्यापारं कृत्वा वृक्षैरात्मानमावृत्य उपगूह्य गहने दुर्गमे वने किष्किन्धासमीपकानने अतिष्ठन् ॥ ४।१२।१४ ॥
सुग्रीव इति । गाढं परिहितः वस्त्रेण दृढं बद्धकटिः सुग्रीवः वालिनोह्वानकारणात् ह्वानार्थं नादैरम्बरं भिन्दन्निव घोरमनदत् ॥ ४।१२।१५ ॥
तमिति । महाबलो वाली भ्रातुः निनदं श्रुत्वा सुसंरब्धः यातयुद्धोत्साहः सन् अस्ततटात् अस्ताचलसमीपात् भास्करः सूर्य इव निष्पपात ॥ ४।१२।१६ ॥
तत इति । ततः वाल्यागमनान्तरं गगने बुधाङ्गारकयोर्ग्रहयोरिव वालिसुग्रीवयोः घोरं सुतुमुलं युद्धमभूत् ॥ ४।१२।१७ ॥
तलैरिति । अशनिकल्पैः वज्रोपमैस्तलैः करपादतलैः वज्रकल्पैः मुष्टिभिश्च भ्रातरौ अन्योन्यं जघ्नतुः ॥ ४।१२।१८ ॥
तत इति । ततः युद्धप्रवृत्त्यनन्तरं धनुष्पाणिः रामः उभौ अश्विनौ देवाविव अन्योन्यसदृशौ उभौ वालिसुग्रीवौ समुदैक्षत ॥ ४।१२।१९ ॥
यदिति । यद् यस्माद्धेतोः राघवो रामः नावगच्छत् मिलितत्वात्समानाकारत्वाच्च विविच्य बोद्धुं नैच्छत् ततस्तस्माद्धेतोः अन्तकरं शरं मोक्तुं बुद्धिं निश्चयं न कृतवान् ॥ एतेन वालिनि रामस्य स्नेहः सूचितः तेन सुग्रीवविषयकस्नेहस्य पराकाष्ठा व्यञ्जिता तेनेदानीमपि यदि द्वयोर्मैत्री स्यात्तर्हि न हनिष्यामीति रामाभिप्रायो व्यक्तः ॥ ४।१२।२० ॥
एतस्मिन्निति । एतस्मिन्नन्तरे समये वालिना भग्नः भग्नकरादिमान् सुग्रीवः नाथं स्वस्वामिनं राघवमपश्यन् सन् ऋष्यमूकं प्रदुद्रुवे ॥ ४।१२।२१ ॥
क्लान्त इति । रुधिरेण सिक्तमङ्गं यस्य वालिना प्रहारैर्जर्झरीकृतः अत एव क्लान्तः ग्लानिं प्राप्तः अत एव अभिद्रुतः सुग्रीवः महावनं प्रविवेश ॥ ४।१२।२२ ॥
तमिति । वनं प्रविष्टं तं सुग्रीवं दृष्ट्वा त्वं मुक्तो ऽसीत्युक्त्वा शापभयात् ततस्तस्मात् महावनात् संनिवृत्तः ॥ ४।१२।२३ ॥
राघव इति । भ्रात्रा लक्ष्मणेन हनुमता च सह राघवो ऽपि यत्र वानरः सुग्रीवः तदेव वनमागच्छत् ॥ ४।१२।२४ ॥
तमिति । सहलक्ष्मणमागतं तं रामं समीक्ष्य ह्रीमान् पराभवहेतुकलज्जावान् सुग्रीवः वसुधामवलोकयन्सन् दीनमिदमुवाच ॥ ४।१२।२५ ॥
तद्वचनाकारमाह आह्वयस्वेति । विक्रमं स्वपराक्रमं दर्शयित्वा तालभेदादिना संप्रदर्श्य मामाह्वयस्व इत्युक्त्वा अरिणा घातयित्वा च त्वया किं कृतम् इष्टमनिष्टं वा कृतमिति न विद्म इति तात्पर्यम् ॥ ४।१२।२६ ॥
तामिति । तां वेलां मद्गमनसमये वालिनमहं न निहन्मीति तत्त्वतः यथार्थतः त्वया वक्तव्यं ततस्तदा इतो ऽहं न व्रजे व्रजेयम् । तां वेलामित्यत्र सप्तम्यर्थे द्वितीया ॥ ४।१२।२७ ॥
तस्येति । दीनया वाचा एवं करुणं ब्रुवाणस्य सुग्रीवस्य समीपे राघवः पुनः अब्रवीत् ॥ ४।१२।२८ ॥
तद्वचनाकारमाह सुग्रीवेति । हे सुग्रीव येन कारणेन सो ऽयं बाणः मया न विसर्जितस्त्यक्तः तत्कारणं श्रूयताम् अत एव क्रोधः बाणप्रक्षेपाभावजनितकोपः व्यपनीयतां त्यज्यताम् ॥ ४।१२।२९ ॥
तत्कारणमेवाह अलङ्कारेणेति । हे सुग्रीव त्वं वाली च अलङ्कारादिना स्वरादिना च परस्परं सदृशौ स्थः अतः व्यक्तिं द्वयोर्विभिन्नलोकप्राप्तिं न उपलक्षये अनुमिनोमि वालिनि मृते त्वमपि तत्स्नेहान्मरिष्यसीति तात्पर्यम् । वाक्यैः वचनरचनाविशेषैः अत एव वचसा इत्यनेन न पौनरुक्त्यम् । श्लोकद्वयमेकान्वयि ॥ ४।१२।३०,३१ ॥
तत इति । ततस्तस्मात् रूपसादृश्यात् हेतोः मोहितः मान ऊहितं तर्कितं येन सो ऽहं महावेगं जीवितान्तकरं घोरं शरं नोत्सृजामि । ननु ममापि मरणे तव का क्षतिरित्यत आह सादृश्यात् वालिनिष्ठसुग्रीवप्रतियोगिकसदृशत्वात् तन्मूलकात्तवापि मरणादित्यर्थः, हेतोर्नौ आवयोर्द्वयोर्मूलघातः मूलयोः राज्यप्राप्तिस्त्रीप्राप्तिरूपहेत्वोर्विघातो विनाशो न स्यात् इति विशङ्कितो ऽहमभवमिति शेषः । सदृशभ्रातृमरणे तज्जनितदुःखेन यदि सुग्रीवमृतिः स्यात्तर्हि तद्राज्यप्राप्तिविघातः स्यात् । अतः तद्व्यापारसाध्यसीताप्राप्तिविरहो भवेदिति तात्पर्यम् । अत एव मया कृतः प्रक्षेपाभाव इति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।१२।३२,३३ ॥
त्वयीति । हे वीर अज्ञानात् सदृशभ्रातृवधे सुग्रीवो मरिष्यतीति विचाराभावपूर्वकवालिवधात् लाघवात् अल्पकालतः त्वयि विपन्ने तच्छोकेन मृते सति मम मौढ्यं बाल्यं च ख्यापितं स्यात् ॥ ४।१२।३४ ॥
दोषान्तरमाह दत्तेति । दत्तमभयं यस्मै तस्य वधः महत्पातकम् अत एव अद्भुतं सर्वेषामाश्चर्यं भविष्यति । अर्धं पृथक् । न केवलं पातकमेव त्वद्वधे ऽस्मत्कार्यध्वंसो ऽपि भवेदित्याह अहमिति । लक्ष्मणः सीता च वयं च सर्वे त्वदधीनाः अत एव अस्मिन्वने अहं न जहाति तत् शरणं रक्षको भवान् । एतेन त्वदभावे ऽस्माकं रक्षापि न स्यादिति सूचितम् । “अस्मदो द्वयोश्च” इत्यनुशासनादेकस्मिन्नपि रामे बहुवचनप्रयोगः । अर्धद्वयमेकान्वयि ॥ ४।१२।३५ ॥
तस्मादिति । तस्मात् वालिकर्तृकवैरत्यागाभावात् हेतोः भूयस्त्वं युध्यस्व मा मां मा शङ्कीः अयं नागमिष्यतीत्याशङ्कां न कृथाः ॥ ४।१२।३६ ॥
एतदिति । एतन्मुहूर्ते त्वत्कर्तृकपुनर्युद्धसमये मया एकेनेपुणा निरस्तमत एव महीतले चेष्टमानं वालिनं त्वं पश्य ॥ ४।१२।३७ ॥
अभिज्ञानमिति । येन द्वन्द्वयुद्धमुपागतं त्वामहमभिजानीयां भ्रातृमरणजनितं महत् दुःखमस्मिन्न भविष्यतीति निश्चिनुयां तत् आत्मनो ऽभिज्ञानम् अतिशोकानुत्पत्त्यभिज्ञापकचिह्नं कुरुष्व ॥ ४।१२।३८ ॥
तत्प्रकारमाह गजपुष्पीमिति । हे लक्ष्मण फुल्लां शुभलक्षणामतिशोकानुत्पादकत्वेन शुभप्रापिकां गजपुष्पीं महात्मनः सुग्रीवस्य कण्ठे कुरु । एतेन गजपुष्पीनिबद्धानामतिशोको न भवतीति सूचितम् ॥ ४।१२।३९ ॥
तत इति । ततः रामाज्ञापनानन्तरं गिरितटे जातां कुसुमायुतां पुष्पैर्व्याप्तां तां शुभां गजपुष्पीं लक्ष्मण उत्पाट्य तस्य कण्ठे व्यसर्जयत् अबध्नात् ॥ ४।१२।४० ॥
स इति । स सुग्रीवः कण्ठसक्तया कण्ठे संबद्धया तया गजपुष्पीलतया बलाकानां मालया ससंध्यः संध्यारागसहितः तोयदो मेघ इव शुशुभे ॥ ४।१२।४१ ॥
विभ्राजमान इति । रामवाक्यसमाहितः रामवचने आस्थावान् वपुषा विभ्राजमानः सुग्रीवः रामेण सह किष्किन्धां पुनर्जगाम ॥ ४।१२।४२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्वादशः सर्गः ॥ ४।१२ ॥