रामं प्रति सुग्रीवोक्तिं वर्णयन्नाह रामस्येत्यादिभिः । सुग्रीवः रामस्य वचनं श्रुत्वा राघवं रामं पूजयाञ्चके बद्धाञ्जल्यादिना तोषयाञ्चके प्रशशंस च ॥ ४।११।१ ॥
प्रशंसाप्रकारं बोधयन्नाह असंशयमिति । यद्यपि कुपितस्त्वं युगान्ते भास्कर इव मर्मातिगैः मर्मप्रवेशिभिः शरैः लोकान् असंशयं यथा भवति तथा प्रदहेः तथापि वालिनः पौरुषादि त्वमेकमनाः सन् श्रुत्वा तदनन्तरं विधत्स्व तद्वधप्रयत्नं कुरु । एतेन वालिनः पौरुषादेर्लोकोत्तरत्वं व्यञ्जितं यद्यपीत्यध्याहृतम् । श्लोकद्वयमेकान्वयि ॥ ४।११।२,३ ॥
तत्पौरुषाद्येवाह समुद्रादित्यादिभिः । व्यपगतक्लमो वाली ब्राह्मे मुहूर्ते उत्थायेति शेषः, सूर्ये अनुदिते उदयमप्राप्नुवति सति पश्चिमात् समुद्रात् पूर्वं समुद्रं क्रामति गच्छति ततो दक्षिणं प्राप्येति शेषः । दक्षिणात्समुद्रात् उत्तरमपि क्रामति ॥ ४।११।४ ॥
अग्राणीति । वीर्यवान् वाली ऊर्ध्वमुत्पत्य शैलानां महान्त्यपि अग्राणि मुख्यानि शिखराणि आरुह्य प्रतिगृह्णाति ॥ ४।११।५ ॥
बहव इति । आत्मनो बलं प्रथयता वालिना सारवन्तः स्थिरांशविशिष्टा बहवो द्रुमा भग्नाः ॥ ४।११।६ ॥
पराक्रमान्तरमाह महिष इत्यादिभिः । महिषो महिषाकृतिः कैलासशिखरप्रभः दुन्दुभिर्न्नाम नागसहस्रस्य सहस्रसंख्याकगजस्य बलं धारयामास ॥ ४।११।७ ॥
स इति । वीर्योत्सेकेन पराक्रमगर्वेण दुष्टः आत्मा मनो यस्य सः वरदानेन मोहितः स दुन्दुभिः सरितां पतिं समुद्रं जगाम ॥ ४।११।८ ॥
उर्मिमन्तमिति । रत्नसञ्चयं बहुरत्नविशिष्टं सागरमतिक्रम्य उल्लङ्ध्य मम युद्धं प्रयच्छेति तं महार्णवमुवाच ॥ ४।११।९ ॥
तत इति । ततः दुन्दुभिवचनश्रवणानन्तरं धर्मात्मा समुद्रः कालचोदितमसुरं दुन्दुभिमब्रवीत् ॥ ४।११।२० ॥
तद्वचनाकारमाह समर्थ इति । हे युद्धस्विशारद अहं ते युद्धं दातुं न समर्थः अतः यस्ते युद्धं प्रदास्यति तमभिधास्यामि त्वया श्रूयताम् ॥ ४।११।२१ ॥
शैलराज इति । तपस्विशरणं तपस्विनां रक्षकः शङ्करश्वशुरः हिमवानिति नाम्ना विश्रुतः प्रख्यातो यः शैलराजः सः तवातुलां प्रीतिं युद्धमित्यर्थः, कर्तुमर्हति ॥ ४।११।१२,१३ ॥
तमिति । इति एवमुक्तो ऽसुरोत्तमो दुन्दुभिस्तं समुद्रं भीतं विज्ञाय चापात् च्युतः शर इव हिमवद्वनम् आगच्छत् ॥ ४।११।१४ ॥
तत इति । ततः हिमवद्वनागमनानन्तरं गजेन्द्रप्रतिमाः ऐरावतसदृशाः तस्य गिरेः बहुधा अनेकप्रकाराः श्वेताः शिलाः दुन्दुभिः चिक्षेप विननाद च ॥ ४।११।१५ ॥
तत इति । श्वेताम्बुदाकारः प्रीतिकरा प्रीतेरुत्पादिका आकृतिर्यस्य अत एव सौम्यः स्व एव शिखरे स्थितः हिमवान्वाक्यमब्रवीत् ॥ ४।११।१६ ॥
तद्वचनाकारमाह क्लेष्टुमिति । हे दुन्दुभे यतः रणकर्मसु अहमकुशलः अत एव तपस्विशरणस्तपस्विन एव शरणानि रक्षका यस्य सो ऽहमस्मि अतः मां क्लेष्टुं क्लेशं दातुं त्वं नार्हसि ॥ ४।११।१७ ॥
तस्येति । गिरिराजस्य तस्य हिमवतः तत् युद्धानर्हत्वप्रतिपादकं वचनं श्रुत्वा क्रोधात्स्वाभाविककोपात् संरक्ते लोचने यस्य स दुन्दुभिरुवाच ॥ ४।११।१८ ॥
तद्वचनाकारमाह यदीति । यदि युद्धे त्वमसमर्थः मद्भयाद्वा निरुद्यमः युद्धोद्योगरहितस्त्वमसीति शेषः, तदा युजुत्सतो मे यो युद्धं दद्यात् तमाचक्ष्व बोधय ॥ ४।११।१९ ॥
हिमवानिति । अनुक्तपूर्वं न उक्तः केनचिद्बोधितः पूर्वः युद्धेन प्रीतिप्रापको यस्मै तमसुरेश्वरं वाक्यविशारदः हिमवान् वाक्यमब्रवीत् ॥ ४।११।२० ॥
तद्वचनाकारमाह वालीति । प्रतापवान् अतिप्रतापविशिष्टः वालीनाम शक्रपुत्रः वानरः अतुलप्रभां किष्किन्धामध्यास्ते ॥ ४।११।२१ ॥
स इति । महाप्राज्ञस्तव युद्धविशारदः प्रवृद्धयुद्धे निपुणः स वाली स वासव इन्द्रः नमुचेरिव ते द्वन्द्वयुद्धं दातुं समर्थो ऽस्तीति शेषः ॥ ४।११।२२ ॥
तमिति । यदीह युद्धमिच्छसि तदा तं शीघ्रमभिगच्छ हि यतः स वाली दुर्मर्षणः उत्कटवचनश्रवणासहः समरकर्मणि नित्यं शूरः ॥ ४।११।२३ ॥
श्रुत्वेति । हिमवतो वाक्यं श्रुत्वा कोपाविष्टः वालिबलवत्ताश्रवणजनितकोपविशिष्टः तीक्ष्णशृङ्गः प्रावृषि तोयपूर्णः महामेघ इव स दुन्दुभिः वालिनः पुरीं किष्किन्धां जगाम । श्लोकद्वयमेकान्वयि ॥ ४।११।२४,२५ ॥
तत इति । महाबलः दुन्दुभिः किष्किन्धायाः द्वारमागत्य भूमिं कम्पयन् समीपजान्द्रुमान् भञ्जन् खुरैः वसुधां दारयन् विषाणेन शृङ्गेण द्विरदो गज इव तद्द्वारमुल्लिखन् सन् दुन्दुभिर्यथा दुन्दुभिरिव ननर्द । श्लोकद्वयमेकान्वयि ॥ ४।११।२६,२७ ॥
अन्तरिति । अन्तःपुरगत इति । सह स्त्रीभिरिति मदातिरेकादिति भावः ॥ ४।११।२८ ॥
मितेति । मितानि प्रमितानि व्यक्तानि स्फुटानि अक्षरपदानि यस्मिन् तद्वाक्यं हरीणां वानराणां सर्वेषां वनचारिणां च ईश्वरो वाली तं दुन्दुभिमुवाच ॥ ४।११।२९ ॥
तद्वचनाकारमाह किमर्थमिति । हे दुन्दुभे? यतस्त्वं मे विदितः ज्ञातो ऽसि अतः नगरद्वारं रुद्धा किमर्थं विनर्दसे विनर्दनं न कुर्वित्यर्थः, एतेन विनर्दने त्वां हनिष्यामीति सूचितम् अतः हे महाबल प्राणान् रक्ष विदितो ऽसीत्यनेन तत्पराक्रमस्याल्पत्वं ध्वनितम् ॥ ४।११।३० ॥
तस्येति । वानरेन्द्रस्य वालिनस्तद्वचनं श्रुत्वा क्रोधात्संरक्तलोचनो दुन्दुभिर्वाक्यमुवाच ॥ ४।११।३१ ॥
तद्वचनाकारमाह नेति । स्त्रीसंनिधौ वीरवचनं स्ववीरत्वबोधकं वाक्यं वक्तुं त्वं नार्हसि । एतेन स्त्रीवञ्चनार्थमेव एवं वचनं त्वयोक्तमिति सूचितम् अद्य मम मह्यं युद्धं त्वं प्रयच्छ ततः युद्धदानात् ते बलं ज्ञास्यामि वीरेति संबोधनं वा ॥ ४।११।३२ ॥
अथवेति । अथवा स्त्रीसंयोगस्य दुष्परिहरत्वे इमां निशां क्रोधं त्वदुद्धतवाक्यजनितकोपं धारयिष्यामि अन्तर्नियच्छामि अतः कामभोगेषु उदयः आसक्तिः स्वैरं गृह्यतां एतेन निशावसाने कामासक्तिं संत्यज्य मया युद्धस्वेति सूचितम् ॥ ४।११।३३ ॥
भावियुद्धजनितस्वप्राणघातं संस्मृत्य अन्तकालकृत्यं निशायामेव क्रियताम् इति बोधयन्नाह दीयतामिति । यतो ऽहं ते गर्वनाशनः अतः वानरान्परिष्वज्य अन्तकालोचितालिङ्गनं कृत्वा संप्रदानं प्रीत्यादेयं वस्तु दीयतां त्वयेति शेषः, अत एव सर्वशाखामृगेन्द्रस्त्वं सुहृज्जनं संभावय प्रीतिदाने संतोषयेत्यर्थ । किष्किन्धां सुदृष्टां कुरु पुनरागमनाशनिवृत्त्या अत्यन्तमवलोकयेत्यर्थः । आत्मसमं पालकत्वेन स्वसदृशं पुरे किष्किन्धायां कुरुष्व राज्यासने कंचन संस्थापयेत्यर्थः । स्त्रीभिः सह क्रीडस्व च इमां निशामिति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।११।३४,३५ ॥
निशावकाशदाने हेतुमाह य इति । मत्तं पुत्रलालनादिना अनवहितं प्रमत्तं मद्यपानादिना अनवहितं वा सुप्तं स्वापविशिष्टं रहितमायुधादिहीनं वा त्वद्विधं भृशमत्यन्तं मदमोहितं वा यो हन्यात् स भ्रूणहा भवेत् । एतेन अपराधशङ्क्यैव इदानीं मया त्वं न हन्यसे इति सूचितम् ॥ ४।११।३६ ॥
स इति । स वाली प्रहस्य क्रोधात् ताराप्रभृतिकाः सर्वाः स्त्रियो विसृज्य त्यक्त्वा च असुरेश्वरं दुन्दुभिं वाक्यमब्रवीत् ॥ ४।११।३७ ॥
तद्वचनाकारमाह मत्त इति । संयुगे संग्रामे यदि अभीतो ऽसि तदा अयं मत्तः इति मामंस्थाः । ननु किं मन्तव्यमित्यत आह अयं स्त्रीसंगजनितो मदः अस्मिन् संप्रहारे संग्रामे वीरपानं युद्धोत्साहहेतुकवीरकर्तृकपानविशेषः समर्थ्यतां बुध्यताम् ॥ ४।११।३८ ॥
तमिति । संक्रुद्धः वाली तं दुन्दुभिमेवमुक्त्वा काञ्चनीं पित्रा महेन्द्रेण दत्तां मालाम् उत्क्षिप्य कण्ठे संधार्येत्यर्थः, युद्धाय व्यवतिष्ठत ॥ ४।११।३९ ॥
विषाणयोरिति । गिरिसंनिभं दुन्दुभिं विषाणयोः शृङ्गयोर्गृहीत्वा कपिकुञ्जरो वाली विनदन्सन् अविध्यत मुष्ट्यादिना मुखादावताडयत् ॥ ४।११।४० ॥
बलादिति । बलाद्व्यापादयाञ्चके पातयामास महास्वनं ननर्द च अथ अनन्तरं पात्यतः पात्यमानस्य तस्य दुन्दुभेः श्रोत्राभ्यां रक्तं सुस्राव ॥ ४।११।४१ ॥
तयोरिति । क्रोधसंरम्भात् क्रोधावेशात् परस्परजयैषिणोस्तयोः दुन्दुभेः वालिनश्च घोरं युद्धं समभवत् ॥ ४।११।४२ ॥
अयुध्यतेति । तदा शक्रतुल्यपराक्रमो वाली मुष्ट्यादिभिरयुध्यत ॥ ४।११।४३ ॥
परस्परमिति । तत्र युद्धे वानरासुरयोः परस्परं घ्नतोः सतोः असुरो दुन्दुभिः हीनः क्षीणबल आसीत् तदा शक्रसूनुः वाली व्यवर्धत प्रबलत्वं प्राप्नोत् ॥ ४।११।४४ ॥
तमिति । तस्मिन्प्राणहरे युद्धे दुन्दुभिम् उद्यम्य उत्थाप्य धरण्यामभ्यपातयत् अत एव तदा पातनकाले दुन्दुभिः निष्पिष्टः आसीदिति शेषः ॥ ४।११।४५ ॥
स्रोतोभ्य इति । यः महाकायः क्षितौ पपात तस्य पात्यतः पात्यमानस्य स्रोतोभ्यः स्रोतस्सदृशेभ्यः नासिकादिभ्यः बहु रक्तं सुस्राव च अत एव पञ्चत्वमागतः मृत इत्यर्थः ॥ ४।११।४६ ॥
तमिति । तं दुन्दुभिं बाहुभ्यां तोलयित्वा वेगेवान्वाली एकेनाल्पेन वेगेन योजनं चिक्षेप ॥ ४।११।४७ ॥
तस्येति । वेगप्रवृद्धस्य वेगः प्रवृद्धो यस्मै तस्य दुन्दुभेः वक्रात् मुखात् मारुतोत्क्षिप्ताः क्षतजबिन्दवः रुधिरविप्रुषः मतङ्गस्याश्रमं प्रति प्रपेतुः ॥ ४।११।४८ ॥
तानिति । पतितान् शौणितविप्रुषः रक्तबिन्दून् दृष्ट्वा क्रुद्धो मुनिर्मतङ्गस्तस्य शोणितस्य कर्ता को ऽमिति चिन्तयामास । विप्रुट्विशेषणयोः पुल्लिङ्गत्वमार्षम् ॥ ४।११।४९ ॥
तच्चिन्ताकारमाह येनेति । दुरात्मना येन कर्त्रा शोणितेन करणेनाह स्पृष्टः सः दुरात्मा दुष्टप्रयत्नकः दुर्बुद्धिः अकृतात्मा अयत्तचित्तः अत एव बालिशः अयं समीपस्थः कः ॥ ४।११।५० ॥
इतीति । इत्युक्त्वा मुनिसत्तमो मतङ्गः विनिष्क्रम्य गतासुम् अत एव भुवि पतितं पर्वताकारं महिषं ददर्श ॥ ४।११।५१ ॥
स इति । स मतङ्गस्तपसा ज्ञानचक्षुषा तत्कर्म वानरेण कृतं विज्ञाय क्षेप्तारम् असुरशरीरस्येति शेषः, वानरं प्रति महाशापमुत्ससर्ज ॥ ४।११।५२ ॥
शापप्रकारमाह इहेति । मत्संश्रयं वनं येन रुधिरस्रवैर्दूषितं तेन इह वने अप्रवेष्टव्यम् । तत्र हेतुः प्रविष्टस्य वधो भवेत् ॥ ४।११।५३ ॥
तदगम्यदेशमर्यादां बोधयन्नाह क्षिपतेति । आसुरीं तनुं क्षिपता येन इमे पादपाः संभग्नाः स दुर्बुद्धिः समन्तात्पूर्णं योजनं मामकमाश्रमं यदि आक्रमिष्यति तर्हि न भविष्यति मरिष्यतीत्यर्थः । सार्धश्लोक एकान्वयी ॥ ४।११।५४ ॥
ये इति । अस्य क्षेप्तुः ये केचित् सचिवाः मामकं वनं संश्रितास्तैरिह वने न वस्तव्यम् इति वचः श्रुत्वा यथासुखं यान्तु ॥ ४।११।५५ ॥
ते इति । ते तत्सचिवाः पुत्रवत्परिरक्षिते अस्मिन् मामके वने पत्रादिविनाशाय यदि तिष्ठन्ति स्थास्यन्ति तर्हि तानपि ध्रुवं शपिष्ये शपामि । सार्धश्लोक एकान्वयी ॥ ४।११।५६,५७ ॥
शापप्रकारमाह दिवस इति । अद्यदिवसः इदं दिनं मर्यादा अस्माद्दिनादारभ्येत्यर्थः, यं वालिपक्षीयं वानरं श्वो ऽनागते अह्नि द्रष्टास्मि स वानरः शैलो भविष्यति ॥ ४।११।५८ ॥
तत इति । मुनिसमीरितां गिरं वानराः श्रुत्वा तस्मात् वनात् निश्चक्रमुः तान् निष्क्रान्तान् वानरान् दृष्ट्वा वालिरब्रवीत् ॥ ४।११।५९ ॥
तद्वचनाकारमाह किमिति । मतङ्गवनवासिनः समस्ताः निखिला भवन्तः मत्समीपं किं किमर्थमनुप्राप्ताः । वनौकसां वनौकेभ्यः अपि स्वस्ति ॥ ४।११।६० ॥
तत इति । ततः वालिप्रश्नश्रवणानन्तरं सर्वं कारणं शापहेतुं वालिनः वालिसंबन्धिनं शापं च हेममालिने वालिने सर्वे वानराः शशंसुः ॥ ४।११।६१ ॥
एतदिति । वानरेरितं वानरैरुक्तमेतद्वचनं श्रुत्वा वाली महर्षिं तं मतङ्गं समासाद्य प्राप्य कृताञ्जलिः सन् याचते स्म शापनिवृत्तये पार्थनां चक्रे इत्यर्थः ॥ ४।११।६२ ॥
महर्षिरिति । महर्षिर्मतङ्गः तं वालिनमनादृत्य प्रार्थनामनङ्गीकृत्येत्यर्थः, आश्रमं प्रति विवेश वाली तु शापधारणभीतः शापहेतुकप्राप्तभयः सन् विह्वलतां गतः प्राप्तः ॥ ४।११।६३ ॥
तत इति । ततस्तस्माद्दिनादारभ्य शापभयात् भीतो हरिर्वानरो वाली ऋष्यमूकं महागिरिं प्रवेष्टुं द्रष्टुं वा नेच्छति ॥ ४।११।६४ ॥
तस्येति । हे राम तस्य वालिनः अप्रवेशं शापवशेन प्रवेशाभावं ज्ञात्वा विषादेन दुःखेन विवर्जितः सहामात्यो ऽहमिदं महावनं विचरामि ॥ ४।११।६५ ॥
एष इति । वीर्योत्सेकात्स्ववीर्यगर्वात् निरस्तस्य वालिना त्याजितस्य तस्य वालिनिहतस्य दुन्दुभेः गिरिकूटनिभः महान् अस्थिनिचयः अस्थिसमूहः एष संप्रकाशते ॥ ४।११।६६ ॥
इमे इति । शाखावलम्बिनः प्रशस्तशाखायुक्ताः विपुलाः अतिस्थूलमूलादिमन्तः इमे सप्तसंख्याकाः शालास्तदभिधतरवः सन्तीति शेषः । यत्र येषु तरुषु एकं तरुं निष्पत्रयितुं पत्रविहीनं कर्तुमोजसा ओजोहेतुकमूलग्रहणपूर्वककम्पनेन वाली घटते शक्नोति ॥ ४।११।६७ ॥
एतदिति । तस्य वालिनः असमम् अन्यसाम्यरहितम् एतद्वीर्यं मया प्रकाशितम्, तं वालिनं समरे हन्तुं त्वं कथं शक्ष्यसे ॥ ४।११।६८ ॥
तथेति । तथा तेन प्रकारेण ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मण अब्रवीत् । तद्वचनाकारमाह कस्मिन्कर्मणि निर्वृत्ते रामेण निष्पादिते सति वालिनो वधं त्वं श्रद्धध्याः वधविश्वासं कुर्याः ॥ ४।११।६९ ॥
तमिति । अथ अनन्तरं सुग्रीवः तं लक्ष्मणमुवाच । तद्वचनाकारमाह पुरा पूर्वमिमान्सप्तशालान् एकैकशः असकृदनेकवारं प्रहारेण स वाली विव्याध अकम्पयत् । एवमनेन प्रकारेण एषां तरूणां मध्ये द्रुममेकतरुं रामः चेद्यदि एकेन बाणेन विदारयेत् हतस्य वालिना निहतस्य महिषस्य अस्थि एकेन पादेन उद्यम्य द्वे धनुःशते तरसा वेगेन प्रक्षिपेच्च तदा रामस्य विक्रमं दृष्ट्वा वालिनं निहतं मन्ये मंस्ये । श्लोकत्रयमेकान्वयि ॥ ४।११।७०७२ ॥
एवमिति । सुग्रीवः एवमुक्त्वा रक्तान्तलोचनमरुणनेत्रप्रान्तभागं रामं मुहूर्तं ध्यात्वा अयं वालिवधयोग्यो न वेति संचिन्त्य अब्रवीत् ॥ ४।११।७३ ॥
तद्वचनाकारमाह शूर इति । शूरः अतिशौर्यविशिष्टः अत एव शूरमानी शूरकर्तृकसत्कारवान् प्रख्यातबलपौरुषः प्रसिद्धबलैश्वर्यवान् बलवान् अनेकबलवद्विशिष्टः प्रशस्तसेनाविशिष्टो वा संयुगेषु संग्रामेषु अपराजितः वाली अस्तीति शेषः ॥ ४।११।७४ ॥
दृश्यन्ते इति । अस्य वालिनः सुरैरपि दुष्कराणि यानि कर्माणि दृश्यन्ते तानि संचिन्त्य भीतो ऽहमृष्यमूकमुपाश्रितः प्राप्तः ॥ ४।११।७५ ॥
तमिति । अजय्यम् अस्माभिर्जेतुमशक्यम् अत एव अधृष्यं धर्षयितुमशक्यम् अमर्षणं क्षमारहितं वानरेनद्रं वालिनं विचिन्तयन् अहम् अमुम् ऋष्यमूकं न मुञ्चामि ॥ ४।११।७६ ॥
उद्विग्न इति । शङ्कितस्तत्पौरुषादिस्मरणेन शङ्कावान् अत एव उद्विग्नः उद्विग्नचित्तो ऽहमनुरक्तैः मद्विषयकानुरागविशिष्टैर्हनुमत्प्रमुखैरमात्यैः सह महावने विचरामि ॥ ४।११।७७ ॥
उपलब्धमिति । हे मित्रवत्सल श्लाध्यं प्रशंसनीयं सन्मित्रं मे मया उपलब्धम् अत एव पुरुषव्याघ्रं हिमवन्तमिव त्वामहमाश्रितः ॥ ४।११।७८ ॥
ननु तर्हि संशयं त्यजेत्यत आह किमिति । बलशालिनः अतिबलवतः दुर्भ्रातुस्तस्य वालिनः बलज्ञो ऽहं तव वीर्यं तु समरे मे अप्रत्यक्षम् एतेन इदानीमपि संशयो न निवृत्त इति सूचितम् ॥ ४।११।७९ ॥
संशयनिवृत्त्यभावे हेतुं वदन्नाह नेति । त्वामहं न तुलये केनचित्सदृशं जानामि सर्वविलक्षणत्वादिति तात्पर्यम् । अवमन्ये न वालिकथनेनावमानं न करोमि भीषये च न किंतु तस्य वालिनः भीमैः कर्मभिः मम कातर्यं जनितम् । एतेन कातर्यमूलकमेव वालिपराक्रमवर्णनमिति व्यञ्जितम् ॥ ४।११।८० ॥
ननु तर्हि मद्विश्वासं कथं करोषीत्यत आह काममिति । हे राघव ते वाण्यादयः भस्मच्छन्नमनलं वह्निमिव ते तेजः सूचयन्ति ॥ ४।११।८१ ॥
तस्येति । महात्मनस्तस्य सुग्रीवस्य तद्वचनं श्रुत्वा रामः हरिं सुग्रीवं प्रति स्मितपूर्वं प्रत्युवाच ॥ ४।११।८२ ॥
तद्वचनाकारमाह यदीति । हे वानर अस्मासु विद्यमाने विक्रमे पराक्रमे तव प्रत्ययो विश्वासो यदि न तर्हि समरे श्लाध्यं ते प्रत्ययं प्रतीतिविषयीभूतविक्रममुत्पादयामि ॥ ४।११।८३ ॥
एवमिति । लक्ष्मणाग्रजो रामः सुग्रीवं सान्त्वयन् सन् एवमुक्त्वा असुरस्य दुन्दुभेः कायं पादाङ्गुष्ठेन तोलयित्वा शुष्कां तनुं पादाङ्गुष्ठेन लीलया दशयोजनं चिक्षेप । कर्मणः करणस्य च पुनरुपादानमुभयत्र शाब्दान्वयविवक्षया । श्लोकद्वयमेकान्वयि ॥ ४।११।८४,८५ ॥
क्षिप्तमिति । सुग्रीवः क्षिप्तं कायं दृष्ट्वा भास्करमिव लक्ष्मणस्याग्रतः अग्रे तपन्तं प्रकाशमानं रामं हरीणां वानराणामग्रतः अग्रे अर्थवदिदं वचनं पुनरब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।११।८६ ॥
तदाकारमाह आर्द इति । हे सखे आर्द्रः रुधिरव्याप्तः समांसः मांससहितः प्रत्यग्रः अग्रभागसहितः कायः परिश्रान्तेन परिश्रमविशिष्टेन मत्तेन मे भ्रात्रा वालिना पुरा पूर्वं क्षिप्तः संप्रति इदानीं तु निर्मासः मांसरहितः शुष्क इत्यर्थः, अत एव लघुः अत एव तृणभूतः लघुत्वेन तृणत्वं प्राप्तः काय इति शेषः, भवता क्षिप्तः अतः अत्र अस्मिन् क्षेपे तवाधिकं बलं वालिनो वा अधिकं बलं विज्ञातुं निर्णेतुं न शक्यम् । सार्धश्लोकद्वयमेकान्वयि ॥ ४।११।८७,८८ ॥
तदेव भङ्ग्यन्तरेणाह आर्द्रमिति । हे राघव हि यतः आर्द्रं शुष्कं सुमहदन्तरं परस्परमतिभेदवत् अतस्तव तस्य वालिनो यद्बलं तत्र सः पौर्वकालिक एव संशयस्तिष्ठतीति शेषः ॥ ४।११।८९ ॥
ननु कथं संशयनिवृत्तिरित्यत आह सालमिति । अपरं हस्तिहस्तमिव एतत्कार्मुकं धनुः सज्यं कृत्वा आकर्णपूर्णमायम्य महाशरं विसृजस्व अत एव एकं सालं विनिर्भिद्य बलाबले बलाबलयोः व्यक्तिः प्राकट्यं भवेत् । सार्धश्लोक एकान्वयी ॥ ४।११।९०,९१ ॥
इममिति । त्वया प्रहितः शरः इमं सालं विदारयिष्यति अत्र संशयो नास्ति अतः मया प्रतिशापितः कृतशपथस्त्वं मम प्रियं ध्रुवं कुरुष्व विमर्शेन एतद्विरोधिविचारेण अलं न कुर्वित्यर्थः ॥ ४।११।९२ ॥
यथेति । तेजस्सु तेजोविशिष्टेषु रविर्वरः महाद्रिषु हिमवान् चतुष्पात्सु केसरी सिंहो यथा तथा विक्रमे त्वमसि इत्थं प्रतीयसे इत्यर्थः ॥ ४।११।९३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकादशः सर्गः ॥ ४।११ ॥