०१० वालिना सुग्रीवनिर्भर्त्सनम्

सुग्रीवः क्रुद्धवालिविषये स्वकृत्यमाह– तत इत्यादिभिः । ततः वालिसमागमानन्तरं क्रोधसमाविष्टं क्रोधेन संयुक्तम् अत एव संरब्धं क्रोधसूचकचेष्टावन्तम् उपागतं प्राप्तं तं वालिनं हितकाम्यया स्वकल्याणवाञ्छया ऽहं प्रसादयाञ्चक्रे ॥ ४।१०।१ ॥

प्रसादनप्रकारमाह दिष्ट्येत्यादिभिः । हे अनाथनन्दन त्वया रिपुर्निहतः कुशली त्वं प्राप्तश्च स्वपुरमिति शेषः, दिष्ट्या भाग्यमेतत् ॥ ४।१०।२ ॥

इदमिति । मया धृतमिदं सवालव्यजनं चामरसहितम् उदितं पूर्णचन्द्रमिव बहुशलाकं ते छत्रं प्रतीछस्व स्वीकुरु ॥ ४।१०।३ ॥

ननु मामुपेक्ष्य कथं त्वमिहागत इत्यत आह आर्त इति । आर्तः भवत्कर्तृकबिलप्रवेशात् दुःखितः अत एव तत्र तस्यां बिलद्वारि संवत्सरं स्थितः बिलात् समुत्थितं शोणितं रुधिरं द्वारि दृष्ट्वा शोकसंविग्नहृदयः निश्चितभ्रातृवियोगजनितशोकव्याप्तचित्तः अत एव भृशमत्यन्तं व्याकुलितेन्द्रियो ऽहं शैलशृङ्गेण बिलद्वारमपिधाय असुरनिर्गमाभावाय आछाद्य तस्मात् देशात् अपाक्रम्य निर्गत्य किष्किन्धां पुनः प्राविशम् । सार्धश्लोकद्वयमेकान्वयि ॥ ४।१०।४,५ ॥

विषादादिति । विषादादिहागतमिति शेषः, मां दृष्ट्वा पौरेर्मन्त्रिभिश्चाहमभिषिक्तः कामेन स्वेच्छया नाभिषिक्तः तत् तस्मात् हेतोः मे अज्ञातापराधमिति शेषः, क्षन्तुमर्हसि यतो मानार्हः अस्माभिः पूजनीयः राजा त्वमेव अहं तु यथापुरा पूर्वसदृशस्त्वत्सेवक इत्यर्थः । सार्धश्लोक एकान्वयी ॥ ४।१०।६,७ ॥

ननु सेवकत्वे कथं राज्ये स्थितिरित्यत आह राजेति । राजभावे राजधर्मे अयं मम नियोगस्त्वद्विरहात् तवाभावात् हेतोः कृतः अमात्यैः संपादितः अत एव सामान्यपौरनगरम् अमात्यपौरनगरसहितं निहतकण्टकं राज्यं स्थितम् ॥ ४।१०।८ ॥

न्यासेति । तव न्यासभूतं स्वकीयत्वेन संस्थापितमिव इदं राज्यं निर्यातयामि तुभ्यं समर्पयामीत्यर्थः, अत मम मयि रोषं मा कृथाः ॥ ४।१०।९ ॥

याचे इति । मन्त्रिभिः पुरवासिभिश्च समागम्य शून्यदेशजिगीषया राजरहितदेशकर्तृकोत्कर्षप्राप्तीच्छया शत्र्वाक्रमणनिवारणायेत्यर्थः, बलात् हठात् राजभावे अहं नियुक्तः अतः शिरसा प्रणतमूर्धा त्वां याचे प्रसादाय प्रार्थयामि अत एव अयमञ्जलिर्मया बद्धः । सार्धश्लोक एकान्वयी ॥ ४।१०।१० ॥

स्निग्धमिति । स वानरः स्निग्धं स्नेहयुक्तमेवं वचो ब्रुवाणं मां विनिर्भर्त्स्य त्वां धिगिति च मामुक्त्वा बहु अत्यन्तं तत्तत् अवाच्यवचनजातमुवाच ॥ ४।१०।११ ॥

प्रकृतीरिति । सुहृदां मध्ये प्रकृतीः प्रजाः संमतान् मन्त्रिणश्च समानीय परमगर्हितं निन्दितं वाक्यं मामाह ॥ ४।१०।१२ ॥

तदाकारं बोधयितुं वाल्युक्तिमाह विदितमित्यादिभिः । आपुरा युद्धाकाङ्क्षातिपूरकेण मया युद्धाकाङ्क्षी महासुरो मायावी मां समाहूयत तत् वो युष्माकं विदितम् ॥ ४।१०।१३ ॥

तस्येति । तस्य मायाविनो भाषितं श्रुत्वा नृपालयात् स्वगृहात् अहं निःसृतः सुदारुणः वक्ष्यमाणदारुणकर्मविशिष्टः अयं भ्राता मामनुयातः ॥ ४।१०।१४ ॥

स इति । महाबलः स मायावी सद्वितीयं द्वितीयसहितं मां दृष्ट्वैव भयसंत्रस्तः सन् प्राद्रवत् पलायत समुपागतौ पलायने ऽपि समीपं प्राप्तौ आवां वीक्ष्य अभिद्रुतः अतिद्रुतं गतः सन् महाबिलं वेगेन विवेश । सार्धश्लोकः संमिलितान्वयी ॥ ४।१०।१५,१६ ॥

तमिति । सुमहत् बिलं प्रविष्टं तं मायाविनं विदित्वा अयं भ्राता मया उक्तः ॥ ४।१०।१७ ॥

तदुक्तिप्रकारमाह अहत्वेति । अहत्वा मायाविवधमकृत्वा इतः पुरीं गन्तुं मे शक्तिर्नास्ति अतः यावदेनं मायाविनं निहन्मि तावत् बिलद्वारि त्वं प्रतीक्ष प्रतीक्षस्व ॥ ४।१०।१८ ॥

स्थित इति । अयं स्थितः गुहाद्वारीति शेषः, इति मत्वा निश्चित्य दुरासदम् असुरातिरिक्तैः प्रवेष्टुमशक्यं विबरमहं प्रविष्टः । तं मायाविनं मार्गयतः अन्वेषयतो मे मम संवत्सरो गतो व्यतीतः ॥ ४।१०।१९ ॥

स इति । अनिर्वेदात् संवत्सरमन्वेषणादनिवृत्तेर्हेतोः बन्धुभिः सह भयावहो मायावी मया दृष्टो निहतश्च ॥ ४।१०।२० ॥

तस्येति । तस्य चोरप्रायस्य भूतले भूवो ऽधोभागे स्तनतः स्वनं कुर्वतस्तस्य निहतमायाविनः आस्यात् मुखात् प्रवृत्तेन रुधिरौघेण दुराकामं तद्बिलं पूर्णमासीत् ॥ ४।१०।२१ ॥

सूदयित्वेति । विक्रान्तम् अतिविक्रमवन्तं शत्रुं तं मायाविनमहं सुखं सूदयित्वा इह वर्णितबिले निष्क्रामं निर्गतमार्गं न पश्यामि नापश्यम् । तत्र हेतुः बिलस्य मुखं पिहितम् ॥ ४।१०।२२ ॥

विक्रोशमानस्येति । सुग्रीवेति पुनः पुनः विक्रोशमानस्य मे यतः प्रतिवचः प्रत्युत्तरं नास्ति ततः तस्मात् हेतोः अहं भृशं दुःखितः ॥ ४।१०।२३ ॥

पादप्रहारैरिति । बहुभिः पादप्रहारैः परिपातितं विदारितं निर्गमाय मार्गः कृत इत्यर्थः, ततो ऽनन्तरं तेन स्वपादप्रहारकृतमार्गेण निष्क्रम्य पुरं यथा यथावत् उपागतः, किं च यथापुरं पूर्ववदेवेत्यर्थः ॥ ४।१०।२४ ॥

शिलापिधाने स्वकल्पितहेतुमाह तत्रेति । आत्मनो राज्यं मृगयता कथं प्राप्नुयामिति विचारयता सुग्रीवेण भ्रातृसौहृदं विस्मृत्य तत्र तस्मिन् बिले ऽहं संरुद्धो ऽस्मि ॥ ४।१०।२५ ॥

एवमिति । तत्र तस्मिन्समये मामेवमुक्त्वा विगतसाध्वसस्त्यक्तभयः वाली निर्वासयामास निःसारयामास ॥ ४।१०।२६ ॥

तेनेति । तेन वालिना अपविद्धस्ताडितः हृतदारश्चाहं तद्भयात् सवनार्णवां वनार्णवसहितां सर्वां महीं क्रान्तवानस्मीति शेषः । एतेन निर्वासिते ऽपि सुग्रीवे ऽनेकविधविघातयत्नं कृतवानिति व्यक्तं, तेन तस्य महानपराधो व्यञ्जितः ॥ ४।१०।२७ ॥

ऋष्यमूके निरन्तरं स्थितौ हेतुमाह ऋष्यमूकमिति । भार्याहरणदुःखितो ऽहं कारणान्तरे मतङ्गशापरूपकारणविशेषे सति वालिनो दुराधर्षं प्रवेष्टुमशक्यम् ऋष्यमूकं प्रविष्टो ऽस्मि ॥ ४।१०।२८ ॥

एतदिति । हे राघव अनागसा अपराधरहितेन मया व्यसनं दुःखं प्राप्तम् इति पश्य जानीहि । एतत् महत् वैरानुकथनं वैरकथा ते तुभ्यमाख्यातं कथितम् ॥ ४।१०।२९ ॥

वालिन इति । हे सर्वलोकभयापह वालिनः सकाशात् भयार्तस्य मे प्रसादं तस्य वालिनः निग्रहात् वधात् कर्तुमर्हसि ॥ ४।१०।३० ॥

एवमिति । एवमुक्तः सुग्रीवेण प्रार्थितः स तेजस्वी रामः प्रहसन्नेव सुग्रीवं वक्तुमारेभे । इव एवार्थे ॥ ४।१०।३१ ॥

तद्वचनाकारमाह अमोघा इति । अमोघानैष्फल्यरहिताः रुषा तवापराधजनितदुरितनिवृत्तिहेतुककोपेन प्रयुक्ताः इमे मे शराः दुर्वृत्ते वालिनि पतिष्यन्ति ॥ ४।१०।३२ ॥

वधे विलम्बो नास्तीति बोधयन्नाह यावदिति । तव भार्यापहारिणं तं वालिनं यावन्न पश्येयं स्वात्मानं न दर्शयामि तावत् चारित्रदूषकः मर्यादाविघातको वाली जीवेत् ॥ ४।१०।३३ ॥

आत्मेति । आत्मानुमानात् स्वदृष्टान्तकानुमानरूपप्रमाणतः त्वं शोकसागरे मग्न इत्यहं पश्यामि जानामि अतः त्वामहं तारयिष्यामि शोकसागरात्पारं प्रापयिष्यामि अतः पुष्कलं संपूर्णं भार्यां राज्यं चेत्यर्थः, बाढं यथा भवति तथा प्राप्स्यसि ॥ ४।१०।३४ ॥

तस्येति । हर्षपौरुषवर्धनं तस्य रामस्य तद्वचनं श्रुत्वा परमप्रीतः सुग्रीवः सुमहद्वाक्यमब्रवीत् ॥ ४।१०।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे दशमः सर्गः ॥ ४।१० ॥