००९ सुग्रीवेण वैरकारणकथनम्

सुग्रीवोक्तिमाह वालीत्यादिभिः । शत्रुनिषूदनो ज्येष्ठो वालीनाम मम भ्राता पुरा वैरात्पूर्वं यथा पितुबहुमतः प्रियः इत्यर्थः, तथा ममापि बहुमतः आसीदिति शेषः ॥ ४।९।१ ॥

पितरीति । पितरि उपरते मृते सति ज्येष्ठो ऽयमिति हेतोः राज्ये राज्यासने परमसंमतो वाली मन्त्रिभिः कपीनामीश्वरः कृतः ॥ ४।९।२ ॥

राज्यमिति । पितृपैतामहम् पित्रादिपरम्परया भुक्तं राज्यं प्रशासतस्तस्य वालिनः प्रेष्यवत् भृत्यवत् सर्वेषु कालेषु प्रणतो ऽहं स्थितः ॥ ४।९।३ ॥

मायावीति । दुन्दुभेः पूर्वजो ज्येष्ठः मयस्य सुतो मायावीनाम बभूवेति शेषः । तेन मायाविना तस्य वालिनः स्त्रीकृतं स्त्रीमूलकं महत् वैरं पुरा अभवदिति शेषः । मयस्येत्यध्याहृतम् । अत एव “मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम्” इत्युत्तरकाण्डे वक्ष्यमाणं संगच्छते ॥ ४।९।४ ॥

स इति । रात्रौ सुप्ते सति किष्किन्धाद्वारमागतः सुसंरब्धः जातकोपः स मायावी नर्दति स्म रणे रणार्थं वालिनमाह्वयच्च ॥ ४।९।५ ॥

प्रसुप्त इति । प्रसुप्तो मम भ्राता वाली नर्दतो मायावीनो भैरवस्वनं श्रुत्वा न ममृषे अत एव जवात् वेगात् निष्पपात निरगच्छत् ॥ ४।९।६ ॥

स इति । क्रोधात् असुरोत्तमं हन्तुं निस्सृतः स वाली स्त्रीभिः प्रणतात्मना मया च वार्यमाण आसीदिति शेषः ॥ ४।९।७ ॥

स इति । स वाली ताः मया सहिताः सर्वाः स्त्रियः निर्धूय तिरस्कृत्य निर्जगाम । ततो ऽनन्तरं सौहार्दात् हेतोः वालिना सह अहमपि निस्सृतः ॥ ४।९।८ ॥

स इति । अवस्थितं भ्रातरं मां च दूरात् दृष्ट्वा जातसंत्रासः असुरः स मायावी भृशं प्रदुद्राव ॥ ४।९।९ ॥

तस्मिन्निति । सत्रस्ते तस्मिन् द्रवति विद्रवति सति आवां द्रुततरमतिशीघ्रं गतौ तदा उद्गच्छता उदयं प्राप्नुवता चन्द्रेण मार्गो ऽपि प्रकाशः प्रकाशितः कृतः ॥ ४।९।१० ॥

स इति । असुरः स मायावी तृणैः आवृतं महत् बृहत् अत एव दुर्गममन्यैर्दुर्गमं धरण्या विवरं वेगात् प्रविवेश । आवामासाद्य गुहाद्वारं प्राप्य विष्ठितौ स्थितौ ॥ ४।९।११ ॥

तमिति । बिलं प्रविष्टं तं रिपुं दृष्ट्वा रोषवशं गतः अत एव क्षुभितेन्द्रियो वाली मामुवाच ॥ ४।९।१२ ॥

तद्वचनाकारमाह इहेति । अत्र अस्यां गुहायामद्य प्रविश्य समरे रिपुं यावन्निहन्मि तावत् समाहितस्त्वमिह बिलद्वारि तिष्ठ ॥ ४।९।१३ ॥

मयेति । एतत् वचः श्रुत्वा परंतपः स वाली मया याचितः सह प्रवेशायेति शेषः, स मया याचितो वाली पद्भ्यां स्वचरणाभ्यां मां शापयित्वा बिलात् यावत्स्वागमनं स्वचरणशपथपूर्वकं संस्थाप्येत्यर्थः, ततस्तद्बिलं प्रविवेश ॥ ४।९।१४ ॥

तस्येति । बिलं प्रविष्टस्य तस्य वालिनः साग्रः समग्रः संवत्सरः गतो व्यतीतः । बिलद्वारि स्थितस्य ममापि सः साग्रः संवत्सरः कालः व्यत्यवर्तत ॥ ४।९।१५ ॥

अहमिति । तं बिले प्रविष्टं भ्रातरं न पश्यामि संवत्सरपर्यतं नापश्यम् इति हेतोः मे मनः पापशङ्कि पापात् पापिनः मायाविनः शङ्कते स्वभ्रातृकर्मकवधं संभावयति तच्छीलं मे मनो जातमिति शेषः, अत एव तं भ्रातरं नष्टं हिंसितं ज्ञात्वा स्नेहात् तद्विषयकातिप्रीतेः हेतोः आगतसंभ्रमः प्राप्तोद्वेगः आसमिति शेषः ॥ ४।९।१६ ॥

अथेति । अथानन्तरं दीर्घस्य कालस्य अपगमे सतीति शेषः, तस्माद्बिलाद्विनिस्सृतं सफेनं रुधिरं दृष्ट्वा ततस्तस्माद्दर्शनात् अहं भृशदुःखितः अभवमिति शेषः ॥ ४।९।१७ ॥

नर्दतामिति । नर्दतामसुराणां ध्वनिः मे श्रोत्रमागतः प्राप्तः । संग्रामे रतस्य क्रोशतो ऽपि गुरोः वालिनः स्वनः न श्रोत्रमागतः श्रोत्रमागत इत्युभयान्वयि ॥ ४।९।१८ ॥

अहमिति । तैः बिलनिर्गतरुधिरासुरमात्रगर्जनादिभिः चिह्नैः भ्रातरं हतं बुद्धया स्वविचारेण अवगतः निश्चयवान् अहमासमिति शेषः, अत एव गिरिमात्रया पर्वतनिभया शिलया बिलद्वारं पिधाय राक्षसकर्तृकबहिर्निगमनाभावाय आच्छाद्य शोकार्तः सन् उदकं कृत्वा किष्किन्धामागतः प्राप्तः । सार्धश्लोक एकान्वयी ॥ ४।९।१९ ॥

गूहमानस्येति । तत्त्वं वालिवधं यत्नतो ऽनेकविधोपायैर्गूहमानस्य शत्र्वाक्रमणादिशङ्कया गोप्यमानस्य मे मन्त्रिभिरमात्यैः श्रुतं तेषां संनिधौ मया कथितमित्यर्थः । ततस्तस्माद्धेतोः समेतैः तैः मन्त्रिभिः अहमभिषेचितः ॥ ४।९।२० ॥

राज्यमिति । न्यायतो राज्यं प्रशासतो मम अभिमुखमिति शेषः । वानरो वाली रिपुं हत्वा आजगामा ॥ ४।९।२१ ॥

अभिषिक्तमिति । अभिषिक्तं मां दृष्ट्वा क्रोधात् संरक्तलोचनो वाली मदीयान् मन्त्रिणो बद्धा परुषं वाक्यमब्रवीत् ॥ ४।९।२२ ॥

निग्रह इति । निग्रहे तत्परुषवाक्यादिनिरोधे समर्थस्यापि मे बुद्धिः भ्रातृगौरवयन्त्रिता भ्रातृगौरवहेतुकप्राप्तसंकोचा सती तं वालिनं प्रति न प्रावर्तत ॥ ४।९।२३ ॥

हत्वेति । शत्रुं हत्वा मे भ्राता यदा पुरं प्रविवेश तदा महात्मानं तं वालिनं मानयन् सन् यथावत् अभ्यवादयं तेन वालिना च प्रहृष्टेन अन्तरात्मना मनसा आशिषो न उक्ताः । सार्धश्लोक एकान्वयी ॥ ४।९।२४,२५ ॥

नत्वेति । तस्य वालिनः पादावहं नत्वा मुकुटेन अस्पृशं वाली तु क्रोधात् प्रसादं न चकार ॥ ४।९।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे नवमः सर्गः ॥ ४।९ ॥