००८ रामेण वालिवधनिश्चयः

रामं प्रति सुग्रीवोक्तिमाह परितुष्ट इत्यादिभिः । तेन रामोक्तेन वाक्येन परितुष्टः अत एव हर्षितः प्राप्तानन्दः सुग्रीवः लक्ष्मणस्याग्रजं राममिदमब्रवीत् ॥ ४।८।१ ॥

तद्वचनाकारमाह सर्वेत्यादिभिः । उपपन्नः स्वाभाविकसकलसंपत्तिविशिष्टः गुणोपेतः सकलसद्गुणयुक्तः भवान् मे भवान् यस्य मम सखा सो ऽहं देवतानां सर्वथा ऽनुग्राह्यः अनुग्रहणीयः । “उपपन्नगुणोपेतः” इति भूषणपाठः ॥ ४।८।२ ॥

शक्यमिति । हे राम सहायेन त्वया सुरराज्यमपि प्राप्तुं शक्यं स्वराज्यं प्राप्तुं शक्यमिति किमुत ॥ ४।८।३ ॥

स इति । यस्य मम अग्निसाक्षिकमग्निसाक्षिपूर्वकं राघववंशजं मित्रं लब्धं सो ऽहं बन्धूना सुहृदां च सभाज्यः पूजनीयः । यस्येत्यत्र संबन्धसामान्ये षष्ठी ॥ ४।८।४ ॥

अहमिति । ते अनुरूपः योग्यः वयस्यः सखा अहमपि अस्मीति शेषः, इति शनैः यथाकार्यं ज्ञास्यसे । ननु केन गुणेनानुरूपो ऽसीत्यत आह आत्मगतान् गुणान् स्वयं वक्तुमहं न समर्थः । एतेन स्वस्यातीव दुःखादिमत्त्वं सूचितम् ॥ ४।८।५ ॥

महात्मनामिति । महात्मनां पूज्यस्वभावानां कृतात्मनां यतचित्तानामात्मवतां निश्चलधैर्याणां त्वद्विधानां भूयिष्ठं धैर्यमिव प्रीतिः अर्तिषु स्नेहः निश्चला भवति ॥ ४।८।६ ॥

रजतमिति । साधूनां वयस्यानां रजताद्युपलक्षितवस्तुजातानि अविभक्तानि स्ववस्तुजातादभिन्नानि साधवो वयस्याः अवगच्छन्ति अत एव आढ्यः संपत्तिमान् वा दुःखितो वा निर्दोषो वा सदोषो वा वयस्यः सखैव परमा गतिः, वयस्यानामिति शेषः । अत एव तथाविधमत्युत्कर्षं स्नेहं वयस्यप्रीतिं दृष्ट्वा अनुभूय वयस्यार्थे वयस्यप्रयोजनाय धनत्यागादयः प्रवर्तन्ते । श्लोकत्रयमेकान्वयि ॥ ४।८।७९ ॥

तदिति । तत् वयस्ययोर्धनादिभेदो नास्तीत्येतत्प्रतिपादकसुग्रीववचनं तथेति लक्ष्म्या स्वतःसिद्धसंपत्योपलक्षितो रामः वासवस्य इन्द्रस्येव लक्ष्मणस्याग्रतः सुग्रीवमब्रवीत् ॥ ४।८।१० ॥

तत इति । रामं स्थितं दृष्ट्वा वने सर्वतः चतुर्दिक्षु लोलं चञ्चलं चक्षुरपातयत् अलोकयत् इत्यर्थः ॥ ४।८।११ ॥

स इति । हरीश्वरो वानरराजः सुग्रीवो अविदूरे निकटे सुपुष्पं शोभनपुष्पयुतम् ईषत्पत्राढ्यम् ईषत्पत्रैः ह्रस्वपर्णैः संपन्नं भ्रमरैरुपशोभितं शालं तदभिधतरुं ददर्श ॥ ४।८।१२ ॥

तस्येति । तस्य शालस्य पर्णबहुलामेकां शाखां भङ्क्त्वा रामस्याग्रे इति शेषः, आस्तीर्य सराघवः सुग्रीवो निषसाद ॥ ४।८।१३ ॥

ताविति । आसीनौ तौ रामसुग्रीवौ दृष्ट्वा हनुमानपि शालशाखां समुत्पाट्य विनीतं लक्ष्मणमुपवेशयत् । एतेन पूर्वदत्तशाखासनयोः अतिसुखप्रदत्वं नेति ध्वनितम् ॥ ४।८।१४ ॥

सुखेति । सालपुष्पावसंकीर्णे सालपुष्पैर्व्याप्ते गिरिवरोत्तमे गिरिवरस्योत्तमप्रदेशे प्रसन्नमुदधिं समुद्रमिव सुखोपविष्टं रामं ददर्शेति शेषः ॥ ४।८।१५ ॥

तत इति । ततः प्रसन्नतया रामस्य स्थितिदर्शनात् हेतोः प्रणयात् प्रणयं प्राप्य हर्षव्याकुलिताक्षरं यथा भवति तथा सुग्रीवो राममुवाच ॥ ४।८।१६ ॥

तद्वचनाकारमाह अहमित्यादिभिः । अहमित्यारभ्य श्लोकचतुष्टयमेवमानुपूर्वीकं पञ्चमसर्गे पठितमिति तद्व्याख्यानेनैव गतार्थत्वान्न व्याख्यायते । पौनरुक्त्यं तु न पूर्वप्रार्थितस्य स्मारकत्वात् ॥ ४।८।१७ ॥

स इति ॥ ४।८।१८ ॥

वालिन इति ॥ ४।८।१९ ॥

एवमिति ॥ ४।८।२० ॥

तद्वचनाकारमाह उपकारेति । उपकारः फलं बोधकं यस्य तत् मित्रं भवतीति शेषः । अपकारो ऽरिलक्षणम् अरिबोधकं सामान्ये नपुंसकम् अतः तव भार्यापहारिणमद्यैव वधिष्यामि ॥ ४।८।२१ ॥

तद्वधयोग्यतासंभवायाह इमे इति । पत्रिणः कङ्कपत्रविशिष्टाः तिग्मतेजसः हेमविभूषिताः इमे शराः कार्तिकेयवनोद्भूताः स्कन्दोत्पत्तिभूमिकाननप्रादुर्भूतकाण्डकाः । एतेन तेषामभेद्यत्वं बोधितं तदुद्भूतशरणामभेद्यत्वेन प्रसिद्धत्वात् ॥ ४।८।२२ ॥

कङ्केति । अयं पूर्वो व्याख्यातः ॥ ४।८।२३ ॥

वालीति । वालिसंज्ञममित्रं शत्रुं ते भ्रातरं विकीर्णं हिंसितं पर्वतामिव शरैर्विनिहतं पश्य ॥ ४।८।२४ ॥

राघवस्येति । वाहिनीपतिः वानरसेनाधीशः सुग्रीवः राघवस्य वचः श्रुत्वा अतुलं प्रहर्षं लेभे । साधु साधु इति उक्त्वा अब्रवीच्च ॥ ४।८।२५ ॥

तद्वचनाकारमाह रामेति । हे राम अहं शोकाभिभूतः भवान् तु शोकार्तानां गतिः वयस्यः सखा च इति कृत्वा इति हेतोः त्वयि त्वत्समीपे अहं परिदेवये स्वदुःखं कथयामि ॥ ४।८।२६ ॥

त्वमिति । पाणिप्रदानेन अग्निसाक्षिकं यथा भवति तथा मे मया वयस्यः कृतः अतः त्वं मे प्राणैः प्राणेभ्यः बहुमतः अधिकं ज्ञातः इति सत्येन सत्यावलम्बेन अहं शपामि शपथं करोमि ॥ ४।८।२७ ॥

वयस्य इति । वयस्य इति कृत्वा विस्रब्धः जातविश्वासो ऽहं यत् दुःखं नित्यशः मे मनो हरति क्षिणोति तत् प्रवदामि ॥ ४।८।२८ ॥

एतावदिति । बाष्पदूषितलोचनः अश्रुव्याप्तनयनः सुग्रीवः एतावद्वचनमुक्त्वा बाष्पदूषितया वाचा हेतुभूतया उच्चैर्भाषितुं न शक्नोति ॥ ४।८।२९ ॥

बाष्पेति । आगतं नदीवेगमिव बाष्पवेगं धैर्येण सुग्रीवो धारयामास रुरोध ॥ ४।८।३० ॥

स इति । स सुग्रीवः बाष्पं निगृह्य संरुध्य शुभे नयने प्रमृज्य च राघवं पुनरूचिवान् ॥ ४।८।३१ ॥

तद्वचनाकारमाह पुरेति । पुरा पूर्वं परुषाणि वचांसि संश्राव्य वालिना स्वात् ज्येष्ठत्वेन तद्योग्यात् तदीयात् राज्यात् अवरोपितः हृताधिकारो ऽहं निर्धूतः निःसारितो ऽस्मि ॥ ४।८।३२ ॥

हृतेति । प्राणेभ्यो ऽपि गरीयसी मे भार्यां हृता । ये मदीयाः सुहृदस्ते बन्धनेषु कारागारेषु संयता निरुद्धा ॥ ४।८।३३ ॥

यत्नवानिति । दुष्टात्मा स वाली मद्वधाय यत्नवान् अस्तीति शेषः, अत एव तत्प्रयुक्ता मद्वधाय प्रेषिता बहुशो वानरा मया निहताः ॥ ४।८।३४ ॥

शङ्क्येति । त्वां दृष्टा ऽपि एतया वालियत्नजनितया शङ्कया भीतो ऽहं नोपसर्पामि हि यतः भये भयहेतौ सर्वे बिभ्यति ॥ ४।८।३५ ॥

केवलमिति । हनुमत्प्रमुखाः हनुमत्प्रभृतयः इमे कपयः केवलं सहायाः अतः कृछ्रगतः सन्नप्यहं प्राणान् धारयामि ॥ ४।८।३६ ॥

साहाय्यप्रकारमाह एत इति । स्निग्धाः मद्विषयकस्नेहयुक्ता एते कपयः समन्ततो मां रक्षन्ति गन्तव्यदेशे मया सह गच्छन्ति च स्थिते मयि सतीति शेषः, तिष्ठन्ति ॥ ४।८।३७ ॥

संक्षेप इति । हे राम एष संक्षेपः संक्षिप्योक्तमित्यर्थः । विस्तरमुक्त्वा मे किं प्रयोजनमिति शेषः, न प्रयोजनमित्यर्थः । ननु तर्हि किं कर्तव्यमित्यत आह सः मद्वधविषयकयत्नवान् अत एव रिपुः विश्रुतपौरुषः मे मम भ्राता वाली अस्तीति शेषः, तद्विनाशे सत्येव अनन्तरं व्यवधानरहितं मे दुःखं प्रमृष्टं प्रणष्टं स्यात् अत एव सुखं सुखविशिष्टं मे जीवितं तद्विनाशनिबन्धनं वालिविध्वंसाधीनमेव । अपिरेवार्थे । श्लोकद्वयमेकान्वयि ॥ ४।८।३८,३९ ॥

एष इति । यतः सख्युर्गतिः रक्षकः दुःखितः सुखितो वा सखैव अतः शोकार्तेन मया शोकान्तः शोकविध्वंसोपायः निवेदितः कथितः ॥ ४।८।४० ॥

श्रुत्वेति । एतत् सुग्रीवोक्तं वचो रामः श्रुत्वा सुग्रीवमब्रवीत् । तद्वचनाकारमाह किमिति । भ्रातुर्वालिनो वैरं किंनिमित्तं किंकारणकमभूत्तत्तत्त्वतः इच्छामि श्रोतुमिति शेषः ॥ ४।८।४१ ॥

तत्प्रयोजनमाह सुखमिति । तव वैरस्य कारणं श्रुत्वा बलाबलं युवयोः प्राबल्यनैर्बल्ये संप्रधार्यं ज्ञात्वा आनन्तर्यम् अन्तररहितं तव सुखं विधास्यामि । आनन्तर्यमित्यत्र स्वार्थे ख्यञ् ॥ ४।८।४२ ॥

श्रवणप्रयोजनमाह बलवानिति । अवमानितम् अपराधमन्तरा तत्कर्तृकानादरवन्तं त्वां श्रुत्वा अम्भसो जलस्य प्रावृड्वेग इव हृदयोत्कम्पी बलवान् ममामर्षो वर्धते । अवमानितं श्रुत्वेत्यनेन तदपराधाभावे तं न हन्तास्मीति व्यञ्जितं तेन रामस्य मर्यादापालकत्वं व्यक्तम् । अमर्षो वर्धते इत्यनेन कोपोद्गममन्तरा वधस्याशक्यत्वं सूचितम् ॥ ४।८।४३ ॥

दृष्ट इति । यावत्कालं मया धनुः आरोप्यते तावत्कालं विस्रब्धः मद्विषयकविश्वासवान् अत एव हृष्टस्त्वं कथय वैरहेतुमिति शेषः । हर्षे हेतुमाह यदा बाणो मया सृष्टः त्यक्तस्तदैव तव रिपुर्निरस्तः विध्वस्त इत्यवेहीति शेषः ॥ ४।८।४४ ॥

एवमिति । काकुत्स्थेन रामेण एवमुक्तः सुग्रीवः वानरैः सह प्रहर्षं लेभे ॥ ४।८।४५ ॥

तत इति । ततः प्रहर्षप्राप्त्यनन्तरं प्रहृष्टवदनः सुग्रीवः लक्ष्मणाग्रजे रामे वैरस्य तत्त्वमाख्यातुमुपचक्रमे ॥ ४।८।४६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टमः सर्गः ॥ ४।८ ॥