रामवचनश्रवणानन्तरकालिकं सुग्रीववृत्तान्तमाह– एवमिति । आर्तेन रामेण एवमुक्तः अत एव बाष्पगद्गदः सुग्रीवः प्राञ्जलिः सन् सबाष्पं राममब्रवीत् ॥ ४।७।१ ॥
तद्वचनाकारमाह– नेत्यादिभिः । दौष्कुले यस्य दुष्कुले प्रसूतस्य । तत्कुलस्य दुष्कुलत्वं तु तन्मातुः राक्षसीत्वेन । पापरक्षसस्तस्य रावणस्य निलयं स्थितिं सामर्थ्यं शौर्यं विक्रमं बलं च आकुलं चञ्चलचित्तत्वं तत्कारणं चेत्यर्थः, सर्वथा सर्वप्रकारेण न जाने सामान्यतो जाने इत्यर्थः । एतेन तस्य नैकत्र स्थितिरिति मायावित्वं च व्यञ्जितम् अत एव “द्वीपस्तस्य शतयोजनमायतः । अगम्यो मानुषैर्द्वीपस्तं मार्गध्वं समन्ततः । रक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः” इति वक्ष्यमाणेन न विरुध्यते ॥ ४।७।२ ॥
सत्यमिति । मैथिलीं त्वं यथा प्राप्स्यसि तथा यत्नं करिष्यामि इति सत्यमहं प्रतिजानामि अतः शोकं त्यज ॥ ४।७।३ ॥
रावणमिति । आत्मपौरुषं सेनामित्यर्थः, परितोष्य संतोष्य रावणं हत्वा यथा त्वं प्रीतो भविष्यसि तथा नचिरात् शीघ्रम् अहं कर्तास्मि ॥ ४।७।४ ॥
अलमिति । आत्मगतं धैर्यमालम्ब्य वैक्लव्यमलं त्यक्तव्यम् । तत्र हेतुः त्वद्विधानां सदृशं योग्यं बुद्धिलाघवं न इति स्मर जानीहि ॥ ४।७।५ ॥
मयेति । भार्याविरहजं व्यसनं दुःखं मया ऽपि प्राप्तं परंतु एवं न शोचामि । तत्र हेतुः धैर्यं न परित्यजे ॥ ४।७।६ ॥
नेति । प्राकृतः स्वाभाविको वानरः सन्नप्यहं तं स्वस्त्रियं न शोचामि महात्मत्वादिविशिष्टस्त्वं न शोचसीति किं वक्तव्यम् ॥ ४।७।७ ॥
बाष्पेति । सत्त्वयुक्तानां मर्यादां निबद्धां बोधितामित्यर्थः, धृतिं धैर्यमुत्स्रष्टुं त्यक्तुं त्वं नार्हसि अत एव आपतितं बाष्पं धैर्यात् निग्रहीतुमर्हसि ॥ ४।७।८ ॥
धैर्यमाहात्म्यमाह व्यसन इति । व्यसने प्रियवियोगे वा अर्थकृच्छ्रे धननाशे वा जीवितान्तगे जीवनध्वंसप्रापके भये वा धृतिमान् जनः स्वया बुद्ध्या विमृशन् विचारयन् सन्नावसीदति ॥ ४।७।९ ॥
बालिश इति । यो नरः बालिशः विचाररहितः सन् वैक्लव्यं विकलतां स्वस्थचित्तरहित्वमित्यर्थः, नित्यमनुवर्तते प्राप्नोति स नरः जले भाराक्रान्ता नौरिव शोके मज्जति शोकान्न निवर्तते इत्यर्थः ॥ ४।७।१० ॥
एष इति । पौरुषं स्वैकनिष्ठपरमपुरुषत्वं श्रय स्मरेत्यर्थः । अत एव शोकस्य अन्तरमवकाशं दातुं नार्हसि अत एव प्रणयात् प्रणयं प्राप्य एषः अञ्जलिर्मया बद्धः त्वां प्रासादये च ॥ ४।७।११ ॥
ये इति । ये जनाः शोकमनुवर्तन्ते प्राप्नुवन्ति तेषां सुखं न विद्यते तेजश्च क्षीयते अतः शोचितुं नार्हसि ॥ ४।७।१२ ॥
शोकेनेति । शोकेन अभिप्रपन्नस्य युक्तस्य तव जीविते लोकस्थितावपि संशयः अतः स त्वं शोकं त्यज धैर्यमाश्रय प्राप्नुहि ॥ ४।७।१३ ॥
हितमिति । वयस्यभावेन सख्यधर्मेण हितं ब्रूमि ब्रवीमि, उपदिशामि न अतः मे वयस्यतां पूजयन् सत्कुर्वन् त्वं शोचितुं नार्हसि ॥ ४।७।१४ ॥
मधुरमिति । सुग्रीवेण मधुरं सान्त्वितो राघवः अश्रुपरिक्लिन्नं मुखं प्रमार्जयत् प्रामार्जयत् ॥ ४।७।१५ ॥
प्रकृतिस्थ इति । सुग्रीववचनात् प्रकृतिस्थः त्यक्तशोक इत्यर्थः, काकुत्स्थः सुग्रीवं संपरिष्वज्य इदमब्रवीत् ॥ ४।७।१६ ॥
तद्वचनाकारमाह कर्तव्यमिति । स्निग्धेन स्नेहयुक्तेन अत एव हितेन वयस्येन यत् कर्तव्यं तत् अनुरूपं ममोचितं युक्तं युक्तिविशिष्टं त्वया कृतम् ॥ ४।७।१७ ॥
एष इति । त्वया ऽहमनुनीतः नीतिमुक्त अत एव प्रकृतिस्थो ऽस्मीति शेषः, ईदृशो भवत्सदृशो बन्धुः अस्मिन्काले शोकग्रस्तसमये विशेषतो दुर्लभः ॥ ४।७।१८ ॥
किं त्विति । किं तु इदमुच्यते रावणस्य वशं गताया इति शेषः, मैथिल्याः परिमार्गणे यत्नस्त्वया कार्यः । राक्षसस्येत्यपि परिमार्गणेन्वयि वा ॥ ४।७।१९ ॥
मयेति । विस्रब्धेन प्राप्तविश्वासेन मया यदनुष्ठेयं कर्तव्यं तत् उच्यताम् । तत्र हेतुः वर्षासु सुक्षेत्रे सर्वं तदीप्सितनानाविधसस्यमिव तव सर्वमीप्सितं संपद्यते प्राप्स्यति ॥ ४।७।२० ॥
मयेति । यत् अभिमानात् स्वपरमपुरुषत्वाभिनिवेशात् मया समीरितं तत् तत्त्वं यथार्थमेव इत्युपधार्यतां निश्चीयताम् ॥ ४।७।२१ ॥
तत्र हेतुमाह अनृतमिति । अनृतम् मृषा मे नोक्तपूर्वं न च कदाचन वक्ष्ये सत्येनैव एतत्प्रतिजानामि अनृतं न वच्मीत्यर्थः, ते शपामि शपथं करोमीत्यर्थः ॥ ४।७।२२ ॥
तत इति । ततः तस्य राघवस्य विशेषतः प्रतिज्ञातं वचः श्रुत्वा वानरैः सचिवैः सह सुग्रीवः प्रहृष्टो ऽभवदिति शेषः ॥ ४।७।२३ ॥
एवमिति । ततो ऽनन्तरम् एकान्तसंपृक्तौ एकान्ते स्थितौ नरवानरौ रामसुग्रीवौ अन्योन्यसदृशमेवं सुखदुःखमभाषताम् ॥ ४।७।२४ ॥
महानुभावस्येति । हरिवीरमुख्यः हरिर्वानरो विद्वान् सुग्रीवः नृपाणामधिपस्य रामस्य वचो निशम्य हृदयेन मनसा कार्यं कृतं मेने ॥ ४।७।२५ ॥
श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ४।७ ॥