रामं प्रति सुग्रीवोक्तिं वर्णयन्नाह पुनरित्यादिभिः । प्रीतः सुग्रीवः राघवं पुनरब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह अयमिति । हे राम यन्निमित्तं लक्ष्मणेन सह त्वं निर्जनं वनमागतः तत् जनकात्मजा भार्या त्वया लक्ष्मणेन च वियुक्ता अत एव अन्तरम् अवसरं प्रेप्सुना रक्षसा जटायुषं गृध्रं हत्वा अपहृता अतः तेन रक्षसा भार्यावियोगजं दुःखं त्वं प्रापितः इति च मन्त्रिसत्तमः मे सेवको ऽयं हनुमान् मे आख्याति अकथयत् । मेशब्द उभयान्वयी । सार्धश्लोकत्रयमेकान्वयि ॥ ४।६।१४ ॥
ननु किं तत्कथनेनेत्यत आह भार्येति । नष्टां राक्षसेनापहृतां वेदश्रुतीं
वेदश्रुतिमिव तां सीतामहमानयिष्यामि आनेष्यामि अतो भार्यावियोगजं दुःखम् अचिरात् शीघ्रं विमोक्ष्यसे त्यक्ष्यसि ॥ ४।६।५ ॥
ननु तस्याः स्थितिरेव न विज्ञायते इति कथमानेष्यसीत्यत आह रसातले इति । रसातले वर्तन्तीं वा नभःस्थले वर्तन्तीं वा तव भार्यामानीय दास्यामि ॥ ४।६।६ ॥
इदमिति । सा सीता सेन्द्रैः इन्द्रसहितैः सुरासुरैरपि जरयितुं गोपयितुमित्यर्थः, न शक्या इदं मम वचः तथ्यं सत्यमवेहि ॥ ४।६।७ ॥
तवेति । भार्या भार्यापहरणं विषकृतं विषेण संमिश्रं भक्ष्यमिव एतेनोपमालङ्कारेण यथा विषमिश्रभक्ष्यभक्षणकर्तारो विनश्यन्ति तथा सीतापहर्ता विनङ्क्ष्यतीत्युपमालङ्कारः सूचितः, अतस्ते कान्तामानयामि त्वं शोकं त्यज ॥ ४।६।८ ॥
अनुमानादिति । रौद्रकर्मणा रक्षसा रावणेन ह्रियमाणा स्वदेशं प्राप्यमाणा अत एव रावणस्याङ्के रावणकर्तृकगमनप्रेरणायां राम रामेति लक्ष्मणेति च विस्वरं यथा भवति तथा क्रोशन्ती पन्नगेन्द्रवधूरिव स्फुरन्ती प्रकाशयन्ती मया दृष्टा सा मैथिली सीतैव इत्यनुमानादहं जानामि । यथाशब्द इवार्थे । अनुमानप्रकारस्तु इयं नैतत्संबन्धिनी एतत्स्पर्शभीतात्वात् चाण्डालस्पर्शभीतब्राह्मणवत् । इयं सीता निरन्तरं राममनस्कात्वात् यन्नैवं तन्नैवम् इयं राममनस्का असकृत् तत्प्रार्थनाबोधकशब्दवतीत्वात् शंभुवत् । श्लोकद्वयमेकान्वयि ॥ ४।६।९,१० ॥
आत्मनेति । आत्मना स्वेन पञ्चमं मन्त्रिचतुष्टयसहितमित्यर्थः, शैलतले स्थितं मां दृष्ट्वा तया सीतया उत्तरीयं त्यक्तं शुभान्याभरणानि च त्यक्तानि ॥ ४।६।११ ॥
तानीति । तानि उत्तरीयादीनि अस्माभिर्गृहीतानि निहितानि संस्थापितानि च अतस्तानि आनयिष्यामि आनेष्यामि प्रत्यभिज्ञातुं सीतासंबन्धित्वेन निश्चेतुं त्वमह्रसि ॥ ४।६।१२ ॥
तमिति । ततः सुग्रीववचनश्रवणानन्तरं शीघ्रमानयस्व किमर्थं प्रविलम्बसे इति प्रियवादिनं सुग्रीवमब्रवीत् ॥ ४।६।१३ ॥
एवमिति । एवमुक्तः सुग्रीवः गहनामन्यैर्दुर्गमां शैलस्य गुहां शीघ्रं प्रविवेश ॥ ४।६।१४ ॥
उत्तरीयमिति । वानरः स सुग्रीव उत्तरीयम् आभरणानि च गृहीत्वा इदं पश्येति रामाय दर्शयामास ॥ ४।६।१५ ॥
तत इति । ततो ऽनन्तरं वास आभरणानि च गृहीत्वा नीहारेण चन्द्रमा इव बाष्पसंरुद्धो ऽभवत् ॥ ४।६।१६ ॥
सीतेति । सीतास्नेहप्रवृत्तेन बाष्पेण दूषितः व्याप्तः स रामः धैर्यमुत्सृज्य हा सीते इति रुदन् सन् क्षितौ न्यपतत् ॥ ४।६।१७ ॥
हृदीति । तं सीतासंबन्धिनमलङ्कारं बहुशो ऽनेकवारं हृदि कृत्वा बिलस्थो रोषितः सर्प इव भृशमत्यन्तं निशश्वास ॥ ४।६।१८ ॥
अविच्छिन्नेति । अविच्छिन्नाश्रुवेगो रामः पार्श्वतः सौमित्रिं प्रेक्ष्य दीनं यथा भवति तथा परिदेवयितुं विलापयितुं समुपचक्रमे ॥ ४।६।१९ ॥
तद्विलापाकारमाह– पश्येति । ह्रियमाणया वैदेह्या संत्यक्तमिदमुत्तरीयं शरीरात् संत्यक्तानि भूषणानि च पश्य, दृष्ट्वा निश्चिन्वित्यर्थः ॥ ४।६।२० ॥
शाद्वलिन्यामिति । ह्रियमाणया सीताया शाद्वलिन्यां वासयुक्तायां भूम्यामिदं भूषणमुत्सृष्टं हि यतः तथारूपं पौर्वकालिकरूपविशिष्टं दृश्यते ॥ ४।६।२१ ॥
एवमिति । रामेण एवमुक्तो लक्ष्मणः केयूरे अहं न जानामि कुण्डले च न जानामि पूर्वमदृष्टत्वादिति तात्पर्यम्, नूपुरे तु नित्यं पादाभिवन्दनात् हेतोः अभिजानामि इति वाक्यमब्रवीत् । एतेन सीताचरणमन्तरा तदवयवान्तरं लक्ष्मणेन नावलोकितमिति ध्वनितम् । सार्धश्लोक एकान्वयी ॥ ४।६।२२ ॥
तत इति । ततः लक्ष्मणोक्तिश्रवणानन्तरं राघवः सुग्रीवमब्रवीत् ॥ ४।६।२३ ॥
तद्वचनाकारमाह– ब्रूहीति । हे सुग्रीव मम प्राणप्रिया भार्या रक्षसा कं देशं ह्रियमाणा सती त्वया लक्षिता ॥ ४।६।२४ ॥
क्वेति । यन्निमित्तं सर्वान् राक्षसानहं नाशयिष्यामि मैथिलीं हरता अत एव मां रोषयता येनात्मनो जीवितान्ताय मृत्युद्वारमपावृतम् उद्घाटितम् तत् मम व्यसनदं महत् रक्षः क्व वसति । श्लोकद्वयमेकान्वयि ॥ ४।६।२५,२६ ॥
ममेति । येन रजनिचरेण विमध्य वञ्चनया अस्मान् पराभूय वनान्तात् मम दयिततमा हृता तं मम रिपुं यमसंनिधिं वै कथं नयामि इति त्वं कथम् ॥ ४।६।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ४।६ ॥