००५ राम-सुग्रीवसख्यम्

रामलक्ष्मणनयनान्तरकालिकं हनुमद्वृत्तान्तमाह ऋष्यमूकादित्यादिभिः । ऋष्यमूकात् मलयं तदेकदेशमलयाभिधं गिरिं हनुमान्गत्वा कपिराजाय सुग्रीवाय राघवौ रामलक्ष्मणावाचचक्षे । एतेन राघवौ ऋष्यमूके एव हनुमता संस्थापिताविति सूचितम् ॥ ४।५।१ ॥

तद्वचनाकारमाह अयमिति । महाप्राज्ञ हे सुग्रीव दृढविक्रमः अजेयपराक्रमः सत्यविक्रमः सत्याय सत्यपरिपालनाय विक्रमः पादन्यासो यस्य सः धर्मे स्वधर्माचरणे निगदितः प्रसिद्धः अत एव पितुर्निर्देशकारक आज्ञापरिपालकः आरामः सर्वाभिरामदाता अरामः अरमतिप्रकाशममति प्राप्नोति सः इक्ष्वाकूणां कुले जातः प्रादुर्भूतो दशरथात्मजो दशरथनित्यपुत्रः अयं रामः लक्ष्मणेन भ्रात्रा सह अयं शापवशेन वालिना प्राप्तुमशक्यम् ऋष्यमूकं संप्राप्तः । श्लोकद्वयमेकान्वयि ॥ ४।५।२,३ ॥

वनगमनप्रयोजनं स्पष्टतो वदन्नाह राजेति । येन राजसूयाश्वमेधैर्वह्निरतितर्पितः शतसहस्रशः गावो दक्षिणा उत्सृष्टाः दत्ताः तपसा अतिविचारेण सत्यवाक्येन च येन वसुधा पालिता तस्य दशरथस्य पुत्रो ऽयं रामः स्त्रीहेतोः भार्यानिदर्शितमुनिपरिपालनकारणात् अरण्यं समागतः संप्राप्तः । श्लोकद्वयमेकान्वयि ॥ ४।५।४,५ ॥

तस्येति । तस्य पित्राज्ञप्तस्य अत एवारण्ये वसतः नियतस्य नित्यं यतचित्तस्यास्य रामस्य भार्या रावणेन हृता अतः स रामः शरणं स्वरक्षार्थिनं त्वामागतः प्राप्तः ॥ ४।५।६ ॥

भवतेति । भवता सख्यकामौ सख्यविषयकेच्छावन्तौ एतौ रामलक्ष्मणौ प्रगृह्य तत्संनिधिं गत्वा आनीय अर्चयस्व ॥ ४।५।७ ॥

श्रुत्वेति । हनुमतो वाक्यं श्रुत्वा हृष्टमानसः सुग्रीवः राघवात् भयं वालिप्रेषितसंभावनया समुत्पन्नभीतिं प्रजहौ अत एव गतविज्वरो ऽभवदिति शेषः ॥ ४।५।८ ॥

स इति । सुग्रीवो मानुषं रूपं कृत्वा अत एव दर्शनीयतमो भूत्वा प्रीत्या राघवं प्राप्येति शेषः, उवाच ॥ ४।५।९ ॥

तद्वचनाकारमाह भवानिति । धर्मविनीतः धर्मविषयकातिशिक्षावान् अत एव सुतपाः अतिविचारवान् अत एव सर्ववत्सलः सर्वविषयकवात्सल्यवान् भवान् अस्तीति शेषः । ननु त्वया कथं ज्ञातमित्यत आह भवद्गुणाः वायुपुत्रेण मे मह्यं तत्त्वतः आख्याताः ॥ ४।५।१० ॥

तदिति । एष त्वं वानरेण मया सह सौहार्दं यदिच्छसि तन्मम सत्कारः उत्तमो लाभश्च ॥ ४।५।११ ॥

रोचते इति । यदि मे सख्यं रोचते भवते इति शेषः, तदा एष बाहुः प्रसारितो मयेति शेषः । तत्प्रयोजनमाह पाणिना स्वहस्तेन पाणिः मम हस्तः गृह्यतां ध्रुवा अचाल्या मर्यादा गृहीतकरो न त्यक्तव्य इत्याकारकसदाचारः गृह्यतां स्वीक्रियताम् ॥ ४।५।१२ ॥

एतदिति । सुग्रीवस्य सुभाषितमेतद्वचनं श्रुत्वा संप्रहृष्टमनाः रामः पाणिना हस्तं सुग्रीवपाणिं पीडयामास दृढं जग्राह ॥ ४।५।१३ ॥

हृष्ट इति । सौहृदमालम्ब्य प्राप्य हृष्टः सुग्रीवः पीडितं सीतावियोगदुःखितं रामं पर्यष्वजत ततो ऽनन्तरम् अरिन्दमो हनूमान् भिक्षुरूपं संत्यज्य स्वेन आत्मीयेन रूपेणोपलक्षितः सन् काष्ठयोः अरण्योः पावकं वह्निं जनयामास । भिक्षुरूपं संत्यज्येत्यनेन सुग्रीवसमीपागमनसमये तद्विश्वासार्थं पुनर्भिक्षुरूपं जग्राहेति व्यञ्जितम् । सार्धश्लोक एकान्वयी ॥ ४।५।१४ ॥

दीप्यमानमिति । ततस्तयोररण्योर्दीप्यमानं वह्निं सत्कृतं यथा भवति तथा पुष्पैरभ्यर्च्य तयोः रामसुग्रीवयोर्मध्ये सुप्रीतो हनुमान् निदधौ । अर्धद्वयमेकान्वयि ॥ ४।५।१५ ॥

तत इति । ततो वह्निस्थापनान्तरं वयस्यत्वं सख्यमुपागतौ प्राप्तौ सुग्रीवो राघवश्च प्रदक्षिणं चक्रतुः ॥ ४।५।१६ ॥

तत इति । ततः अग्निसाक्ष्यपूर्वकसख्यप्राप्त्यनन्तरम् अन्योन्यमभिवीक्षन्तौ उभौ हरिराघवौ वानररामौ तृप्तिं न अभिजग्मतुः ॥ ४।५।१७ ॥

त्वमिति । यतस्त्वं मे वयस्यो ऽसि अत एव हृद्यः हृदयप्रियः अत एव नौ आवयोः दुःखं सुखं च एकमेव च एकमेव इति प्रहृष्टवत् प्रहर्षविशिष्टं अत्यानन्दकरमित्यर्थः, वाक्यं सुग्रीवो राघवमुवाच ॥ ४।५।१८ ॥

तत इति । शोभनानि पर्णबहुलानि बहुपत्राणि यस्यां तां सुपुष्पितां शालस्य वृक्षविशेषस्य शाखां भङ्क्त्वा संछिद्य आस्तीर्य सराघवः सुग्रीवः निषसाद । शाखायामित्यर्थतो लब्धम् ॥ ४।५।१९ ॥

लक्ष्मणायेति । हनूमान् परमपुष्पितां चन्दनवृक्षस्य शाखां लक्ष्मणाय ददौ ॥ ४।५।२० ॥

तत इति । प्रहृष्टः प्राप्तसंतोषः अत एव हर्षव्याकुललोचनः सुग्रीवः मधुरया गिरा श्लक्ष्णं यथा भवति तथा रामं प्रत्युवाच ॥ ४।५।२१ ॥

तद्वचनाकारमाह अहमिति । हे राम विनिकृतः भ्रात्रा निःसारितः अत एव हृतभार्यः अत एव भयार्दितः तद्भयपीडितः अत एव त्रस्तः उद्विग्नचित्तो ऽहं अवने स्वरक्षार्थम् एतत् दुर्गमुपाश्रितः नित्यं प्राप्तः सन् चरामि ॥ ४।५।२२,२३ ॥

स इति । वालिना निकृतः अत एव कृतवैरः अत एव त्रस्तः उद्विग्नः अत एव उद्भ्रान्तचेतनः कर्तव्याकर्तव्यविषयकविवेकरहितचित्तवान् सः त्वत्सख्यं प्राप्तो ऽहं वने वसामि अतः वालिनः सकाशात् भयार्तस्य मे अभयं भीतिरहितं त्वं कुरु । सार्धश्लोक एकान्वयी ॥ ४।५।२४ ॥

कर्तुमिति । काकुत्स्थ हे राम यथा मे भयं न भवेत् तथा कर्तुमर्हसि, वालिनं जहीति तात्पर्यम् । अर्धं पृथक् । एवमिति । एवमुक्तस्तेजस्वी रामः प्रहसन्निव सुग्रीवं प्रत्यभाषत । अर्धद्वयमेकान्वयि ॥ ४।५।२५ ॥

तद्वचनाकारमाह उपकारेति । मित्रम् उपकारफलम् उपकारकारकमित्यर्थः, भवतीति मे विदितं विज्ञातम् अतस्तव भार्यापहारिणं वालिनं वधिष्यामि ॥ ४।५।२६ ॥

अमोघा इति । अमोघाः नैष्फल्यरहिताः वेगिताः अतिवेगवन्तः कङ्कपत्रप्रतिच्छन्नाः तीक्ष्णाग्राः ऋजुपर्वाणः ऋजुपर्वविशिष्टाः सरोषा निशिताः तीक्ष्णदंष्ट्राः भुजगा इव मे शरा बाणाः दुर्वृत्ते दुष्टाचरणशीले वालिनि निपतिष्यन्ति । अर्धचतुष्टयमेकान्वयि ॥ ४।५।२७,२८ ॥

तमिति । आशीविषोपमैः अतिविषवत्सर्पतुल्यैः शरैः विनिहतमत एव भूमौ प्रकीर्णं प्रक्षिप्तं पर्वतमिव अद्यवालिनं पश्य ॥ ४।५।२९ ॥

स इति । आत्मनो हितं राघवस्य तद्वचनं श्रुत्वा परमप्रीतः सुग्रीवः अब्रवीत् ॥ ४।५।३० ॥

तद्वचनाकारमाह तवेति । तव प्रसादेन प्रियां भार्यां राज्यं च अहं समाप्नुयाम् इति हेतोः वैरिणं ममाग्रजं वालिनं तथा कुरु यथा सो ऽग्रजः मां पुनर्न हिंस्यात् ॥ ४।५।३१ ॥

कार्यसिद्धिसूचकसुशकुनमाह सीतेति । सुग्रीवरामप्रणयप्रसङ्गे सुग्रीवरामयोः भख्यसमये सीतादीनां क्रमेण राजीवादिसदृशानि वामानि नेत्राणि सममेककालावच्छेदेन स्फुरन्ति तत्र कपीन्द्रो वाली, क्षणदाचरा राक्षसाः स्त्रीणां वामाङ्गस्फुरणस्य शुभप्रदत्वं पुंसाममङ्गलप्रदत्वमिति तन्त्रान्तरे प्रसिद्धम् ॥ ४।५।३२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ४।५ ॥