लक्ष्मणवचनश्रवणानन्तरकालिकं हनुमद्वृत्तान्तमाह– तत इत्यादिभिः । मधुरभावं सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मन इत्यादिरामोक्त्या तन्मधुरस्वभावबोधकं कृत्यवान् । तमेव काङ्क्षमाण इति लक्ष्मणोक्त्या रामः किंचित्कृत्याकाङ्क्ष इति बोधकं च तत् रामलक्ष्मणवचः श्रुत्वा प्रहृष्टो हनुमान् सुग्रीवं सुग्रीवकार्यसिद्धिं मनसा गतः निश्चितवान् ॥ ४।४।१ ॥
तन्निश्चयमेवाह भाव्य इति । अयं रामः यत् यस्मात् कृत्यवान् प्रयोजनापेक्षः सन् प्राप्तः कृत्यं तत्प्रयोजनं च एतदुपागतम् एतं सुग्रीवमुपागतं सुग्रीवसाध्यत्वेन निश्चितमित्यर्थः, तस्माद्धेतोः सुग्रीवराज्यागमो भाव्यः अवश्यं भविष्यतीत्यर्थः ॥ ४।४।२ ॥
तत इति । ततः सुग्रीवराज्यप्राप्तनिश्चयाद्धेतोः परमसंहृष्टो हनूमान् ततस्तं रामं प्रत्युवाच ॥ ४।४।३ ॥
तत्प्रतिवचनाकारमाह किमर्थमिति । पम्पाकाननमण्डितं पम्पावनेन शोभितं नानाव्यालमृगायुतम् अत एव दुर्गं मनुष्यैर्दुर्गमं घोरं वनं सानुजस्त्वं किमर्थमागतः ॥ ४।४।४ ॥
तस्येति । तस्य हनुमतः तद्वचनं श्रुत्वा रामचोदितः लक्ष्मणः महात्मानं दशरथात्मजं रामम् आचचक्षे कथयामास ॥ ४।४।५ ॥
तत्कथनाकारमाह राजेति । दशरथो नाम राजा स्वधर्मेण राजनीत्या चातुर्वर्ण्यं नित्यमभ्यपालयत् ॥ ४।४।६ ॥
नेति । स दशरथः कंचन न द्वेष्टि अत एव तस्य दशरथस्य द्वेष्टा न विद्यते अत एव सः सर्वभूतेषु अपरः पितामह इव अभवदिति शेषः ॥ ४।४।७ ॥
अग्नीति । आप्तदक्षिणैः परिपूर्णदक्षिणाविशिष्टैः अग्निष्टोमादिभिः यज्ञैः इष्टवान् दशरथ इति शेषः । तस्य दशरथस्य पूर्वजः ज्येष्ठः पुत्रः जनैः श्रुतः विख्यातः रामो नामायम् ॥ ४।४।८ ॥
शरण्य इति । सर्वभूतानां शरण्यः शरणेहितः पुत्राणां मध्ये गुणवत्तरः राजलक्षणसंयुक्तः राज्यसंपदा संयुक्तः दशरथस्य ज्येष्ठः पुत्रः पितुर्निर्देशपारगः निर्देशपाराय आज्ञापितसमाप्तये गच्छति सः अत एव राज्याद्भ्रष्टस्त्यक्तराज्यः दिनक्षये प्रभया दिवाकर इव सीतया भार्यया ऽनुगतो ऽयं रामः वने वस्तुं मया सार्धमिहागतः । श्लोकत्रयमेकान्वयि ॥ ४।४।९११ ॥
अहमिति । कृतज्ञस्य बहुज्ञस्य अस्य रामस्य गुणैर्विलक्षणवात्सल्यादिभिर्दास्यमुपागतः प्राप्तः लक्ष्मणो नाम अवरो भ्राता ऽहम् ॥ ४।४।१२ ॥
सुखार्हस्येति । सुखार्हस्य सकलसुखयोग्यस्य महार्हस्य महेन सर्वपूज्यब्रह्मादित्रयेण अर्हस्य पूज्यस्य अत एव सर्वभूतहितात्मनः सर्वभूतहितः आत्मा यस्य तस्य वनवासे रतस्य अत एव ऐश्वर्येण विहीनस्य विहीनत्वेन प्रतीयमानस्य अस्य रामस्य भार्या रहिते आवाभ्यां शून्यसमये कामरूपिणा रक्षसा अपहृता येनापहृता तद्रक्षश्च न ज्ञायते । श्लोकद्वयमेकान्वयि ॥ ४।४।१३,१४ ॥
दनुरिति । दनुर्नाम दितेः पुत्रः शापात् हेतोः राक्षसतां गतः प्राप्तः मार्गे आवाभ्यां सङ्गत इति शेषः, तेन राक्षसेन समर्थः सुग्रीवः आख्यातः कथितः ॥ ४।४।१५ ॥
तत्कथनप्रकारमाह स इति । महावीर्यः स सुग्रीवः तव भार्यापहारिणं ज्ञास्यति एवमुक्त्वा भ्राजमानो दनुः तत्पुत्रः सुखं यथा भवति तथा स्वर्गं गतः अत एव अहं रामश्च शरणम् आश्रयभूतं रक्षाकाङ्क्षिणं वा सुग्रीवं गतौ प्राप्तौ, पृच्छतः ते तवाग्रे एतत्सर्वं याथातथ्येन आख्यातं कथितम् । श्लोकद्वयमेकान्वयि ॥ ४।४।१६,१७ ॥
रामे रक्षणसामर्थ्यमस्तीति सुग्रीवविश्वासं द्रढयितुं रामगुणान्पुनः पुनर्वर्णयन्नाह एष इत्यादिभिः । पूर्वमयोध्यायामिति शेषः, वित्तानि दत्त्वा याचकेभ्यो यथेच्छं समर्प्य अनुत्तमं सर्वोत्कृष्टं यशः प्राप्य नाथं रक्षाकामं सुग्रीवमिच्छति रक्षकत्वेन प्राप्तुं वाञ्छतीत्यर्थः ॥ ४।४।१८ ॥
सीतेति । यस्य स्नुषा पुत्रवधूः सीता आसीत् तस्य शरण्यस्य पुत्रः शरण्यः शरणहितः धर्मवत्सलः धर्मविषयकवात्सल्यवान् रामः शरणं रक्षाकामं सुग्रीवं गतः ॥ ४।४।१९ ॥
सर्वेति । सर्वलोकस्य शरण्यः शरणहितः शरणं रक्षकश्च मे गुरू राघवः शरणं रक्षाकामं सुग्रीवं गतः प्राप्तः ॥ ४।४।२० ॥
यस्येति । यस्य रामस्य प्रसादे इमाः प्रजाः सततं प्रसीदेयुः स रामः वानरेन्द्रस्य सुग्रीवस्य प्रसादं प्रसन्नतामभिकाङ्क्षते ॥ ४।४।२१ ॥
येनेति । येन दशरथेन पृथिव्यां सर्वपार्थिवा मानितः स्वसेवकत्वेन सत्कृताः तस्य पूर्वजः पुत्रः अयं रामः शरणं रक्षाकामं सुग्रीवम् आगतः । एतेन सुग्रीवेप्सितसिद्धिरवश्यं भवितेति सूचितं तेन तस्य भाग्यातिशयः सूचितः । श्लोकद्वयमेकान्वयि ॥ ४।४।२२,२३ ॥
शोकेति । शोकाभिभूते शोकपराभवकारिणि इदानीं शोकार्ते शोकपीडितत्वेन प्रतीयमाने रामे शरणं रक्षाकामं सुग्रीवं गते प्राप्ते सति सुग्रीवः यूथपैः सह प्रसादं स्वप्रसन्नतां कर्तुमर्हति । एतेन इतःप्रभृति सुग्रीवे भयं न प्राप्स्यतीति सूचितम् ॥ ४।४।२४ ॥
एवमिति । एवं ब्रुवाणं साश्रुपातनम् अश्रुपातनसहितं करुणं दयावन्तं सौमित्रिं हनूमान् प्रत्युवाच ॥ ४।४।२५ ॥
तद्वचनाकारमाह ईदृशेति । ईदृशाः भवत्सदृशाः बुद्धिसंपन्नाः दर्शनमस्मद्दृष्टिपथं प्राप्ताः दिष्ट्या अतिभाग्योदयमेतत् अत एव वानरेन्द्रेण सुग्रीवेण द्रष्टव्याः समीपतो ऽवलोकयितव्याः । एतेन तत्र भवद्भ्यां गन्तव्यमिति सूचितम् ॥ ४।४।२६ ॥
तत्र गमने भवतो ऽपि प्रयोजनं सेत्स्यनीत्याह– स इति द्वाभ्याम् । स सुग्रीवः वालिना कृतवैरः अत एव विनिकृतः निःसारितः अत एव राज्याद्विभ्रष्टः अत एव हृतदारः अत एव त्रस्तः सन् वने वसतीति शेषः, अतः अस्माभिः सह भास्करात्मजः स सुग्रीवः सीतायाः परिमार्गणे अन्वेषणे साहाय्यं करिष्यति । श्लोकद्वयमेकान्वयि ॥ ४।४।२७,२८ ॥
इतीति । मधुरया गिरा इत्येवमुक्त्वा साधु यथा भवति तथा सुग्रीवं गच्छावः इति श्लक्ष्णं वचः हनुमान्राघवं बभाषे ॥ ४।४।२९ ॥
एवमिति । धर्मात्मा लक्ष्मणः एवं ब्रुवन्तं हनुमन्तं यथान्यायं प्रतिपूज्य सत्कृत्य राघवं राममिदं प्रोवाच ॥ ४।४।३० ॥
तद्वचनाकारमाह कपिरिति । मारुतात्मजो ऽयं कपिः हृष्टः सन् यथा यथावत्कथयते तदाकारमाह सुग्रीवो ऽपि कृत्यवान् त्वत्तः स्वप्रयोजनसिद्ध्यभिलाषी अतः संप्राप्तः इहागतस्त्वं कृतकृत्यः सिद्धस्वप्रयोजनो ऽसि । एतेन नष्टाश्वदग्धरथन्यायेन द्वयोः सख्यमेव द्वयोः कार्यसाधकं भवितेति ध्वनितम् ॥ ४।४।३१ ॥
प्रसन्नेति । हृष्टः अत एव प्रसन्नमुखवर्णः मारुतात्मजो हनुमान् व्यक्तं स्पष्टं भाषते अनृतं च न वक्ष्यते वक्ति ॥ ४।४।३२ ॥
हनुमद्व़ृत्तान्तमाह तत इति । मारुतात्मजो हनुमान् वीरौ तौ राघवौ आदाय
हरिराजाय सुग्रीवाय जगाम । “गत्यर्थानां” इति कर्मणि चतुर्थी ॥ ४।४।३३ ॥
गमनाकारमाह भिक्षुरूपमिति । कपिकुञ्जरः कपिश्रेष्ठो हनुमान् भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः स्वीकारवान् सन् वीरौ रामलक्ष्मणौ पृष्ठमारोप्य जगाम ॥ ४।४।३४ ॥
स इति । विपुलयशाः बहुयशोविशिष्टः कृतकृत्यवत्सुग्रीवो रामश्च कृतकृत्य इति वक्ता उरुविक्रमः पवनसुतः गिरिवरमृष्यमूकं रामलक्ष्मणाम्यां सह प्रयातः ॥ ४।४।३५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४।४ ॥