००३ हनुमता सुग्रीववृत्तान्तकथनम्

हनुमद्गमनादिवृत्तान्तं बोधयन्नाह वच इत्यादिभिः । हनुमान् सुग्रीवस्य वचो विज्ञाय यत्र राघवौ तत्र ऋष्यमूकात् पर्वतात् पुप्लुवे जगाम ॥ ४।३।१ ॥

कपीति । अशठबुद्धितया वानरत्वसूचितशठबुद्धित्वाभावेनोपलक्षितो मारुतात्मजो हनुमान् कपिरूपं परित्यज्य तिरोधाय भिक्षुरूपं भेजे प्राप प्रसिद्धं च लोके वानराणां शठबुद्धित्वम् । एतेन वानरत्वसूचितशठबुद्धिं मां विज्ञाय रामो न संभाषेत इति हनुमत्संभावना सूचिता, रूपान्तरमगृहीत्वा भिक्षुरूपं भेजे इत्यनेन इमौ दीनदयालू इति हनुमता ज्ञातमिति व्यञ्जितं तेन तद्बुद्धेः प्रभावातिशयो व्यक्तः ॥ ४।३।२ ॥

तत इति । ततः भिक्षुरूपधारणानन्तरं श्लक्ष्णया मधुरया अत एव मनोज्ञया मनोहरया वाचा उपलक्षितः विनीतवत् विनीतत्ववत् स्थिरं यस्मिन् स हनुमान् वीरौ तौ राघवौ उपागम्य प्राप्य प्रणिपत्य च आबभाषे यथावत्प्रशशंस च । सार्धश्लोक एकान्वयी ॥ ४।३।३ ॥

तदेव भङ्ग्यन्तरेणाह समिति । वीरौ सत्यपराक्रमौ रामलक्ष्मणौ हनूमान् विधिवत्संपूज्य कामतः सुग्रीवेच्छानुसारात् मृदुवाक्यमुवाच । अर्धद्वयमेकान्वयि ॥ ४।३।४ ॥

तदाकारमाह राजर्षीति । राजर्षीणां देवपूजिता प्रतिमा प्रतिकृतिर्ययोस्तौ वरवर्णिनौ मृगगणान् अन्यांश्च वनचारिणः त्रासयन्तौ स्वतेजसा धर्षयन्तौ भवन्तौ इमं देशं कथं केन प्रकारेण प्राप्तौ । राजर्षीणामित्यत्र द्वन्द्वस्तत्पुरुषो वा । अर्धत्रयमेकान्वयि ॥ ४।३।५,६ ॥

पम्पेति । पम्पातीररुहान् पम्पायास्तीरे जातान् वृक्षान् वीक्षमाणौ इमां नदीं नदीसदृशीं पम्पां शोभयन्तौ तपस्विनौ अतिबलवन्तौ धर्यवन्तौ सुवर्णाभौ सुवर्णसदृशशरीरौ चीरवाससौ खण्डपटधरौ निःश्वसन्तौ वरभुजौ महाबाहू इमाः अदृष्टमानुषाः वन्याः प्रजाः पीडयन्तौ, किं च इमा अस्मत्प्रभृतीन् प्रजाः पीडयन्तौ निःश्वासोपलक्षितस्वदुःखदर्शनेन पीडां प्रापयन्तौ युवां कौ । नदीशब्द आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः, नद्येव तत्र काचिदिति केचित् । श्लोकद्वयमेकान्वयि । द्रुतसुवर्णस्य श्यामत्वेन दृश्यमानत्वात् अद्रुतस्य च गौरवर्णत्वेन दृश्यमानत्वात् सुवर्णवर्णाभाविति न विरुद्धं सुवर्णशब्देन अवस्थाद्वयापन्नयोर्ग्रहणे बाधकाभावात् ॥ ४।३।७,८ ॥

सिंहेति । सिंहविप्रेक्षितौ सिंहस्येव विप्रेक्षितं प्रेक्षणं ययोस्तौ, सिंहातिबलविक्रमौ सिंहातिक्रामकबलविक्रमविशिष्टौ शक्रचापनिभे इन्द्रधनुस्तुल्ये चापे धनुषी गृहीत्वा शत्रुनाशना रिपुविनाशकौ वृषभश्रेष्ठविक्रमौ वृषभश्रेष्ठस्य श्रेष्ठवृषभस्येव विक्रमः पादन्यासो ययोस्तौ हस्तिहस्तोपमभुजौ शुण्डादण्डसदृशभुजविशिष्टौ अत एव राज्यार्हौ अमरप्रख्यौ देवतुल्यौ ययोः युवयोः प्रभया असौ पर्वतेन्द्रः अवभासितः प्रकाशितः तौ युवामिह अस्मिन्देशे कथं केन हेतुना आगतौ प्राप्तौ । श्लोकत्रयमेकान्वयि ॥ ४।३।९११ ॥

पद्मेति । पद्मपत्रेक्षणौ अन्योन्यसदृशौ परस्परतुल्यौ यदृच्छया स्वेच्छया देवलोकाद्वसुन्धरां संप्राप्तौ वीरौ चन्द्रसूर्याविव इहागतौ विशालवक्षसौ वीरौ भवद्गुणज्ञानरहितेषु विशेषकं या प्रापकौ वीरौ मानुषौ नित्यमनुष्यौ देवरूपिणौ देवानामप्युत्पादकौ सिंहस्कन्धौ समदौ मदसहितौ वीरौ गोवृषाविव सकिरणवृषसदृशौ उभौ युवां समागरवनां सागरवनसहितां विन्ध्यमेरुविभूषितां कृत्स्नामिमां पृथिवीं रक्षितुं योग्यौ अहं मन्ये अतः आयताः विस्तृताः सुवृत्ताः पुष्टाः परिघोपमाः सर्वभूषणभूषार्हा इमे बाहवः किमर्थं न विभूषिताः । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ४।३।१२१५ ॥

इमे इति । चित्रे अनेकचित्रविशिष्टे श्लक्ष्णे चिक्कणे चित्रानुलेपने द्रुतसुवर्णादिनिर्मितचित्ररूपानुलेपनविशिष्टे इमे धनुषी हेमविभूषिते इन्द्रस्य वज्रे इव प्रकाशेते । अर्धद्वयमेकान्वयि ॥ ४।३।१६ ॥

संपूर्णा इति । शितैः तीक्ष्णैः जीवितान्तकरैः रिपुजीवनविध्वंसकैः पन्नगैरिव घोरैः ज्वलद्भिः प्रकाशमानैः बाणैः संपूर्णाः अत एव शुभदर्शनाः तूणा इषुधयः सन्तीति शेषः ॥ ४।३।१७ ॥

महेति । महाप्रमाणौ अतिप्रमाणविशिष्टौ विपुलौ पुष्टौ तप्तहाटकभूषणौ द्रुतसुवर्णलिखितौ एतौ खड्गौ निर्मुक्तभुजगौ त्यक्तकञ्चुकसर्पाविव विराजेते ॥ ४।३।१८ ॥

एवमिति । एवमनेन प्रकारेण परिभाषन्तं भवद्गुणान् कथयन्तं मां कस्मान्नाभिभाषथः उत्तरं वदथः । अर्धं पृथक् । ननु त्वद्विषयकज्ञानमन्तरा नोच्यते इत्यत आह– सुग्रीव इति । वानरपुंगवः वानरश्रेष्ठः भ्रात्रा विनिकृतः निःसारितः अत एव दुःखितः कश्चित्सुग्रीवो नाम धर्मात्मा जगद्भ्रमति ॥ ४।३।१९,२० ॥

प्राप्त इति । वानरमुख्यानां राज्ञा महात्मना तेन सुग्रीवेण प्रेषितः हनूमान्नाम वानरो ऽहं प्राप्तः त्वामिति शेषः ॥ ४।३।२१ ॥

ननु त्वत्प्रेषणे तस्य किं प्रयोजनमित्यत आह युवाभ्यामिति । धर्मात्मा सुग्रीवः युवाभ्यां सख्यमिच्छति । अर्धं पृथक् । ननु तेन तव कः संबन्धः इत्यत आह– तस्येति । भिक्षुरूपप्रतिच्छन्नं भिक्षुरूपेण प्रतिच्छन्नमाच्छादितस्ववानरस्वरूपं सुग्रीवप्रियकारणात् इह प्राप्तं कामगं यथेच्छं गमनकर्तारं कामरूपिणमीप्सितरूपधारणसमर्थं तस्य सुग्रीवस्य सचिवं पवनात्मजं वानरं मां विद्धि जानीहि सत्यवृत्तकथनेन रामस्तेन विज्ञात इति सूचितम् । श्लोकत्रयमेकान्वयि ॥ ४।३।२२,२३ ॥

एवमिति । वाक्यज्ञः वाक्यतात्पर्यज्ञाता वाक्यकुशलः वाक्यप्रयोगे निपुणः हनुमान् रामलक्ष्मणौ एवमुक्त्वा पुनः किञ्चन नोवाच ॥ ४।३।२४ ॥

एतदिति । तस्य हनुमतः एतद्वचः श्रुत्वा प्रहृष्टवदनो रामः पार्श्वतः स्थितं भ्रातरमब्रवीत् ॥ ४।३।२५ ॥

तद्वचनाकारमाह सचिव इत्यादिभिः । कपीन्द्रस्य सुग्रीवस्य अयं सचिवः तं सुग्रीवमेव काङ्क्षमाणस्य मम अन्तिकं समीपमागतः ॥ ४।३।२६ ॥

तमिति । वाक्यज्ञं तं सुग्रीवसचितं हनुमन्तं स्नेहयुक्तं यथा भवति तथा मधुरैर्वाक्यैः अभ्यभाष अभिभाषस्व ॥ ४।३।२७ ॥

अयं सकलवेदशास्त्रसंपन्न इति बोधयन्नाह नेति । अऋग्वेदविनीतस्य साभिप्रायऋग्वेदाभ्यासरहितस्य पुरुषस्य एवंविधं प्रभाषितुं न शक्यम् । एवमन्यत्रापि योजनीयम् । अऋग्वेदविनीतादिविशेषणविशिष्टस्य न शक्यं न शक्यं न शक्यमित्यन्वयो वा । एतेन हनुमतो निखिलवेदाभिज्ञत्वं सूचितं तेन तस्यागाधबोधत्वं व्यक्तम् ॥ ४।३।२८ ॥

नूनमिति । बहुधा अनेकप्रकार व्याकरणमनेन श्रुतमधीतम् अत एव बहु अनेकविधं व्याहरता कथयता ऽनेन किंचिन्न अपशब्दितम् अशुद्धं भाषितम् ॥ ४।३।२९ ॥

नेति । मुखादिषु अन्येषु पाण्यादिषु च दोषः मृषासंसर्गादिः न संविदितः ज्ञातः ॥ ४।३।३० ॥

वाक्यरचनानैपुण्यमाह अविस्तरमिति । अविस्तरं विस्ताररहितम् असंदिग्धं सन्देहरहितवर्णार्थविशिष्टम् अविलम्बितं संबन्धविघातकविलम्बोच्चारणरहितम् अव्यथं श्रोतृ़णां व्यथानिवर्तकं वर्णतो ऽर्थतश्चातमधुरमित्यर्थः, उरस्थं मध्यमारूपेण उरसि स्थितं कण्ठगं वैखरीत्वेन कण्ठान्निर्गतं मध्यमस्वरम् अत्युच्चैरतिनीचैरुच्चारणरहितं वाक्यं वर्तते एतस्येति शेषः ॥ ४।३।३१ ॥

तदेव भङ्ग्यन्तरेणाह संस्कारेति । संस्कारक्रमेण शिक्षाव्याकरणादिजनितधारणाविशेषानुरोधेन संपन्नां संयुक्ताम् अत एव अद्रुतां यथोक्तवर्णग्रहणध्वंसकातिशीघ्रोच्चारणरहिताम् अविलम्बितां संबन्धविघातकविलम्बोच्चारणरहितां कल्याणीं कल्याणप्रदाम् अत एव हृदयहर्षिणीं वाचमुच्चारयति हनुमानिति शेषः ॥ ४।३।३२ ॥

अनयेति । त्रिस्थानव्यञ्जनस्थया त्रिषु स्थानेषु उरःकण्ठशिरस्सु व्यञ्जनमभिव्यक्तिस्तेन तिष्ठति तया चित्रया अनया वाचा उद्यतासेः वधाय उद्यतखड्गस्यापि कस्यारेः चित्तं नाराध्यते प्रसाद्यते प्रसाद्यत एवेत्यर्थः ॥ ४।३।३३ ॥

एवमिति । यस्य पार्थिवस्य एवंविधः एतत्सदृशो दूतो न भवेत् तस्य कार्याणां गतयः प्राप्तयः कथं सिध्यन्ति न सिध्यन्तीत्यर्थः ॥ ४।३।३४ ॥

एवमिति । यस्य राज्ञः कार्यसाधकाः दूताः एवंगुणगुणैर्युक्ता भवन्ति तस्य सर्वे अर्थाः दूतवाक्यप्रचोदिताः सन्त एव सिध्यन्ति । एतेन नृपतिभिरेवंविधो दूतो ऽवश्यं संपादनीय इति व्यञ्जितं तेन हनुमति रामस्य प्रीत्यतिशयः सूचितः ॥ ४।३।३५ ॥

एवमिति । एवमुक्तः रामेणेति शेषः, सौमित्रिः वाक्यज्ञं सुग्रीवसचिवमभ्यभाषत ॥ ४।३।३६ ॥

तद्भाषणाकारमाह विदिता इति । हे विद्वन् नौ आवयोः सुग्रीवगुणा विदिताः ज्ञाताः अत एव आवां तं सुग्रीवमेव मार्गावः अन्वेषयावः ॥ ४।३।३७ ॥

यथेति । हे हनुमन् सुग्रीववचनात् यथा यत् त्वमिह ब्रवीषि तत् तव वचनात् त्वदुक्तेः करिष्यावः ॥ ४।३।३८ ॥

तदिति । तत् स्वप्रार्थिताङ्गीकारबोधकं तस्य लक्ष्मणवाक्यं निशम्य श्रुत्वा प्रहृष्टरूपः पवनात्मजः जयोपपतौ सुग्रीवविजयसिद्धौ मनः समाधाय ताभ्यां रामलक्ष्मणाभ्यां सख्यं कर्तुमियेष ॥ ४।३।३९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ४।३ ॥